पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Anapatya to aahlaada only) by Radha Gupta, Suman Agarwal, Vipin Kumar Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.) Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa etc.) Apashakuna - Abhaya (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.) Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.) Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha, Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.) Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.) Arishta - Arghya (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.) Arghya - Alakshmi (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.) Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.) Avasphurja - Ashoucha (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.) Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.) Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.) Ashvamedha - Ashvinau (Ashvamedha, Ashvashiraa, Ashvinau etc.) Ashvinau - Asi (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.) Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.) Astra - Ahoraatra (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.) Aa - Aajyapa (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya, Aaditya/sun etc.) Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.) Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.) Aayurveda - Aavarta (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.) Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.) Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )
|
|
अपचितिः वाचस्पत्यम् शब्दकोषे अपचितिशब्दस्य परिभाषा चि- पूजायां धात्वनुसारेण पूजा कृतमस्ति। सायणभाष्ये सार्वत्रिकरूपेण अपचितिशब्दस्य भाष्यं पूजा एव कृतमस्ति। विरलेषु स्थलेषु ( यथा अथर्ववेदः ६.८३) अपचितेः अर्थं निर्ऋतेः पादात् मुक्तिरपि कृतं अस्ति। अयं प्रतीयते यत् या मृत्युरस्ति, तस्याः ये पाशाः सन्ति, ये अन्ये दोषाः सन्ति, तेषां अपचितिः वांछनीयः अस्ति। ये गुणाः सन्ति, तेषां चितिः वांछनीयः अस्ति। चितिः अर्थात् चयनम्, अव्यवस्थिततन्त्रतः व्यवस्थायाः चयनम्। मृत्युः विशालतमा अव्यवस्था अस्ति। नैसर्गिकरूपेण, देहस्य स्तरे अपचितेः का व्यवस्था अस्ति। तैब्रा २.६.५.५ अनुसारेण यः पायुः, मलनिःस्सरणस्य स्थानमस्ति, तत् अपचितिः अस्ति। अपचयनं एवं अपच्यौत्नं, निस्सरणं सकृदेव भवति। अयं नैसर्गिकउपायं नाभितः अधोभागे एव उपलब्धः अस्ति। यदा नाभितः उपरिभागे कोपि व्याधिः आविर्भवति, तस्याः अपचयनं अतिकठिनं भवति। अथर्ववेदे ६.८३ एवं ६.२५ सूक्तौ उपरिभागस्य व्याधेः अपचयनेन संबद्धौ स्तः। माश १२.७.१.९ अनुसारेण त्वक् अपचित्याः अन्यः उपायः अस्ति। सर्वविदितमस्ति यत् त्वचि ये कोशाः सन्ति, तेषां मृत्युः सततं प्रचलति। कथनानुसारेण, या अपचितिः त्वचि विद्यमाना अस्ति, तस्याः निष्क्रमणं अपि संभवमस्ति। तया त्वक्तः निष्क्रमित्वा अश्वत्थे प्रवेशं कृतम्। अतः अश्वत्थतः तस्याः ग्रहणार्थं यागे अश्वत्थपात्रस्य उपयोगं कुर्वन्ति(माश १२.७.२.१०)। व्यवहारे अपचयने अश्वत्थस्य किमुपयोगमस्ति, अन्वेषणीयः। अपचितेः त्वक्तः यः सम्बन्धं अस्ति, तत् अन्येषु क्षेत्रेषु महत्त्वपूर्णमस्ति। त्वच्युपरि ये कोशाः सन्ति, ते द्वि-विमीयाः सन्ति, न त्रि-विमीयाः। आधुनिकविज्ञाने ये उत्प्रेरकद्रव्याः सन्ति, ते सर्वे द्वि-विमीयाः एव सन्ति। जैमिनीयब्राह्मणम् 2.101 इत्यादिषु अपचितेः वर्गीकरणं ब्राह्मण, क्षत्रिय, वैश्य एवं शूद्रेषु कृतमस्ति। वामनपुराणम् ८७.२५ अनुसारेण वनस्पतेः यः त्वक् भागः अस्ति, तत् शूद्ररूपः अस्ति। तैसं ५.२.२.४ अनुसारेण यस्मिन् काले उख्याग्न्याः वहनं अनसा अथवा रथेन भवति, तस्मिन् काले अपचिति अपि घटति। माश ३.४.१.[६] मध्ये सोमक्रयणस्य संदर्भे कथनमस्ति यत् यदा सोमस्य अनसः विमोचनं भवति, तदैव तत् अपचित्यार्हः भवति। किमयं मतभेदः अग्नि एवं सोमस्य कारणेन अस्ति, अन्वेषणीयः। सोमयागे पोता ऋत्विक् अपचितितः सम्बद्धः भवति – त्विषिश्च अपचितिश्च नेष्टापोतारौ। संदर्भाः
विश्वस्मात्सीमधमाँ इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः । यशो न दधद् इन्द्रियमूर्जम् अपचितिम्̐ स्वधां वसुवने वसुधेयस्य व्यन्तु यज – वा.सं. २१.५८ अथैतद्वात्सप्रम् , .... वत्सप्रियं वै भालन्दनं ऋषयोऽध्यवदन् , स्तेना इति, स एतत् सूक्तमपश्यत् , तेनाधिवादमपाजयत् , तेनापचितिम् अगच्छत् – मै ३.२.२ होता होत्रे स्विष्टकृत्सहो न दधदिन्द्रियम् ऊर्जमपचितिं स्वधां, वसुवने वसुधेयस्य वेतु, यज ॥ - मै ३.११.५
पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि ।
अपचितः प्र पतत सुपर्णो वसतेरिव ।
असूतिका रामायण्यपचित्प्र पतिष्यति ।
अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम ।
या ग्रैव्या अपचितोऽथो या उपपक्ष्याः ।
असूतिका रामायण्यपचित् प्र पतिष्यति ।
नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।
पञ्च च याः पञ्चाशच्च संयन्ति ग्रैव्या अभि । अश्वाक्रमणपूर्वक भूसंस्काराभिधानम्-- अरक्षसेत्य् आह । रक्षसाम् अपहत्यै । मर्त्यश्री स्पृहयद्वर्णो अग्निर् इत्य् आह । अपचितिम् एवास्मिन् दधाति । - तैसं ५.१.३.३ उख्याग्निनयनम् -- अक्रन्दद् इत्य् अन्व् आह । रक्षसाम् अपहत्यै । अनसा वहन्ति । अपचितिम् एवास्मिन् दधाति । तस्माद् अनस्वी च रथी चातिथीनाम् अपचिततमौ । - तैसं ५.२.२.४ राष्ट्रभृदिष्टकानां अभिधानम् -- अग्ने यशस्विन् यशसेमम् अर्पयेन्द्रावतीम् अपचितीम् इहा वह । - तैसं ५.७.४.३ तं त एतमनु जोषं भराम्येष नेत्त्वदपचेतयाता इति – माश १.८.३.२२ सोमक्रयणे आतिथ्येष्टिः -- तदाहुः । पूर्वोऽतीत्य गृह्णीयादिति यत्र वा अर्हन्तमागतं नापचायन्ति क्रुध्यति वै स तत्र तथा हापचितो भवति - ३.४.१.[३]।तद्वा अन्यतर एव विमुक्तः स्यात् । अन्यतरोऽविमुक्तोऽथ गृह्णीयात्स यदन्यतरो विमुक्तस्तेनागतो यद्वन्यतरोऽविमुक्तस्तेनापचितः - ३.४.१.[४]। तदु तथा न कुर्यात् विमुच्यैव प्रपाद्य गृह्णीयाद्यथा वै देवानां चरणं तद्वा अनु मनुष्याणां तस्मान्मानुषे यावन्न विमुञ्चते नैवास्मै तावदुदकं हरन्ति नापचितिं कुर्वन्त्यनागतो हि स तावद्भवत्यथ यदैव विमुञ्चतेऽथास्मा उदकं हरन्त्यथापचितिं कुर्वन्ति तर्हि हि स आगतो भवति तस्माद्विमुच्यैव प्रपाद्य गृह्णीयात् - ३.४.१.[५]। स वै संत्वरमाण इव गृह्णीयात् । तथा हापचितो भवति तत्पत्न्यन्वारभते पर्युह्यमाणं वै यजमानोऽन्वारभतेऽथात्र पत्न्युभयत एवैतन्मिथुनेनान्वारभेते यत्र वा अर्हन्नागच्छति सर्वगृह्या इव वै तत्र चेष्टन्ति तथा हापचितो भवति – माश ३.४.१.[६] ते हाश्वपतिं कैकेयमाजग्मुस्तेभ्यो ह पृथगावसथान्पृथगपचितीः पृथक्साहस्रान्त्सोमान्प्रोवाच – माश १०.६.१.२ त्विषिरेव प्रथमः प्रयाजः। अपचितिर्द्वितीयो यशस्तृतीयो ब्रह्मवर्चसं चतुर्थोऽन्नाद्यं पञ्चमः – माश ११.२.७.[१०] लोमभ्य एवास्य चित्तमस्रवत्, ते श्यामाका अभवन्। त्वच एवास्यापचितिरस्रवत्, सो ऽश्वत्थो वनस्पतिरभवत्। - माश १२.७.१.९ आश्वत्थं पात्रं भवति। अपचितिमेवावरुंधे। (३१) – माश १२.७.२.१० सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै - १४.४.३.[२२] तेभ्यो ह प्रोक्तेभ्यः पृथग् आसनानि पृथग् उदकानि पृथङ् मधुपर्कान् पृथग् आवसथान् पृथक् पञ्चभ्यः पञ्चापचितीश् चकार॥ जै १.२२ अथैषो ऽपचितिः। प्रजापतिः प्रजा असृजत। ता एनं सृष्टा नापाचायन्। सो ऽकामत - अपचितिम् आसु प्रजासु गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तं ता अपाचायन्। इन्द्रम् उ वै देवा नापाचायन्। स प्रजापतिम् उपाधावत् - न वै मेमे देवा अपचायन्तीति। तस्मा एतम् अपचितिं यज्ञं व्यदधात्। तम् आहरत्। तेनायजत। ततो वै तं देवा अपाचायन्। दर्भम् उ ह वै शातानीकिं पाञ्चाला राजानं सन्तं नापचायांचक्रुः। अपि ह स्मैनं कुमारा दर्भ दर्भेति ह्वयन्ति। तस्य हैतौ ब्राह्मणाव् आसतुर् अहीना आश्वत्थिः केशी सात्यकामिर् इति। तौ हैनम् उपसमेयतुः। स ह ध्यायन् निषसाद। तं होचतुः। किं नु राजन्यो ध्यायतीति। स होवाच - न हि मे ध्येयम्। पाञ्चाला वै मेमे राजानं सन्तं नापचायन्त्य्, अपि मा कुमारा दर्भ दर्भेति ह्वयन्ति। तद् एवैतद् ध्यायामीति। तं होचतुर् - अपचितिर् इति वा अयं यज्ञक्रतुर् अस्ति, तेन त्वा याजयावेति। तथेति। तेन हैनं याजयांचक्रतुः। स हैषु तथामात्रम् अपिचितिं जगाम, यद् अप्य् एतर्हि पाञ्चाला दर्भान् कुशा इत्य् एवाचक्षते॥जै 2.100 ॥
अस्य वा एतस्य गायत्रीम्
एव प्रातस्सवनं संपद्यते,
त्रिष्टुभं माध्यंदिनं सवनं,
जगतीं तृतीयसवनम्।
तद् यद् गायत्रीं प्रातस्सवनं संपद्यते - अष्टाक्षरा गायत्र्य्,
अष्टौ वसवो -
गायत्र्यैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च वसुषु देवेषु प्रातस्सवने
अध्य् अपचितिम् अगच्छताम्। अथ यत् त्रिष्टुभं माध्यंदिनं सवनं संपद्यत -
एकादशाक्षरा त्रिष्टुप्,
एकादश रुद्रास् - त्रिष्टुभैव तच् छन्दसा
प्रजापतिश् चेन्द्रश् च रुद्रेषु देवेषु माध्यंदिने सवने ऽध्य् अपचितिम्
अगच्छताम्। अथ यज् जगतीं तृतीयसवनं संपद्यते - द्वादशाक्षरा जगती,
द्वादशादित्या - जगत्यैव तच् छन्दसा प्रजापतिश् चेन्द्रश् चादित्येषु
देवेषु तृतीयसवने ऽध्य् अपचितिम् अगच्छताम्। अष्टाक्षरा गाय़त्री।
एकादशाक्षरा त्रिष्टुप्। द्वादशाक्षरा जगती। वाग् इति यज्ञायज्ञीयस्य
निधनम्। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। विश्वेषां देवानाम्
अनुष्टुप्। अनुष्टुभैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च विश्वेषु देवेषु
तृतीयसवने ऽध्य् अपचितिम् अगच्छताम्। एतावन्तो वै देवाः। एतावन्ति
देवजातानि। तेष्व् एव तद् अध्य् अपचितिम् अगच्छताम्॥जै
2.101
॥ अथो आहुर् अपचितिर् इति यज्ञक्रतुः। तेनैव यजेतेति। तस्य यद् द्वे त्रिवृती स्तोत्रे भवतस् तेनैव प्राणेभ्यो न यन्ति। अपचितिम् उ सुष्वाणो ऽश्नुते। जै २.१९७ नाभिर्मे चित्तं विज्ञानम् । पायुर्मेऽपचितिर्भसत् – तैब्रा २.६.५.५ होता होत्रे स्विष्टकृत् । यशो न दधदिन्द्रियम् । ऊर्जमपचितिँ स्वधाम् । वसुवने वसुधेयस्य वियन्तु यज – तैब्रा २.६.१४.६ नेदेष त्वदपचेतयाता इत्याहानुख्यात्यै । - तै ३.३.९.६ अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च । आपश्चौषधयश्च । ऊर्क्च सूनृता च । तास्त्वा दीक्षमाणमनु दीक्षन्ताम् । तैब्रा ३.७.७.८ देवेभ्यस्त्वे-त्यधस्तात् । देवा वै देवानामपचिततमाः । अपचितिमेवास्मिन्दधाति । तस्मादश्वः पशूनामपचिततमः । सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात् । सर्वे वै देवास्त्विषिमन्तो हरस्विनः । त्विषिमेवास्मिन्हरो दधाति । तस्मादश्वः पशूनां त्विषिमान्हरस्वितमः । तै ३.८.७.२ अपचितिः पोत्रीयामयजत् । नेष्ट्रीयामयजत्त्विषिः । आग्नीद्ध्राद्विदुषी सत्यम् । श्रद्धा हैवायजत्स्वयम् । तै ३.१२.९.५
अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम ।
अथैषोऽपचितिरपचितिकामो यजेतापचित्यैवास्मा अपचितिं विन्दति
अथैष सर्वस्तोमोऽपचितिरपचितिकामो यजेत सर्वैरेवास्मै स्तोमैरपचितिं विन्दति
त्विषिश्चापचितिश्च नेष्टापोतारौ – तां २५.१८.४ अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च । आपश्चौषधयश्च । ऊर्क् च सूनृता च देवानां पत्नयः ( २), इति – तैआ ३.९.२ बहवो हरन्ति । अपचितिमेवास्मिन्दधति । - तैआ ५.२.१२ चितः स्थ परिचित इत्याह । अपचितिमेवास्मिन्दधाति । - तैआ ५.४.८ देवाꣳश्च ये नमस्यन्ति ब्राह्मणाꣳश्चापचित्यति, इति – तैआ ६.५.३ अकृता वै साऽपचितिर्यामध्यृष्टाय करोति, इति । प्रतिख्याय भक्षमवरोहेदेषा वा अपचितिर्यां पश्यते करोति – ऐआ १.२.४ यं वै लोको गायत्री तृचाशीतिर्यदेवास्मिँल्लोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्नवानि---न्तरिक्षलोको वै बार्हती तृचाशीतिर्यदेवान्तरिक्षलोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्रवानि-----सौ वै लोको द्यौरौष्णिही तृचाशीतिर्यदेवामुष्मिँलोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिर्यद्देवानां दैवं तदश्नवै – ऐआ १.४.३ वल्गूयति वन्दते पूर्वभाजमित्यपचितिमेवास्मा एतदाह – ऐ ८.२६ केशी ह दाल्भ्योऽपचितिकामोऽपचितिनेजे तन्नो नामनी परिहरन्ता इति ततो ह वा एतत्पञ्चालराजानां नामानि परिहरन्ते ३८।शीर्षण्या इति केशानाचक्षते। कुशा इति दर्भान्। नद्याविति गैरेयकविमत्यौ। ततो वै सोऽपचितिमानभवद्यः कामयेतापचितिमान्त्स्यामिति स एतेन यज्ञक्रतुना यजेतापाचितिमानेव भवति । तस्य चतुर्विँशो बहिष्पवमानस्त्रिवृत्पञ्चदशान्याज्यानि – बौ.श्रौ.सू. १८.३९.१ अपास्मन्नैरृतान्पाशान्मृत्यूनेकशतं चये – आप.श्रौ.सू. १६.१६.१
इन्द्रो हापचितिकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यदपचितिम्
।
तेनेष्ट्वापचितिमाप्नोत्
।
तेनापचितिकामो यजेत
१
वागनुष्टुप्
१७
चरन्वै मधु विन्दत्यपचिन्वन्परूषकम्
|