पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Anapatya to aahlaada only) by Radha Gupta, Suman Agarwal, Vipin Kumar Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.) Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa etc.) Apashakuna - Abhaya (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.) Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.) Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha, Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.) Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.) Arishta - Arghya (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.) Arghya - Alakshmi (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.) Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.) Avasphurja - Ashoucha (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.) Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.) Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.) Ashvamedha - Ashvinau (Ashvamedha, Ashvashiraa, Ashvinau etc.) Ashvinau - Asi (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.) Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.) Astra - Ahoraatra (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.) Aa - Aajyapa (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya, Aaditya/sun etc.) Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.) Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.) Aayurveda - Aavarta (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.) Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.) Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )
|
|
अर्यमा १.यदा भगवद्गीतायाः श्लोकः कथयति यत् पितॄणामर्यमा चास्मि यमः संयमतामहम्, अत्र वैदिकपौराणिकवाङ्मये येषां पितॄणां उल्लेखाः सन्ति – सोमपाः, आज्यपाः, अग्निष्वात्ताः इत्यादि, तेभ्यः प्रयोजनं नास्ति। अपितु, यः तन्त्रः जीवस्य अहंकारस्य रक्षां करोति, भौतिकदेहे जीवनधारणाय यत् – यत् आवश्यकमस्ति, तत् सर्वं ददाति, तस्य संज्ञा पितरः अस्ति। अर्यमा शब्दस्य किं तात्पर्यमस्ति। जीवस्य यः अहंकारः अस्ति, तत् अयमा अस्ति, अचेतनमनसि स्थितः अस्ति। चेतनमनसः चिन्तनं तस्योपरि प्रभावं कर्तुं न शक्यते। अयं स्थितिः अ-यमा अस्ति। अयमा स्तरतः अर्यमा स्तरस्य प्रापणं अपेक्षितमस्ति। २.वेदमन्त्रेषु मित्र, वरुण एवं अर्यम्णः उल्लेखं युगपदस्ति(संयुक्तरूपेण)। अपि च, कथनमस्ति - ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा । वृधासश्च प्रचेतसः॥- ८,०८३.०२ । अयं संकेतमस्ति यत् मित्रस्य एवं वरुणस्य सार्धं अर्यम्णः कोपि प्रगाढ सम्बन्धः अस्ति। ३. शतपथब्राह्मणे ४.१.४.१ मैत्रावरुणस्य ग्रहविषये कथनमस्ति - क्रतूदक्षौ ह वा अस्य मित्रावरुणौ । मित्रावरुणग्रहस्य ग्रहणानन्तरं आश्विन् ग्रहस्य ग्रहणं (शतपथ ४.१.५.१ ) भवति। अस्मिन् संदर्भे च्यवन-सुकन्या आख्यानस्य कथनमपि अस्ति। पुराणेषु कथितमस्ति यत् यदा शार्यातः राज्ञेः सैनिकाः ध्यानमग्नस्य च्यवनऋषेः अपकारं कुर्वन्ति, तदा तेषां मूत्र-पुरीषयोः रोधनं भवति। अयं संकेतमस्ति यत् अर्यम्णः तन्त्रस्य प्रभावं मूत्र-पुरीषोत्सर्गोपरि अपि संभवमस्ति। ४. आप.श्रौ.सू. २३.१२.४ कथयति - त्रीणि सारस्वतानि सत्त्राणि । मित्रावरुणयोः प्रथममिन्द्राग्नियोर्द्वितीयमर्यम्णस्तृतीयम्। आश्व.श्रौ.सू. १२.६.२१ कथयति यत् - अर्यम्णोरयनं त्रिकद्रुकैः। त्रिकद्रुकः इष्टेः कथनं आर्षेयकल्पे पृ.५७३ उपरि उपलब्धः अस्ति, किन्तु तस्य अभिगमनं संप्रति न संभवमस्ति। ऋ. २.२२ सूक्तस्य आरम्भः एवं भवति - त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् । अत्र महिषशब्दः उल्लेखनीयः अस्ति। अत्र कथनमस्ति यत् महिषः देहे सुरासंपादनं करोति। अपि च, महिषः यमस्य वाहनमपि अस्ति, अस्य महिषस्य ऋषभरूपे रूपान्तरणं अपि संभवमस्ति। तदा सः शंकरस्य वाहनं भवति एवं सुरायाः स्थाने सोमस्य संपादनं करोति। ५. अर्यम्णः पूर्वे फल्गुनी । जाया परस्ताद् ऋषभो ऽवस्तात् । भगस्य_उत्तरे । वहतवः परस्ताद् वहमाना अवस्तात् । - तै.ब्रा. १.५.१.२। वैदिकवाङ्मये अर्यम्णः विकासः सूर्यं यावत् भवति। अन्यत्र कथनमस्ति यत् सूर्यस्य उदयात् पूर्वावस्था अर्यमा अस्ति, उदयस्य पश्चात् भगः (अस्य कथनस्य विपर्यासमपि उपलब्धः भवति - अर्यम्णो वा एतदहर्यदुत्तराः फल्गुनीः, दानमर्यमा – मै.सं. १.६.९)। भगस्य, भाग्यस्य उदयं अर्यम्णः विकासोपरि निर्भरः अस्ति(यदद्य सूर उदितेऽनागा मित्रो अर्यमा । सुवाति सविता भगः ॥ ७,०६६.०४ )। ६.ऋग्वेदे ७,००६.०५ कथनमस्ति - यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार । अत्र अर्यपत्नीरूपे उषसः उल्लेखमस्ति। पुराणेषु अर्यम्णः पत्नीरूपेण आर्या एवं मातृकायाः उल्लेखः अस्ति। पुराणेषु कथनमस्ति यत् अर्यमापितरस्य कन्या मेना अस्ति या हिमवतः पत्नी भवति। अस्य कथनस्य वैदिक आधारं अन्वेषणीयमस्ति। ७. ऋग्वेदे १,१३९.०७ कथनमस्ति - यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन । वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ भागवतपुराणे ४.१८.१८ कथनमस्ति - वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत । आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ लेखनम् - पौष कृष्ण त्रयोदशी, विक्रमसंवत् २०७८ टिप्पणी : वेद मन्त्रों में बहुत से स्थानों पर मित्र, वरुण और अर्यमा एक साथ आते हैं। अर्यमा को अयमा प्रकृति की शक्तियों का, अघ रूपी अहंकार का देवता समझा जा सकता है। डा. फतहसिंह के अनुसार अर्यमा अर्-यमा से बना है जिसमें शक्तियां चक्र के अरों की भांति परस्पर सहयोग कर रही हैं। यह मनुष्य का सामाजिक पक्ष है। प्रथम प्रकाशन : १९९४ ई. यथा डा. फतहसिंहः कथयति स्म, ऋग्वेदे मित्रः, वरुणः, अर्यमा एतेषां त्रयाणां देवानां उल्लेखः बहुधा संयुक्तरूपेण भवति। केन कारणेन। संभावितरूपेण, भागवतपुराणस्य( ११.२.४६ ) सार्वत्रिकरूपेण उद्धृतस्य श्लोकानुसारेण - ईश्वरः तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः।। अनेनानुसारेण, अनुमानं अस्ति यत् मित्रः देवता ये भक्ताः ईश्वरस्य आधीने भवन्ति, तेषां नियामकः अस्ति। वरुणः - ये जीवाः बालिशाः सन्ति, येषां ऊर्जा वाला, विरला प्रकारा अस्ति, तेषां ऊर्जायाः संघननाय वरुणस्य कृपायाः आवश्यकता अस्ति। कृपाकरणे जीवः दुःखस्य अथवा सुखस्य अनुभवं करिष्यति, अयं गौणं भवति। ये जीवाः द्वेषं कुर्वन्ति, तेषां नियामकः अर्यमा देवः अस्ति। अस्मिन् संदर्भे केवलमेव एषा ऋचा एव प्रमाणं अस्ति। - पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः । बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥ऋ. २.२७.७॥ भगवद्गीतायां कथनमस्ति- पितॄणामर्यमा चास्मि यमः संयमतामहम् – भगवद्गीता १०.२९ अर्यमा शब्दस्य का निरुक्तिरस्ति, अयं अन्वेषणीयः। संभावितरूपेण, अर्यमा शब्दस्य पूर्वरूपं अ-यमा अस्ति। चेतनायाः सा स्थितिः यत्र यमनियमादीनां क्रियान्वनं सम्भवं नास्ति। केन कारणेन। अर्यमा पितॄणां सर्वोत्तमः अस्ति। शतपथ ब्राह्मणे १२.९.२.२ कथनम् अस्ति – मनुष्याः जागरितम्। पितरः सुप्तम्। सुप्तावस्थायां कोपि यमः – नियमः कार्यं न करिष्यति। तदा चेतनायाः या स्थितिः रूपान्तरणतः द्वेषं करोति, तस्याः रूपान्तरणाय कः उपायः अस्ति। उपायरूपेण, भागवतपुराणे ५.१८.२९ एवं देवीभागवतपुराणे ८.१० कथनम् अस्ति यत् हिरण्मय वर्षे अर्यमा कच्छपस्य/कूर्मस्य स्तुतिं करोति। अग्निचयने पञ्चचितीनां चयनं भवति।
अयं चित्रः माघ कृष्ण अमावास्या, विक्रमसंवत् २०७१तः माघ शुक्ल द्वादशी पर्यन्तं गार्गेयपुरम्, कर्नूल मध्ये अनुष्ठितस्य ज्योतिष्टोम अप्तोर्याम सोमयागतः श्री राजशेखरशर्मणः महोदयस्य संग्रहात् गृहीतमस्ति।
प्रथमानां त्रयाणां चितीनां संज्ञा श्मशानचितयः भवति। चतुर्थीचितिः कूर्मचितिः भवति। अत्र कूर्मं स्थापयित्वा तस्य पृष्ठे यागं भवति। पञ्चमीचित्यां उत्तानमुखस्य पुरुषस्य शिरस्य स्थापना भवति। ये प्रथमाः त्रयः चितयः सन्ति, येषां संज्ञा श्मशानचितयः अस्ति, तेषां संज्ञपनाय कूर्मचितेः आवश्यकता भवति। अनुमानमस्ति यत् एते श्मशानचितयः पितॄणां प्रतीकाः सन्ति। पितरः, प्रकृत्यां जीवस्य अस्तित्वहेतु अनिवार्याः आवेगाः – निद्रा, क्षुधा, कामादीनां संज्ञा पितरः भवति। ते पितरः जीवं पालयन्ति। कोपि विद्या गृहीता भवतु, एतेषां आवेगानां रूपान्तरणं संभवं नास्ति। किन्तु एतेषां रूपान्तरणाय अर्यमा पितरः कूर्मस्य स्तुतिं करोति। लेखनम् – माघ शुक्ल दशमी, विक्रम संवत् २०७४ ,
संदर्भ आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा । सीदन्तु मनुषो यथा ॥ १,०२६.०४ देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते । विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः ॥१,०३६.०४ प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥१,०४०.०५ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । नू चित्स दभ्यते जनः ॥१,०४१.०१ श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः । आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥ १,०४४.१३ यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः । अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥ १,०७९.०३ यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ । इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥ १.८१.६ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् । अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥ १,०८९.०३ ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् । अर्यमा देवैः सजोषाः ॥ १,०९०.०१ राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ १,०९१.०३ यम॑श्विना द॒दथु॑: श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति । तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥ १.११६.६ हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः । अ॒र्यो गिर॑: स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कन्तू॒भये॑ष्व॒स्मे ॥ १.१२२.१४ यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन । वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ १,१३९.०७ तु. भागवत पु. ४.१८.१८ त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥ १,१४१.०९ मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒: परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑: प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥ १.१६२.१ आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । भुवन्यथा नो विश्वे वृधासः करन्त्सुषाहा विथुरं न शवः ॥ १,१८६.०२ यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम् । सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्र॑: ॥ २.१२.५ इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥ २,०२७.०१ इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त । आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥ २,०२७.०२ सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति । तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥ २,०२७.०६ पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः । बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥ २,०२७.०७ आ याहि पूर्वीरति चर्षणीरां अर्य आशिष उप नो हरिभ्याम् । इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥३,०४३.०२ अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि । युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमां अस्तु गातुः ॥ ३,०५४.१८ त्रिर॑स्य॒ ता प॑र॒मा स॑न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः । अ॒न॒न्ते अ॒न्तः परि॑वीत॒ आगा॒च्छुचि॑: शु॒क्रो अ॒र्यो रोरु॑चानः ॥ ४.१.७ अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत । स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय ॥ ४,००२.०४ कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः । अतस्त्वं दृश्यां अग्न एतान्पड्भिः पश्येरद्भुतां अर्य एवैः ॥ ४,००२.१२ ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ । द्यावो॒ न द्यु॒म्नैर॒भि सन्तो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥ ४.१६.१९ तत्सु नः सविता भगो वरुणो मित्रो अर्यमा । इन्द्रो नो राधसा गमत् ॥ - ४,०५५.१०
त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त । ते नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतो जुषन्त । नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥ ५,०४१.०२ उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे । बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा ॥ ५,०४६.०५ विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा । व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥ ५,०६७.०३ अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा । वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् ॥ ५,०८५.०७ नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्ध॑न्ते॒ रायो॑ अ॒र्यः । तूर्व॑न्तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्ष॑न्तो अव्र॒तम् ॥ ६.१४.३ अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता । अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥ ६,०२५.०७ स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः । असो॒ यथा॑ न॒: शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥ ६.३६.५ तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥ ६,०४५.३३ वरि॑ष्ठे न इन्द्र व॒न्धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा । इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥ ६.४७.९ तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम् । अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥ ६,०४८.१४ आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे । अ॒घा अ॒र्यो अरा॑तयः ॥ ६.४८.१६ वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः । ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥ ६,०५१.०२ स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् । अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥ ६,०५१.०३ स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा । इमा हव्या जुषन्त नः ॥ ६,०५२.११ इन्द्रा॑ग्नी॒ तप॑न्ति मा॒घा अ॒र्यो अरा॑तयः । अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ॥ ६.५९.८ यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार । स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः ॥ ७,००६.०५ जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः ॥ ७,०१३.०३ उ॒त न॑ ए॒षु नृषु॒ श्रवो॑ धु॒: प्र रा॒ये य॑न्तु॒ शर्ध॑न्तो अ॒र्यः ॥ ७.३४.१८ शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ ७,०३५.०२ अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा । अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः ॥ ७,०३८.०४ मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु । दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥ ७,०४०.०२ अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥ ७,०४०.०४ ते चिद्धि पूर्वीरभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् । इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम् ॥ ७,०४८.०३ आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः । अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥ ७,०५१.०२ यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् । वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥ ७,०६०.०१ उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः । यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥ ७,०६०.०४ इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति । इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥ ७.६०.५ यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः । सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥ ७,०६०.११ अर्यः। ईरयति – स्तुतीः - सायण स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवैः । प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥ ७,०६२.०२ नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु । सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६२.०६ नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु । सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ७,०६३.०६ दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् । हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥ ७,०६४.०१ यदद्य सूर उदितेऽनागा मित्रो अर्यमा । सुवाति सविता भगः ॥ ७,०६६.०४ प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । अर्यमणं रिशादसम् ॥ ७,०६६.०७ वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् । अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥ ७,०६६.११ तद्वो अद्य मनामहे सूक्तैः सूर उदिते । यदोहते वरुणो मित्रो अर्यमा यूयमृतस्य रथ्यः ॥ ७,०६६.१२ प्र वा॒मन्धां॑सि॒ मद्या॑न्यस्थु॒ररं॑ गन्तं ह॒विषो॑ वी॒तये॑ मे । ति॒रो अ॒र्यो हव॑नानि श्रु॒तं न॑: ॥ ७.६८.२ अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । अवध्रं ज्योतिरदितेर्ऋतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥ ७,०८२.१० अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । अवध्रं ज्योतिरदितेर्ऋतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥ ७,०८३.१० अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः । अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥ ७.८६.७ तत्सु नः सविता भगो वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथो यदीमहे ॥ ८,०१८.०३ येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥ ८,०१९.१६ स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् । अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥ ८.२४.२२ वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः । सजोषसा वरुणो मित्रो अर्यमा ॥ ८,०२६.११ ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः । अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥ ८,०२७.१७ वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । पत्नीवन्तो वषट्कृताः ॥ ८,०२८.०२ यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । सुगा ऋतस्य पन्थाः ॥ ८,०३१.१३ सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि । अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥ ८.४८.८ येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः । स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥ ८,०६०.१२ ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा । वृधासश्च प्रचेतसः ॥८,०८३.०२ तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । मरुतः सोमपीतये ॥ ८,०९४.०३ पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । त्रिषधस्थस्य जावतः ॥ ८,०९४.०५ रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे । पवमानस्य मरुतः ॥ ९,०६४.२४ उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता । भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥ ९,०८१.०५ राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥ ९,०८८.०८ अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् । क॒विर॒भ्रं दीद्या॑नः ॥ १०.२०.४ गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चर॑न्तीः । हवा॒ इद॒र्यो अ॒भित॒: समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ॥ १०.२७.८ उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान्द्यावापृथिवी अपः स्वः ॥ १०,०३६.०१ आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत । अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥ १०,०४०.१२ वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः । स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥ १०,०४३.०८ दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥ १०,०६४.०५ अर्यमा – अरीणां तमसां यन्ता नियन्ता - सायण अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः । आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ॥ १०,०६५.०१ पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा । देवाँ आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥ १०,०६५.०९ गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥ १०,०८५.३६ क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळय॑: । तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥ १०.९२.६ ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा । कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥ १०,०९३.०४ क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः । तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः ॥ १०,०९२.०६ ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा । नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः ॥ १०,१२६.०३ यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा । युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः ॥ १०,१२६.०४ आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विषः ॥ १०,१२६.०५ नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा । अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विषः ॥ १०,१२६.०६ शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विषः ॥ १०,१२६.०७ अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥ १०,१४१.०५ अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्र॑: सुम॒तिं च॑का॒नः । ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥ १०.१४८.३ निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा । निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥शौअ. १,१८.२ ॥ अर्यमणं यजामहे सुबन्धुं पतिवेदनम् । उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः ॥१४,१.१७॥ तु. त्र्यम्बकं यजामहे इति आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः । अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥१४,१.३९॥ गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥१४,१.५०॥ {५} आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत । अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥१४,२.५॥ शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥१९,१०.२॥ वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः । स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥२०,१७.८॥ को अर्य बहुलिमा इषूनि ॥२०,१३०.१ ॥ *प्र णो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥ अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुम्̇ सरस्वतीम्̇ सवितारम् च वाजिनम् ॥ - तै.सं. १.७.१०.२ *चातुर्मास्येषु वरुणप्रघासपर्व -- यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा । - तै.सं. १.८.३.१ *अर्यम्णे चरुं निर् वपेत् सुवर्गकामः । असौ वा आदित्यो ऽर्यमा । अर्यमणम् एव स्वेन भागधेयेनोप धावति । स एवैनम्̇ सुवर्गं लोकं गमयति । अर्यम्णे चरुं निर् वपेद् यः कामयेत दानकामा मे प्रजाः स्युर् इति । असौ वा आदित्यो ऽर्यमा । यः खलु वै ददाति सो ऽर्यमा । अर्यमणम् एव स्वेन भागधेयेनोप धावति । स एव दानकामाः प्रजाः करोति । दानकामा अस्मै प्रजा भवन्ति । अर्यम्णे चरुं निर् वपेद् यः कामयेत स्वस्ति जनताम् इयाम् इति । असौ वा आदित्यो ऽर्यमा । अर्यमणम् एव स्वेन भागधेयेनोप धावति। स एवैनं तद् गमयति यत्र जिगमिषति । - तै.सं. २.३.४.१ अर्यमाऽऽ याति वृषभस् तुविष्मान् दाता वसूनाम् पुरुहूतो अर्हन् । सहस्राक्षो गोत्रभिद् वज्रबाहुर् अस्मासु देवो द्रविणं दधातु ॥ ये ते ऽर्यमन् बहवो देवयानाः पन्थानः राजन् दिव आचरन्ति । तेभिर् नो देव महि शर्म यच्छ शं न एधि द्विपदे शं चतुष्पदे ॥ - तै.सं. २.३.१४.४ *सम्̇सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥ - तै.सं. २.६.११. *सम्̇सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥ - तै.सं. ४.४.४.४ *मघा नक्षत्रम् पितरो देवता फल्गुनी नक्षत्रम् अर्यमा देवता फल्गुनी नक्षत्रम् भगो देवता – तै.सं. ४.४.१०.१ *मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥ - तै.सं. ४.६.८.१ *अर्यम्णे लोपाशः – तै.सं. ५.२.२१ *अर्यम्णो ऽष्टमी – तै.सं. ५.७.२२ *यद् धरिणी यवम् अत्ति न पुष्टम् पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । - तै.सं. ७.४.१९. *बृहदुपस्थानम् - महि त्रीणामवोऽस्तु । द्युक्षं मित्रस्यार्यम्णः दुराधर्षं वरुणस्य – मा.श. २.३.४.३७ *अर्यमणं बृहस्पतिम् । इन्द्रं दानाय चोदय वाचं विष्णुं सरस्वतीं सवितारं च वाजिनं स्वाहा – मा.श. ५.२.२.९ *रत्नयागाः- एषा वा ऊर्ध्वा बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः पन्था – मा.श. ५.३.१.२ *भगाय स्वाहेति वीर्यं वै भगो वीर्येणैवैनमेतदभिषिञ्चत्यर्यम्णे स्वाहेति तदेनमस्य सर्वस्यार्यमणं करोत्येतान्युपरिष्टादभिषेकस्य जुहोति तान्येतान्यादित्यनामानीत्याचक्षते - मा.श. ५.३.५.९ *एषा वा ऊर्ध्वा बृहस्पतेर्दिक्तदेव उपरिष्टादर्यम्णः पन्थाः – मा.श. ५.५.१.१२ *अर्यमेति तमाहुर्यो ददाति – तै.ब्रा. १.१.२.४ *अर्यम्णो वा एतन्नक्षत्रं यत्पूर्वे फल्गुनी – तै.ब्रा. १.१.२.४, १.५.१.२, ३.१.१.८ *यः कामयेत दानकामा मे प्रजाः स्युर् इति । स पूर्वयोः फल्गुन्योर् अग्निम् आदधीत । अर्यम्णो वा एतन् नक्षत्रम् । यत् पूर्वे फल्गुनी । अर्यमा_इति तम् आहुर् यो ददाति । दानकामा अस्मै प्रजा भवन्ति । – तै.ब्रा. १.१.२.४ *ब्रह्मौदनम् -- अदितिः पुत्रकामा । साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत् । तस्या उच्छेषणम् अददुः । तत् प्राऽऽश्नात् । सा रेतो ऽधत्त । तस्यै धाता च_अर्यमा च_अजायेताम् । सा द्वितीयम् अपचत् - तै.ब्रा. १.१.९.२ *अर्यम्णः पूर्वे फल्गुनी । जाया परस्ताद् ऋषभो ऽवस्तात् । भगस्य_उत्तरे । वहतवः परस्ताद् वहमाना अवस्तात् । - तै.ब्रा. १.५.१.२ * अग्निहोत्रम् - मैत्रं दुग्धम् । अर्यम्ण उद्वास्यमानम् । त्वाष्ट्रम् उन्नीयमानम् । बृहस्पतेर् उन्नीतम् । सवितुः प्रक्रान्तम् । द्यावापृथिव्यम्̐ ह्रियमाणम् । - तै.ब्रा. २.१.८.३ *द्वादशाहे दशमेहनि प्रश्नोत्तरं -- यत् सप्तहोतारः सत्त्रम् आसत । केन ते गृहपतिना_आर्ध्नुवन् । केन सुवर् आयन् । केन_इमान्_लोकान्त् समतन्वन्न् इति । अर्यम्णा वै ते गृहपतिना_आर्ध्नुवन् । तेन सुवर् आयन् । तेन_इमान्_लोकान् समतन्वन्न् इति । - तै.ब्रा. २.३.५.३ *अर्य्यमा सप्तहोतॄणाँँ होता – तै.ब्रा. २.३.५.६ *यज्ञो वा अर्यमा । आर्या वसतिर् इति वै तम् आहुर् यं प्रशंसन्ति । आर्या वसतिर् भवति । य एवं वेद ।- तै.ब्रा. २.३.५.४ *अर्यमा राजा_अजरस् तुविष्मान् । फल्गुनीनाम् ऋषभो रोरवीति । अर्यमा वा अकामयत । पशुमान्त् स्याम् इति । स एतम् अर्यम्णे फल्गुनीभ्यां चरुं निरवपत् । ततो वै स पशुमान् अभवत् । - तै.ब्रा. ३.१.१.८ *ततो वै स (अर्य्यमा) पशुमानभवत् – तै.ब्रा. ३.१.४.९ शूद्रा यद् अर्यजारा न पोषाय धनायतीत्य् आह । तस्माद् वैशीपुत्रं नाभिषिञ्चन्ते । - तै.ब्रा. ३.९.७.३ * अर्यम्णे चरुं निर् वपेत् सुवर्गकामः । ….असौ वा आदित्यो ऽर्यमा यः खलु वै ददाति, सोऽर्यमा – तै.सं. २.३.४.१ *फल्गुनी नक्षत्रमर्यमा देवता – तै.सं. ४.४.१०.१-२ *अर्यम्णोऽष्टमी – तै.सं. ५.७.२२.१, काठ.सं. ५३.१२ द्वादशाहे षष्ठमहः माध्यन्दिन पवमानः – रसं ते मित्रो अर्यमेति रसो ह्य् एतद् अहः। यो वै पञ्चमाद् अह्नो रसो अत्यनेदत् तद् एतद् अहर् अभवत्। स एष रस एव। पिबन्तु वरुणः कवे। - - - - जै.ब्रा. ३.१४३ अष्टम अहः, आज्यस्तोत्राणि – यद् अद्य सूर उदित इति मैत्रावरुणं भवति। यद् इति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। अनागा मित्रो अर्यमा। सुवाति सविता भगः। - जै.ब्रा. ३.२०८ *अर्यम्णो वा एतदहर्यदुत्तराः फल्गुनीः, दानमर्यमा – मै.सं. १.६.९ *अर्यम्णो वा एतन्नक्षत्रं यदुत्तरा फल्गुनी – काठ.सं. ८.१ *अर्यम्णो नवमी – मै.सं. ३.१५.५ *असौ वा आदित्योऽर्यमा *आऽर्यमा याति वृषभस्तुराषाड्, दाता वसूनि विदधे तनूपाः। सहस्राक्षो गोत्रभिद्वज्रबाहुरस्मासु देवो द्रविणं दधातु – मै.सं. ४.१२.४ *एष वा अर्यमा यो ददाति – काठ.सं. ८.१, ११.४ *पिगः क्ष्विङ्का नीलशीर्ष्णी तेऽर्यम्णः – काठ.सं. ४७.५ *फल्गुनीः नक्षत्रमर्यमा देवता – मै.सं. २.१३.२० *यज्ञो वा अर्य्यमा – मै.सं. ४.२.१०, तै.ब्रा. २.३.५.४ *यो ददाति, सोऽर्यमा – मै.सं. २.३.६ *प्रावेपा अध्वर्योः अर्यमा इव ह्यध्वर्युः – मै.सं. ४.४.८ *त्र्यर्यमा मनुषो देवतातेति सूक्तं त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपं – ऐ.ब्रा. ५.१ *एताभिर्वा आदित्या द्वन्द्वमार्ध्नुवन्मित्रश्च वरुणश्च धाता चार्यमा चांशश्च भगश्चेन्द्रश्च विवस्वांश्चैतासामेव देवतानामृद्धिमृध्नुवन्ति य एता उपयन्ति – तां.ब्रा. २४.१२.४ *अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो विश्वजिदभिजिताविन्द्रकुक्षी अतिरात्रः। एतेन वार्यमैतं लोकमजयत्। यदाहुरर्यम्णः पन्था इत्येष वाव देवयानः पन्थाः। प्र देवयानं पन्थानमाप्नुवन्ति य एतदुपयन्ति। तस्मादेषोऽरुणतम इव दिव उपददृशेऽरुणतम इव हि पन्थाः – तां.ब्रा. २५.१२.१ पितॄणामर्यमा चास्मि यमः संयमतामहम् – भगवद्गीता १०.२९ त्रीणि सारस्वतानि सत्त्राणि । मित्रावरुणयोः प्रथममिन्द्राग्नियोर्द्वितीयमर्यम्णस्तृतीयम् आप.श्रौ.सू. २३.१२.४, हिरण्य.श्रौ.सू. १८.४.२२ इन्द्राग्नोरयनं १९ गोआयुषीभ्यां २० अर्यम्णोरयनं त्रिकद्रुकैः २१(आर्षेयकल्पः,पृ.५७३) – आश्व.श्रौ.सू. १२.६.२१ गृहपतौ वा मृते १९ प्लाक्षं वा प्रस्रवणं प्राप्याग्नये कामायेष्टिं निर्वपन्ति २० तस्यामश्वां च पौरुषीं च धेनुके दत्त्वा कारपचवं प्रति यमुनामवभृथमभ्यवयन्ति २१ इति मित्रावरुणयोरयनम् २२ अतिरात्रोऽभिजिद्विश्वजितौ गोआयुषी इन्द्रकुक्षी अतिरात्रः २३इतीन्द्राग्न्योः २४ अतिरात्रो ज्योतिर्गौरायुर्विश्वजिदभिजिताविन्द्रकुक्षी अतिरात्रः २५इत्यर्यम्णः २६ – शां.श्रौ.सू. १३.२९.२६ उद्गाता पृच्छति यत्सप्तहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केन सुवरायन्केनेमांल्लोकान्समतन्वन्निति ९ अर्यम्णा वै ते गृहपतिनार्ध्नुवंस्तेन सुवरायंस्तेनेमांल्लोकान्समतन्वन्निति प्रतिवचनः १० आप.श्रौ.सू. २१.११.१० अर्यम्णे चरुं निर्वपेत्सुवर्गकाम इति। तस्या एते भवतोऽर्यमायाति ये तेऽर्यमन्नित्यर्यम्णे चरुं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युरिति। तस्या एते भवतोऽर्यम्णे चरुं निर्वपेद्यः कामयेत स्वस्ति जनतामियामिति – बौ.श्रौ.सू. १३.२७.१
|