पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Anapatya to aahlaada only) by Radha Gupta, Suman Agarwal, Vipin Kumar Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.) Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa etc.) Apashakuna - Abhaya (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.) Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.) Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha, Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.) Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.) Arishta - Arghya (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.) Arghya - Alakshmi (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.) Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.) Avasphurja - Ashoucha (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.) Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.) Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.) Ashvamedha - Ashvinau (Ashvamedha, Ashvashiraa, Ashvinau etc.) Ashvinau - Asi (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.) Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.) Astra - Ahoraatra (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.) Aa - Aajyapa (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya, Aaditya/sun etc.) Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.) Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.) Aayurveda - Aavarta (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.) Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.) Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )
|
|
अन्धक इमौ वै लोकौ सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। ते बृहद्रथन्तरे अब्रूतां ये नाव् इमे प्रिये तन्वौ ताभ्यां विवहावहा इति। श्यैतं ह वा अग्ने रथन्तरस्य प्रिया तनूर् आस नौधसं बृहतः। ताभ्यां व्यवहेताम्। ऊषान् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् धूमम् इत इयम् अमुष्यै। वर्षम् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् देवयजनम् इत इयम् अमुष्यै। स वहतोरुहैनै वेद य एवं वेद॥ मेनामेनं वाव ते तद् व्यवहेताम्। तस्माद् आहुर् न मेनामेनं व्यूह्यम् इति। बृहद्रथन्तरयोर् ह वा एष विवाहम् अभ्यारोहति। स ईश्वर पराभवितोः। ते तन्वाव् अब्रूताम् आवं नु निधनाभ्यां विवहावहा इति॥जैब्रा 1.145॥ पदनिधनं ह वा अग्रे श्यैतम् आस वसुनिधनं नौधसम्। ताभ्यां व्यवहेताम्। ततो ह वा इदम् अर्वाचीनम् अन्योन्यस्य गृहे वसन्ति। यथागृहं ह वाव ततः पुरोषुर् यथाज्ञाति वा॥ रथन्तरेण स्तुवन्ति। इदं वै रथन्तरम्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ नौधसेन। अदो वै नौधसम्। अनन्तर्हितान् एवेत ऊर्ध्वान् लोकान् जयति॥ बृहता स्तुवन्ति। अदो वै बृहत्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ श्यैतेन। इदं वै श्यैतम्। अनन्तर्हितान् एवामुतो ऽवाचो लोकान् जयति। उभयान् लोकान् जयति ये चोर्ध्वा ये चार्वाचो य एवं वेद॥जैब्रा 1.146॥ सोमयागे पृष्ठ्यषडहे माध्यन्दिनसवने पृष्ठस्तोत्राणां गानं भवति। सामवेदीयउद्गातृगणः होता, मैत्रावरुण, ब्राह्मणाच्छंसी एवं अच्छावाक ऋत्विग्भ्यः एकैकं स्तोत्रं गायन्ति। रथंतरसंज्ञके प्रथमेअहनि अस्य क्रमः एवंप्रकारेण अस्ति – रथन्तरं, वामदेव्यं, नौधसं, कालेयम्। बृहत्संज्ञके द्वितीयेअहनि – बृहत्, वामदेव्यम्, श्यैतं, माधुच्छन्दसम्। अतः परं अह्नां संज्ञा वैरूपं, वैराजं, शाक्वरं, रैवतं भवति यस्य विस्तारं अत्र न वर्ण्यते। वर्तमानसंदर्भे नौधसं साम उल्लेखनीयः अस्ति यस्य मूल ऋक् तं वो दस्मं ऋतीषहं वसोर्मन्दानमन्धसः इति अस्ति। दस्म अर्थात् दर्शनं, रूपम्। ऋतीषहं – ऋतिः – परस्परसंग्रामं, हिंसा। दस्मस्य अयं गुणं अस्ति यत् अयं ऋतिं शमयति। वसोर्मन्दानमन्धसः। जैमिनीयब्राह्मणे कथनमस्ति – त्रीणि यज्ञे ऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातम् अन्धसा॥ वसोर् मन्दानम् अन्धसः॥ पुरोजिती वो अन्धसः इति। त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम्। तान् एवैतेनावरुन्द्धे॥ - जैब्रा. १.११६ यः मध्यमप्रकारस्य अन्धः अस्ति, तस्य गुणं वसोः मन्दनमस्ति। वसु अर्थात् वासनायाः उत्कृष्टरूपम्। यः प्रथमप्रकारस्य अन्धः अस्ति, तस्य वैशिष्ट्यं श्रवोत्पन्ने, श्लोकस्य उत्पन्ने अस्ति। यः तृतीयप्रकारस्य अन्धः अस्ति, तस्य वैशिष्ट्यं संभवतः श्वा, श्वः, द्यूतस्य निवारणमस्ति। प्रश्नमस्ति – अन्धः, यः सोमस्य वाचकः अस्ति, किमस्ति। जै.ब्राह्मणे 1.145 अस्य व्याख्या अस्ति – अन्तरात्मा सूक्ष्मदृष्ट्या बाह्यदृश्यं येन प्रकारेण गृह्णाति, तत् धूमम् अस्ति। अयं धूमः द्युलोके गत्वा मेघः भवति एवं ऊषस्य वर्षणं करोति। यदि सूक्ष्मदृष्ट्या गृहीतं अनुभवं पवित्रमस्ति, देवयजनमस्ति, तदा वृष्ट्याः स्वरूपमपि परिवर्तयति। पुराणे (स्कन्दपुराणम् ६.२२८.२३) अस्य स्वरूपं अयं अस्ति – हिरण्यकशिपोः पुत्रद्वयौ स्तः – प्रह्लादः एवं अन्धकः। हिरण्यकशिपोः मृत्यवन्तरं प्रह्लादस्य राज्याभिषेकस्य प्रस्तावमभवत्। किन्तु प्रह्लादस्य अस्वीकरणस्य कारणेन अन्धकस्य राज्याभिषेकः अभवत्। अत्र प्रह्लादः एवं अन्धकः दृष्टिभेदौ स्तः। एतौ सूक्ष्मदृष्ट्याः अनुभवौ स्तः। प्रह्लादः प्रथमप्रकारस्य अन्धसः सृष्टिं करिष्यति यः महि श्रवं जनिष्यति। यः अन्धकः अस्ति, तस्य शोधनं केन प्रकारेण संभवमस्ति। पुराणेषु शिवः अन्धकं स्वत्रिशूले अधोमुखं आरोपयति येन अन्धकस्य रुधिरस्य स्रवणं भवति। शरीरे ये सप्त धातवः सन्ति, तेभ्यः अन्धकस्य देहे त्वक्, अस्थि एवं स्नायुः शेषं वर्तन्ते, अन्येषां चतुर्णां क्षयः भवति(स्कन्दपुराणम् ६.२२९.१४ )। तदनन्तरं अन्धकः शिवस्य भृङ्गिरिटिसंज्ञकः गणः भवति। सः शिवभक्तः भवति। शिवः कृपापूर्वकं तस्य देहस्य स्पर्शं करोति येन तस्य देहः सप्तधातुयुक्ता भवति। एकदा शिवः पार्वतीसहितः अन्धकस्य समीपे आगच्छति(स्कन्दपुराणम् ५.२.३९.२५)। अन्धकः शिवं प्रणमति, न गौरीं। शिवः कथयति यत् गौरीं प्रणामं कुरु, सा तव माता अस्ति। भृङ्गिरिटिः कथयति यत् नाहं गौरीं मातां जानामि। मम माता एवं पिता त्वमेवासि। एवं कथयित्वा सः स्वदेहस्य ये मातृजन्या धातवः शोणितादि सन्ति, तेषां त्यागं करोति। किन्तु अनेन कर्मणा तस्य बुद्धिः क्रूरा अभवत्। कालान्तरे तेन पार्वत्याः उपासनां कृत्वा अक्रूरा बुद्धिः प्राप्ता आसीत्। अस्याः कथायाः तारतम्यं विष्णुपुराणस्य ४.१३.११४ कथायाः साकं करणीयमस्ति। यदा अक्रूरः द्वारकां त्यजति, तदा तत्र वृष्टिः नाभवत्। तदा वृद्धः अन्धकः कृष्णं वदति यत् यत्र अक्रूरः विद्यमानः अस्ति, तत्र वृष्टिः भवति। पुराणेषु कथनं अस्ति यत् तपःकाले व्युत्थानं न करणीयमस्ति। देहस्य शोणितमांसादयः ये धातवः सन्ति, तेषां क्षयमेव श्रेयस्करः। किन्तु स्कन्दपुराणे ५.२.३९.२५ भृङ्गिरिटेः कथा संकेतं करोति यत् अयं कठोरतपः क्रूरबुद्धिं जनयिष्यति। अतएव, मध्यममार्गः श्रेयस्करः।
टिप्पणी : सामान्य आध्यात्मिक भाषा में अहंकार से ग्रस्त जीव को अन्धा कहा जाता है। इसके विपरीत, जिस साधक ने अपनी दृष्टि को अन्तर्मुखी कर लिया है, वह भी अन्धा कहा जा सकता है। ऋग्वेद १.११६.१६ में अन्तर्निहित कथा है कि ऋज्राश्व राजा ने दो वृक पाल रखे थे जिनके खाने के लिए वह मेषों को देता था। इस कुकृत्य पर उसके पिता ने उसे अन्धा कर दिया । अश्विनौ ने उसे पुनः नेत्र प्रदान किए। यह मेष नेत्रों के उन्मेष-निमेष हो सकते हैं जिनके समाप्त होने पर नेत्र स्थिर हो जाते हैं। ऋग्वेद १.१००.८ तथा १.९४.७ में अन्धा होने पर अति ज्योति के दर्शन का उल्लेख है। ऋग्वेद ९.६८.६, ५.४५.९ तथा १०.१४४.५ में उल्लेख है कि श्येन स्वर्ग से अन्ध को लाया। चूंकि पुराणों में श्येन या गरुड स्वर्ग से अमृत या सोम लाता है, अतः अन्ध को सोम का पर्यायवाची कहा जा सकता है। ऋग्वेद के बहुत से सूक्तों में अन्ध के मधु को पीकर मदमस्त होने का, उसे पृथ्वी पर बिखेरने का उल्लेख है। अन्ध को देवों का पूर्वपेय कहा गया है(१.१३५.४)। अन्ध को ओंकार द्वारा धोकर उसे अंशु/किरण युक्त करके उसके अमृत का पान करना होता है(१०.९४.८, ९.६८.६, ४.१.१९)। ऋग्वेद ४.२०.४ के अनुसार ओंकार द्वारा शुद्ध किया गया सोम सुमना बन जाता है। उसके मधु का पान अन्ध द्वारा किया जाता है। ऋग्वेद ७.५९.५ में मरुतों से प्रार्थना की गई है कि वे अन्धों को पीने के लिए ओषु होकर आएं और मोषु होकर अन्यत्र जाएं। यह ओषु और मोषु भी ओंकार की ही अन्तर्मुखी व बहिर्मुखी वृत्तियां हैं। पुराणों में अन्धक का पार्वती पर आकृष्ट होना अन्धक की ओंकार की ओर प्रवृत्ति को इंगित करता है क्योंकि पार्वती को उमा, ओंकार की शक्ति कहा जाता है। अन्धक के त्रिशूल पर लटकने के पश्चात् शुद्ध होकर शिवगण भृङ्गि/भ्रमर बनने का अर्थ अन्वेषणीय है। अन्य दृष्टिकोण से कहा जा सकता है कि जीवात्मा ने अपने सहस्रार चक्र से स्रवित होने वाले सोम/अमृत के रस का आस्वादन यदि नहीं किया है तो वह सोम अन्धा है। उस सोम को, भक्ति रस को मानसिक स्तर तर उतारने के लिए ओंकार का आश्रय लेना होता है। प्रथम प्रकाशन : १९९४ ई.
आयजी वाजसातमा ता ह्युच्चा विजर्भृतः। हरी इवान्धांसि बप्सता॥ १.०२८.०७ स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे। इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा॥ १.०५२.०२ अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः। इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः॥ १.०५२.०५ अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा। मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम्॥ १.०८०.०६ आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः। सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः॥ १.०८५.०६ पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् । वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥१.१३५.४॥ अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन। अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः॥ २.०३६.०३ इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे। स पाहि मध्वो अन्धसः॥ ३.०४०.०१ अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् । शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥४.१.१९॥ उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन ॥४.२०.४॥ आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः। यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत्॥ ५.०३४.०२ आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे । रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥५.४५.९॥ नियुत्वन्तो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कवन्धिनः। पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा॥ ५.०५४.०८ यस्य मन्दानो अन्धसो माघोनं दधिषे शवः। अयं स सोम इन्द्र ते सुतः पिब॥ ६.०४३.०४ इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम्। आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे॥ ६.०६९.०७ ओ षु घृष्विराधसो यातनान्धांसि पीतये । इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन ॥७.५९.५॥ प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे। तिरो अर्यो हवनानि श्रुतं नः॥ ७.०६८.०२ उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः। सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम्॥ ७.०९६.०२ आ त्वा रथे हिरण्यये हरी मयूरशेप्या। शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये॥ ८.००१.२५ यच्छक्रासि परावति यदर्वावति वृत्रहन्। यद्वा समुद्रे अन्धसोऽवितेदसि॥ ८.०१३.१५ एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः। एवा हि वीरः स्तवते सदावृधः॥ ८.०२४.१६ यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः। इन्द्रो देवेषु चेतति॥ ८.०३२.२८ यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे। यद्वा समुद्रे अन्धसः॥ ८.०६५.०२ पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर। शता च शूर गोनाम्॥ ८.०७८.०१ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे॥ ८.०८८.०१ पान्तमा वो अन्धस इन्द्रमभि प्र गायत। विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम्॥ ८.०९२.०१ तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते। पवमानस्य मरुतः॥ ९.०५१.०३ परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा। सुवानो अर्ष पवित्र आ॥ ९.०५२.०१ यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव। सोम विश्वा च सौभगा॥ ९.०५५.०१
उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे ।
मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः । पुरोजिती वो अन्धसः सुताय मादयित्नवे। अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम्॥ ९.१०१.०१ नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः। सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम्॥ ९.१०७.०२ भद्रं नो अपि वातय मनो दक्षमुत क्रतुम्। अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे॥ १०.०२५.०१ अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित्। अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित्॥ १०.०३९.०३
ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् ।
यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः । त्रीणि यज्ञे ऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातम् अन्धसा॥ वसोर् मन्दानम् अन्धसः॥ पुरोजिती वो अन्धसः इति। त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम्। तान् एवैतेनावरुन्द्धे॥ - जैब्रा. १.११६ बृहदुपस्थानम् -- अथ गामभ्यैति । अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयेति यानि वो वीर्याणि यानि वो महांसि तानि वो भक्षीयेत्येवैतदाहोर्ज स्थोर्जं वो भक्षीयेति रस स्थ रसं वो भक्षीयेत्येवैतदाह रायस्पोष स्थ रायस्पोषं वो भक्षीयेति भूमा स्थ भूमानं वो भक्षीयेत्येवैतदाह – माश २.३.४.[२५] अथ सप्तदश सोमग्रहान्गृह्णाति । सप्तदश सुराग्रहान्प्रजापतेर्वा एते अन्धसी यत्सोमश्च सुरा च ततः सत्यं श्रीर्ज्योतिः सोमोऽनृतं पाप्मा तमः सुरैते एवैतदुभे अन्धसी उज्जयति सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः -माश ५.१.२.[१०] अथोत्ताराणि जपति । द्रापे अन्धसस्पत इत्येष वै द्रापिरेष वै तं द्रापयति यं दिद्रापयिषत्यन्धसस्पत इति सोमस्य पत इत्येतद् –माश ९.१.१.२४ अथ यस्य राजानमच्छेत्त्वा नाहरन्त एयुः। अन्धसे स्वाहा इति जुहुयात्। अन्धो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥माश १२.६.१.५॥
|