पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Anapatya to aahlaada only) by Radha Gupta, Suman Agarwal, Vipin Kumar Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.) Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa etc.) Apashakuna - Abhaya (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.) Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.) Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha, Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.) Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.) Arishta - Arghya (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.) Arghya - Alakshmi (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.) Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.) Avasphurja - Ashoucha (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.) Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.) Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.) Ashvamedha - Ashvinau (Ashvamedha, Ashvashiraa, Ashvinau etc.) Ashvinau - Asi (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.) Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.) Astra - Ahoraatra (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.) Aa - Aajyapa (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya, Aaditya/sun etc.) Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.) Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.) Aayurveda - Aavarta (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.) Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.) Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )
|
|
अप्रतिरथः वैदिकवाङ्मये सार्वत्रिकरूपेण कथनमस्ति यत् प्रवर्ग्येष्ट्यनन्तरं यदा अग्नेः प्रणयनं उत्तरवेद्यां आहवनीयं प्रति भवति, तदा ब्रह्मा ऋत्विक् यजमानाय अप्रतिरथसूक्तस्य जपं करोति। अन्यत्र कथनमस्ति यत् ब्रह्मा ऋत्विक् यज्ञे असुराञ्जेतुं यजमानस्य साहाय्यं करोति, यथा बृहस्पतिः इन्द्रस्य (शतपथ ब्राह्मणम् ९.२.३.[५])। प्रवर्ग्येष्ट्या यज्ञस्य एकस्य शीर्ष्णः निर्माणं भवति, सुत्याभिः यज्ञस्य अन्यस्य शीर्ष्णः निर्माणं भवति यस्य संज्ञा ब्रह्मौदनं अस्ति। ब्राह्मणग्रन्थानां कथनेभ्यः अयं प्रतीयते यत् ब्रह्मौदनशीर्षस्य निर्माणाय ब्रह्मणा क्षत्रस्य साहाय्यं अनिवार्यमस्ति। प्रवर्ग्येष्ट्याः किमुद्देश्यमस्ति। यः मनः ब्रह्माण्डे विचरति, यः भोज्यद्रव्यादीनां अपेक्षां करोति, तस्य आवर्तनम्। वेणीसंहारे जयद्रथस्य संज्ञा अप्रतिरथः कृतमस्ति। लौकिकरूपेण नास्ति प्रतिरथः प्रतियोद्धा यस्य सः अप्रतिरथः। सूक्ष्मदृष्ट्या अयं परिभाषा पर्याप्तं नास्ति। जयद्रथस्य विषये कथा अस्ति यत् जयद्रथः बृहत्क्षत्रस्य पुत्रः अस्ति। पित्रा तपसा पुत्राय वरमगृह्णत् यत् यः पुत्रस्य शीर्षं भूम्यां पातयिष्यति, तस्य शीर्षः शतधा विभजिष्यति। युद्धे अर्जुनेन जयद्रथस्य शीर्षं छित्वा तं शीर्षं सन्ध्याकर्मरतस्य तस्य पित्रोः उपस्थे पातयामास एवं पित्रा तस्य शिरसः भूम्यां पातनं कृतं, येन पितुः शीर्षं शतधा विभक्तमासीत् (द्रोणपर्व १४६.१०४)। अयमाख्यानं संकेतमस्ति यत् रथी अथवा प्रतिरथीभवनाय राष्ट्रीसंज्ञकस्य मेरुदण्डोपरि नियन्त्रणं आवश्यकमस्ति। अयं प्रवर्ग्यशिरस्य निर्माणमस्ति, अयं प्रतीयते। अग्रिमचरणे, ब्रह्मौदनशिरसः प्राप्त्यर्थं ब्रह्मणः, ब्राह्मणस्य सहयोगं अपेक्षितमस्ति। जयद्रथस्य पिता बृहत्क्षत्रः अस्ति, न ब्राह्मणः।
यज्ञ का अर्थ है-आदान-प्रदान। हम किसी से कुछ लें तो किसी को कुछ दें भी। जब हम लेते हैं तो हम अग्नि हैं, जब हम देते हैं तो हम सोम हैं। दोनों के मिश्रण से यज्ञ होता है। प्रश्न होता है कितना लें और कितना दें। उत्तर है कि अपना अस्तित्व बनाये रखने के लिए जितना आवश्यक है उतना लें, शेष बचा हुआ दूसरों को दें। अपनी आवश्यकता पूरी करने पर बच जाता है उसे वेद ने उच्छिष्ट कहा है। इसे यज्ञशेष भी कहा जाता है। आज की भाषा में इसे प्रसाद कहते हैं। अपने लिए जो आवश्यक है, ब्राह्मण ग्रंथ उसे ब्रह्मौदन कहते हैं, जो बच जाए उसे प्रवर्ग्य कहते हैं। एक का प्रवर्ग्य दूसरे का ब्रह्मौदन बने-यह अहिंसक जीवन शैली का मार्ग है। हम दूसरे का ब्रह्मौदन छीनें, यह हिंसक जीवन शैली है। एक उदाहरण लें। पेड़ कार्बनडाइआक्साईड लेता है, वह उसका ब्रह्मौदन है, वह जो ऑक्सीजन छोड़ता है, यह उसका प्रवर्ग्य है। पेड़ का वह प्रवर्ग्य ऑक्सीजन हमारा ब्रह्मौदन बन जाता है और हमारे द्वारा छोड़ा गया कार्बनडाइआक्साईड पेड़ का ब्रह्मौदन बन जाता है। प्राकृतिक जीवन शैली का यही अहिंसक आधार है कि एक का प्रवर्ग्य दूसरा का ब्रह्मौदन बनता रहे और आदान-प्रदान रूप यज्ञ चलता रहे।
संदर्भाः शतरुद्रियहोमे समित् आधानादि -- देवासुराः संयत्ता आसन् ते देवा एतद् अप्रतिरथम् अपश्यन् तेनैव ते ऽप्रति असुरान् अजयन् । तद् अप्रतिरथस्याप्रतिरथत्वम् । यद् अप्रतिरथं द्वितीयो होताऽन्वाहाप्रत्य् एव तेन यजमानो भ्रातृव्याञ् जयति । अथो अनभिजितम् एवाभि जयति दशर्चम् भवति दशाक्षरा विराजेमौ लोकौ विधृतौ । अनयोर् लोकयोर् विधृत्यै । - तैसं ५.४.६.३ ब्रह्माऽप्रतिरथं जपित्वा दक्षिणतोऽग्नेर्बहिर्वेद्यास्त औदुम्बर्याभिहवनात् २८ उक्तमग्निप्रणयनं २९ दीक्षितस्तु वसोर्धारामुपसर्पेत् ३० आश्व.श्रौ.सू. ४.८ .२८
ज्योतिष्टोमे ब्रह्मकर्मप्रकरणम्
--
अग्निचित्यायां चाग्नौ प्रणीयमानेऽप्रतिरथं
इत्यभीवर्तेन हविषेत्येवैनमावर्तयेदथैनमन्वीक्षेताप्रतिरथेन शासेन सौपर्णेनेति जयति ह तां सेनां – ऐ.ब्रा ८.१० अथ हैतद् अप्रतिरथम् <इन्द्रस्य बाहू स्थविरौ वृषाणौ> इति एतेन ह वा इन्द्रो ऽसुरान् प्रत्यजयत् अप्रति ह भवत्य् एतेन यजमानो भ्रातृव्यं जयति संग्रामे जुहुयाद् अप्रति ह भवति एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत् स राष्ट्र्य् अभवत् यं कामयेत राष्ट्री स्याद् इति तम् एतेन संनह्येत् राष्ट्री ह भवति एतेन ह वा इन्द्रो विराजम् अभ्यजयत् दशैवान्वाह दशाक्षरा विराड् वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते तद् उ हैक एकादशान्वाहुः एकादशाक्षरा वै त्रिष्टुप् त्रैष्टुभो वज्रः वज्रेणैवैतद् रक्षांस्य् अपसेधति दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन् तान्य् अप्रतिरथेनापाघ्नत तस्माद् ब्रह्माप्रतिरथं जपन्न् एति यद् ब्रह्माप्रतिरथं जपन्न् एति यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ गोब्रा २.१.१८ ॥ अथैतदप्रतिरथमेतेन वै देवा असुरानप्रत्यभ्यजयँस्तदप्रतिरथस्याप्रतिरथत्वमप्रत्येवैतेन भ्रातृव्यमभिजयत्येषा वै गायत्री ज्योतिष्पक्षा तयैव स्वर्गं लोकमेति दशर्चं भवति दशाक्षरा विराडन्नं विराज्येवान्नाद्ये प्रतितिष्ठत्येतेन ह स्म वै भरद्वाजः प्रतर्दनँ संनह्यन्नेति ततो वै स राष्ट्रमभवद्यं कामयेत राष्ट्रँ स्यादिति तमेतेन संनह्यन्नियाद् राष्ट्रमेव भवति – काठकसं. २१.१० ज्योतिष्टोमब्रह्मत्वम् - आहवनीये प्रणीयमानेऽप्रतिरथस्य द्वादश ब्रुवन्नग्नौ ९ सर्वत्रैके – कात्या.श्रौ.सू. ११.१.९ अग्नये प्रह्रिण्यमाणायानुब्रूह्यग्नीदेकस्फ्ययाऽनूदेहि ब्रह्मन्नप्रतिरथं जपेति – का.श्रौ.सू. १८.३.२२ सोमक्रयणम् - प्रोह्यमाणेऽप्रतिरथं जपति ११ ध्रुवं ध्रुवेणेति राजानं राजवहनादासन्द्यां नीयमानमनुमन्त्रयते - वै.श्रौ.सू. १३.१२ उदेनमुत्तरं नयेति समिध आधीयमानाः १५ संप्रेषितोऽप्रतिरथं जपति १६ क्रमध्वमग्निनेति चतसृभिश्चितिमारोहन्ति - वै.श्रौ.सू. २९.१७
आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनान्वेति
।
मैत्रावरुणः प्रतिप्रस्थाता वा
७ अग्निप्रणयने अप्रतिरथसूक्तम् – तैसं ४.६.४.१ अग्नये प्रह्रियमाणायानुब्रूह्यग्नीदेकस्फ्ययाऽनूदेहि ब्रह्मन्नप्रतिरथं जपेति...... स यः स इन्द्रः । एष सोऽप्रतिरथोऽथ यः स बृहस्पतिरेष स ब्रह्मा तद्यद्ब्रह्माप्रतिरथं जपतीन्द्रेण चैवैतद्बृहस्पतिना च दक्षिणतोऽसुरान्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते तस्माद्ब्रह्माऽप्रतिरथं जपति – माश ९.२.३.[५] अप्रतिरथः, पुं, (नास्ति प्रतिरथः प्रतियोद्धा यस्य सः ।) योद्धा इति भूरिप्रयोगः ॥ तुल्ययोद्धृरहितः । इति पुराणं ॥ (“दौष्मन्तिमप्रतिरथं तनयं प्रसूय” इति शाकुन्तले । “एतेषां तमसामिवाप्रतिरथैस्तेजोभिः” । इति महावीरचरिते ।) – शब्दकल्प. अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ? – वेणीसंहारम् २ अप्रतिरथस्य-अविद्यमानः प्रतिरथः यस्यः प्रतिरथ प्रतिरथः – ऋग्वेदः ५.४७ ऋषिः
|