पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Anapatya to aahlaada only) by Radha Gupta, Suman Agarwal, Vipin Kumar Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.) Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa etc.) Apashakuna - Abhaya (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.) Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.) Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha, Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.) Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.) Arishta - Arghya (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.) Arghya - Alakshmi (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.) Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.) Avasphurja - Ashoucha (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.) Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.) Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.) Ashvamedha - Ashvinau (Ashvamedha, Ashvashiraa, Ashvinau etc.) Ashvinau - Asi (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.) Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.) Astra - Ahoraatra (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.) Aa - Aajyapa (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya, Aaditya/sun etc.) Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.) Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.) Aayurveda - Aavarta (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.) Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.) Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )
|
|
अयास्य द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः । भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥१.६२.७॥ अयास्यः । यासः प्रयत्नः । तत्साध्यो यास्यः । न यास्योऽयास्यः । युद्धरूपैः प्रयत्नैः साधयितुमशक्य इत्यर्थः । …यद्वा । अयास्यः पञ्चवृत्तिर्मुख्यप्राणः । स हि आस्यात् मुखात् अयते गच्छति निष्क्रामति । तदुपासकोऽप्यङ्गिरा उपचारात् अयास्य उच्यते । अयुजो असमो नृभिरेकः कृष्टीरयास्यः । पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ॥८.६२.२॥ अयुजः असहायः "असमः असदृशोऽन्यैः "नृभिः देवैः "एकः मुख्यः “अयास्यः उपक्षपयितुमशक्यः "पूर्वीः कृष्टीः पूर्वतन्यः प्रजाः "अति “प्र “ववृधे अतिप्रवर्धते ।...अथवा । अयमृषिरयुजोऽसहायोऽन्यैरसदृश एक एव सन् पूर्वीः प्रजा जातानि सर्वाण्यप्यतिक्रम्य वर्धते । प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि । अभि देवाँ अयास्यः ॥९.४४.१॥ इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् । तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१०.६७.१॥ एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः । त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित् ॥१०.१०८.८॥ अनाधृष्टानि धृषितो व्यास्यन्निधीँरदेवाँ अमृणदयास्यः । मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूँरशृणाद्विरुक्मता ॥१०.१३८.४॥ अयास्यः अयासनीयश्चालयितुमशक्यः । १. चतुर्होतारः - अयास्य उद्गाता । मै १, ९, १; अयास्य उद्गाता -काठ ९, ९; राजसूयम् - तस्य ह विश्वामित्रो होतासीज्जमदग्निरध्वर्युर्वसिष्ठो ब्रह्मायास्य उद्गाता - ऐ ७, १६; अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता, इति । - तैआ ३, ५, १ २. अयास्येनाऽऽङ्गिरसेन मनुष्या उत्तरतः (आगच्छन् ) । जैउ २,३,१,२ ३. त एतम् आदित्यास् सद्यःक्रीयं यज्ञं समभरन्। .. बृहस्पतिर् उद्गाता, अयास्यो ब्रह्मा । जै ३,१८८ ४. क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्यः । माश १४,४,१,९
सोऽयास्य आङ्गिरसो अङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां
रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा
अङ्गानां रसः।
एष उ एव बृहस्पतिः। वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः।एष
उ एव ब्रह्मणस्पतिः। वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः।
एष उ एव साम। वाग्वै साऽमैष सा चामश्चेति तत्साम्नः सामत्वं यद्वेव समः प्लुषिणा
समो मशकेन समो नागेन समऽ एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते
साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद
। ऽयास्यादाङ्गिरसादयास्य आङ्गिरस माश १४.५.५.२२, १४.७.३.२८ शर्यातो वै मानवः प्राच्यां स्थल्यामयजत तस्मिन्ह भूतान्युद्गीथेऽपित्वमेषिरे १ तं देवा बृहस्पतिनोद्गात्रा दीक्षामहा इति पुरस्तादागच्छन्नयं त उद्गायत्विति। बम्बेनाजद्विषेण पितरो दक्षिणतोऽयं त उद्गायत्विति। उशनसा काव्येनासुराः पश्चादयं त उद्गायत्विति। अयास्येनाङ्गिरसेन मनुष्या उत्तरतोऽयं त उद्गायत्विति २ स हेक्षां चक्रे हन्तैनान्पृच्छानि कियतो वा एक ईशे कियत एकः कियत एक इति ३ । स होवाच बृहस्पतिं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ४ स होवाच देवेष्वेव श्रीस्स्याद्देवेष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ५ अथ होवाच बं बमाजद्विषं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ६ स होवाच पितृष्वेव श्रीस्स्यात्पितृष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ७ अथ होवाचोशनसं काव्यं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ८ स होवाचासुरेष्वेव श्रीस्स्यादसुरेष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ९ अथ होवाचायास्यमाङ्गिरसं यन्मे त्वमुद्गायेः किं ततस्स्यादिति १० स होवाच देवानेव देवलोके दध्यां मनुष्यान्मनुष्यलोके पितॄन्पितृलोके नुदेयास्माल्लोकादसुरान्स्वर्गमु त्वां लोकं गमयेयमिति - जै.उ.ब्रा. २.३.१.१० स होवाच त्वं मे भगव उद्गाय य एतस्य सर्वस्य यशो ऽसीति १ तस्य हायास्य एवोज्जगौ तस्मादुद्गाता वृत उत्तरतो निवेशनं लिप्सेत एतद्ध नारुद्धं निवेशनं यदुत्तरतः २ उत्तरत आगतोऽयास्य आङ्गिरसश्शर्यातस्य मानवस्योज्जगौ स प्राणेन देवान्देवलोकेऽदधादपानेन मनुष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेण वज्रेणास्माल्लोकादसुराननुदत – जै.उ.ब्रा. २.३.२.३ ५. ते ( असुराः ) ऽ अब्रुवन्नयं वा आस्य इति । यदब्रुवन्नयं वा आस्य इति तस्मादयमास्यः । अयमास्यो ह वै नामैषः । तमयास्य इति परोक्षमाचक्षते । जैउ २, ३, २, ७ ॥ ७. स प्राणो वा अयास्यः प्राणो ह वा एनान्स नुनुदे ८ स य एवं विद्वानुद्गायति प्राणेनैव देवान्देवलोके दधात्यपानेन मनुष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेणैव वज्रेणास्माल्लोकाद्द्विषन्तं भ्रातृव्यं नुदते जैउ २, ३, २, ८ ॥ ६. स एष एवाऽयास्यः (अन्नाद्यम् )। आस्ये धीयते तस्मादयास्यः। यद्वेवा (ऽयम् ) आस्ये रमते तस्माद्वेवाऽयास्यः ।यद्वेवा यमास्ये रमते तस्माद्वेवायास्यः।- जैउ २, ४, २, ८ । त आदित्या ऊचुः । अथ अस्माकम् अद्य सुत्या । तेषाम् नस् त्वम् एव होता असि । बृहस्पतिर्ब्रह्माऽयास्य उद्गाता घोर आङ्गिरसो अध्वर्युर् इति । तान् न प्रत्याचचक्षिरे । तम् एताभिः शिशिक्षुः । - कौब्रा. ३०.६ । तेन तꣳ ह बृहस्पतिरुद्गीथमुपासञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ ११ ॥तेन तꣳ हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते ॥ १२ ॥तेन तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ छां.उ. १.२.१३ ॥
आयास्य (सामन् ) १. अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नमाश्नात्तꣳ शुगार्च्छत्स तपोऽतप्यत स एते आयास्ये अपश्यत्ताभ्याꣳ शुचमपाहतापशुचꣳ हत आयास्याभ्यां तुष्टुवानः। तां ११.८.१० २. एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत्तामयास्य आयास्याभ्यामच्यावयत्, च्यावयति वृष्टिमायास्याभ्यां तुष्टुवानः । तां ११,८,११। ३. अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत्तदयास्य आयास्याभ्यामच्यावयत्, च्यावयत्यन्नाद्यमायास्याभ्यां तुष्टुवानः । तां ११, ८, १२ । ४. आयास्यम्भवति तिरश्चीननिधनं प्रतिष्ठायै । तां १४,३,२१ । ५. स (आयास्यः) व्यभ्रꣳशत स एतान्यायास्यान्यपश्यत्तैरात्मानꣳ समश्रीणाद्विभ्रष्टमिव वै सप्तममहर्यदेतत्साम भवत्यहरेव तेन स श्रीणाति । तां १४, ३, २२ । ६. तस्मा (अयास्यायोद्गात्र आदित्याः) अमुमादित्यमश्वꣳ श्वेतं कृत्वा दक्षिणामानय ꣳ स्तं प्रतिगृह्य व्यभ्रꣳशत स एतान्यायास्यान्यपश्यत्तैरात्मानꣳ समश्रीणात् । तां १६, १२,४ । ७. यदायास्यानि भवन्ति भेषजायैव शान्त्यै । तां १६,१२,५ । अथायास्यं बार्हतराथन्तरम्। उभौ वर्णौ समृद्ध्यै। मध्येनिधनं प्रतिष्ठायै। जै.ब्रा. ३.१८७ |