Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अवभृथ

ज्योति अप्तोर्यामसोमयागे अवभृथस्नानाय प्रस्थानकालस्य एकः दृश्यः (गार्गेयपुरम्, कर्नूल, माघशुक्ल द्वादशी, विक्रमसंवत् २०७१। अयं छायाचित्रः श्रीराजशेखरशर्मणः संग्रहतः प्राप्तमस्ति।

स्कन्दपुराणे ५.२.५९.३ कथा अस्ति यत् अश्वशिरसः राज्ञः अश्वमेधयागे अवभृथस्नानान्तरे कपिलजैगीषव्यौ सिद्धौ प्रकटितौ आस्ताम् । ताभ्यां समक्षे अश्वशिरा नारायणदेवस्य प्रशंसां करोति। तदा कपिलजैगीव्यौ तस्य समक्षे स्वात्मानौ नारायण – गरुडस्य रूपे प्रदर्श्यन्तः। कपिलः नारायणः अभवत्, जैगीषव्यः तार्क्ष्यः। अवभृथस्य संदर्भे अयं कथा चक्षुरुन्मीलनी प्रतीयते। यज्ञः नारायणः भवति। अवभृथस्य माध्यमे तार्क्ष्यस्य सृजनं भवति। अस्याः कल्पनायाः किं प्रमाणमस्ति। अग्निचयनात् पूर्वं उखासंभरणे आरुणकेतुकाग्नेः  संपादनं भवति। अस्मिन् कृत्ये सर्वेषां अपां संभरणं करणीयं भवति। आपः पुण्यानां  प्रतीकाः सन्ति। इतः करणान्तरं अस्याः उखायाः स्थापनं अग्निचित्याः प्रथमे स्तरे भवति। अयं अग्निचितिरेव तार्क्ष्यः भवितुं शक्यते। अवभृथकृत्यः वरुणदेवताकं अस्ति। वरुणः अपां स्वामी अस्ति। येषां पापानां क्षयं यज्ञेन संभवं नासीत्, तेषां क्षयं वरुणस्य कृपया संभवमस्ति। अवभृथसामस्य शब्दाः सन्ति – अग्निः तपति प्रति दहति अरातीः। अग्निः पापानां दहनं करोति। शतपथब्राह्मणे १.४.१.१० विदेघ माथवनृपतेः आख्यानमस्ति। सः नृपतिः मुखे अग्नेः धारणं करोति। यदा तस्य पुरोहितः तं आह्वयति, सः वक्तुं न शक्यते। यदा पुरोहितः घृतं इति उच्चारयति, तदा अग्निः तस्य मुखात् निर्गत्य भूमेः दहनं करोति। अत्र विदेघ, विदेह शब्दः विदह, वि-दहनस्य प्रतीकमस्ति। लक्ष्मीनारायण संहिता २.४६.९७ मध्ये विदेहस्य षड्गुणानां उल्लेखमस्ति –

गुणमात्रग्रहा ये च गुणमात्रप्रदाश्च ये ।। ९७।।
गुणदृष्टिप्रयोक्तारो गुणेष्वन्यान् प्रयुञ्जते ।
तत्त्वज्ञानप्रमोदाश्च उदासते गुणेतरात् ।। ९८ ।।
त एते षट् निर्मलाश्च विदेहाः सन्ति वर्ष्मसु ।

विदेहस्य येषां षट्पदानां उल्लेखमस्ति, तेषां पदानां सृजनं तदैव संभवमस्ति यदा पापानां दहनं भवति। अयं निर्गुणा स्थितिरस्ति। अतः पश्चात् गुणानां आविर्भावः भविष्यति।

 

संदर्भाः

इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
अच्छावभृथमोजसा ॥ऋ. ८.९३.२३

इष्टाः इष्टवन्तो यागं कृतवन्तः सप्तसंख्याकाः होत्राः होत्रकाः अवभृथम् अन्त्यदिवसम् अच्छ प्रति ओजसा स्वतेजसा सहिताः इन्द्रम् असृक्षत विसृजन्ति (सा.भा.)।

१. अथैतच्छरीरं तस्मिन्न रसोऽस्ति तन्न परास्यंस्तदपोऽभ्यवहरन्ति रसो वा आपस्तदस्मिन्नेतं रसं दधाति तदेनमेतेन रसेन संगमयति तदेनमतो जनयति स एनं जात एव सञ्जनयति तद्यदपोऽभ्यवहरन्ति तस्मादवभृथः।- माश , ,,

२. ते (गुरुतल्पगब्राह्मणहन्तार एनस्विनः )ऽपोऽभ्यवयन्ति यथाहिस्त्वचो निर्मुच्यत एवं सर्वस्मात्पाप्मनो निर्मुच्यन्तेतान्न जुगुप्सेयुःस यावन्तमश्वमेधेनेष्ट्वा लोकं जयति त्रिस्तावन्तं जयति यस्यैवं विदुष एवमेनस्विनोऽवभृथमभ्यवयन्ति । जाबालि (लुसं.) १०७ ।

३. सौत्रामण्यामवभृथः-- अवभृथनिचुंपुण निचेरुरसि निचुंपुणः इति। यो ह वाऽअयमपामावर्तः स हावभृथः स हैष वरुणस्य पुत्रो वा भ्राता वा । माश १२,,,

४. यदन्तरा क्रियते समुद्रो वरुणोऽवभृथे समुद्र ऋजीषे । काठ ३४,१६

५. वरुण्यो वाऽअवभृथः । माश ४,,१० ।

६. अग्निहोत्रम्-- ओषधयो बर्हिः। वनस्पतय इध्मः । दिशः परिधयः । आदित्यो यूपः । यजमानः पशुः । समुद्रोऽवभृथः । तै ,,,

सौत्रामणेः कौकिल्या अवभृथः -- यद्देवा देवहेडनम् । देवासश्चकृमा वयम् । अग्निर्मा तस्मादेनसः । विश्वान्मुञ्चत्वँहसः । यदि दिवा यदि नक्तम् । एनाँसि चकृमा वयम् । वायुर्मा तस्मादेनसः । विश्वान्मुञ्चत्वँहसः । यदि जाग्रद्यदि स्वप्ने । एनाँसि चकृमा वयम् । सूर्यो मा तस्मादेनसः । विश्वान्मुञ्चत्वँहसः । यद्ग्रामे यदरण्ये । यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्ये । एनश्चकृमा वयम् । यदेकस्याधि धर्मणि । तस्यावयजनमसि । यदापो अघ्निया वरुणेति शपामहे । ततो वरुण नो मुञ्च अवभृथ निचङ्कुण निचेरुरसि निचङ्कुण । अव देवैर्देवकृतमेनोऽयाट् । अव मर्त्यैर्मर्त्यकृतम् । उरोरा नो देव रिषस्पाहि । सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भुयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्रात्वी मलादिव । पूतं पवित्रेणेवाज्यम् । आपः शुन्धन्तु मैनसः । उद्वयं तमसस्परि । पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यम् । अगन्म ज्योतिरुत्तमम् । तैब्रा. २.६.६.१

उरुम्̇ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥ ...... अवभृथ निचंकुण निचेरुर् असि निचंकुणाव देवैर् देवकृतम् एनो ऽयाड् अव मर्त्यैर् मर्त्यकृतम् उरोर् आ नो देव रिषस् पाहि सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास् तस्मै भूयासुर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । तैसं १.४.४५

एतद् वै सूयवसम्̇ सोदकं यद् बर्हिश् चापश् च । एतत्  यजमानस्यायतनं यद् वेदिः । यद् पूर्णपात्रम् अन्तर्वेदि निनयति स्व एवायतने सूयवसम्̇ सोदकं कुरुते सद् असि सन् मे भूया इत्य् आह । आपो वै यज्ञः । आपो ऽमृतम् ।.....सर्वाणि वै भूतानि व्रतम् उपयन्तम् अनूप यन्ति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् इत्य् आह । एष वै दर्शपूर्णमासयोर् अवभृथः ॥ - तैसं १.७.५.३

पुरुषो वाव यज्ञस्तस्य......तन्मरणमेवास्यावभृथः – छान्दो.उ. ३.१७.५

अवभृथकाले अध्वर्युः प्रेषितः प्रस्तोता सम्राडासन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अहावोहावाः अग्निष्टपती(ग्रा. गे. १२.१२.४६५.३) इत्यवभृथसाम गायेत् । पदाय पदाय स्तोभेत् । एविश्वमित्यादि निधनम् । मन्द्रस्वरान्तं कर्षन्तः सर्वे ऋत्विजस्त्रिर्ब्रूयुः । एवं मध्ये । प्राप्य चावभृथदेशं समाप्तायामिष्टौ अवभृथनिचुम्पुणे(ला०श्रौ० २ .१ २. ९)ति पाहीत्यन्तेन स्नात्वा शिरसि त्रिरभ्युक्षेयुः – आर्षेयकल्पः उपोद्घातः

 स(आदित्यः) वा एषो अपः प्रविश्य वरुणो भवति । तस्माद् वारुणम् एक कपालम् पुरोडाशम् निर्वपन्ति ।......ते यस्याम् दिश्य् आपो भवन्ति ताम् दिशम् अभ्यावृत्य चरन्ति । सा वै प्राची दिग् यस्याम् देवताः । चतुरः प्रयाजान् यजत्य् ऋते बर्हिष्कम् । बर्हिष्मन्तम् उत्सृजति । न ह्य् अत्र बर्हिः स्तीर्यते । .... कौशीतकि ब्रा. १८.१०

 तस्य ह वा एतस्य ब्रह्म-यज्ञस्य वाग् एव जुहूर् मन उपभृच् चक्षुर् ध्रुवा मेधा स्रुवः सत्यम् अवभृथः स्वर्गो लोक उदयनम् । - बोधायन धर्मसूत्राणि २.६

१६० । अवे भृव्यः । अवभृथः । - सिद्धान्तकौमुदी उणादिकोषः ३.१६०

2-3 अवे भृञः ॥ अवभृथः । - उणादिसूत्राणि २.३