Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अहिर्बुध्न्य

टिप्पणी : अहिर्बुध्न्य का सामान्य रूप में अर्थ नदियों के जल के अधोतल में स्थित अहि या सर्प से किया जाता है। पुराणों के अनुरूप ही, ऐतरेय ब्राह्मण ३.३६ में उल्लेख है कि अहिर्बुध्न्य को गार्हपत्य अग्नि बनाया जा सकता है। तैत्तिरीय ब्राह्मण १.५.१.५ में उल्लेख है कि अहिर्बुध्न्य का उपयोग अभिसिञ्चित सोम को शुद्ध करने के लिए अथवा पार्थिव स्तर को सोम की प्राप्ति हेतु शुद्ध करने के लिए किया जा सकता है। इसी कथन के सायण भाष्य में कहा गया है कि जो ऊर्जा अभी तक शरीर के पालन-पोषण में लगी थी, उसका उपयोग आरोहण के लिए किया जा सकता है। ज्योतिष ग्रन्थ से प्राप्त संकेत के अनुसार अहिर्बुध्न्य शब्द की निरुक्ति इस प्रकार की जा सकती है कि वह अहि जिसे बुध रूपी बोध प्राप्ति के मार्ग में स्थापित किया जा सकता है। ऋग्वेद की कईं ऋचाओं में अहिर्बुध्न्य से शान्त होने की प्रार्थना की गई है।

प्रथम प्रकाशन : १९९४ ई.

 

 

उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः।

येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति॥ १.१८६.०५

उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत।

त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि॥ २.०३१.०६

नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः।

समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन्॥ ४.०५५.०६

कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ।

मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः॥ ५.०४१.१६

तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात्।

तदोषधीभिरभि रातिषाचो भगः पुरंधिर्जिन्वतु प्र राये॥ ६.०४९.१४

उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः।

विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु॥ ६.०५०.१४

अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन्॥ ७.०३४.१६

मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः॥ ७.०३४.१७

शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः।

शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा॥ ७.०३५.१३

अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः।

अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु॥ ७.०३८.०५

कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः।

अज एकपात्सुहवेभिर्ऋक्वभिरहिः शृणोतु बुध्न्यो हवीमनि॥ १०.०६४.०४

समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः।

अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम॥ १०.०६६.११

उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या।

सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः॥ १०.०९३.०५

अग्निमारुतशस्त्रम् -- अहिम् बुध्न्यम् शंसति । अग्निर् वा अहिर् बुध्न्यः । तम् एतया उज्ज्वलयति । अथो धिष्ण्यान् एव एतया अनुशंसति । - कौ १६.७

अहिर्बुध्न्यो भुवनस्य रक्षिता काठसंक ६०.७

सप्रथ सभां मे गोपाय ये च सभ्याः सभासदः तानिन्द्रियावतः कुरु सर्वमायुरुपासताम् अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः ऋचः सामानि यजू षि सा हि श्रीरमृता सताम् - तै १.२.१.२६

सा चतुर्थमुदक्रामत् तत्प्रजापतिः पर्यगृह्णात् सप्रथ सभां मे गोपायेति सा पञ्चममुदक्रामत् तत्प्रजापतिः पर्यगृह्णात् अहे बुध्निय मन्त्रं मे गोपायेति अग्नीन्वाव सा तान्व्यक्रमत - तै १.१.१०.३

सप्रथ सभां मे गोपायेत्याह सभामेवैतेनेन्द्रि य स्पृणोति अहे बुध्निय मन्त्रं मे गोपायेत्याह मन्त्रमेवैतेन श्रिय स्पृणोति - तै १.१.१०.५

अजस्यैकपदः पूर्वे प्रोष्ठपदाः वैश्वानरं परस्ताद्वैश्वावसवमवस्तात् अहेर्बुध्नियस्योत्तरे अभिषिञ्चन्तः परस्तादभिषुण्वन्तोऽवस्तात्  - तै १.५.१.५

तासु वा अहिना बुध्न्येन परोक्षात्तेजोऽदधादेष ह वा अहिर्बुध्न्यो यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन परोक्षात्तेजो दधाति तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति - ऐ ३.३६

प्रोष्ठपदा नक्षत्रम् अज एकपाद् देवता प्रोष्ठपदा नक्षत्रम् अहिर् बुध्नियो देवता - तैसं ४.४.१०.३,

प्रोष्ठपदा नक्षत्रं, अहिर् बुध्योषि देवता, प्रोष्ठपदा नक्षत्रं, अज एकपाद्देवता - मै २.१३.२०

अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छन्दः । सूर्योदेवता - -चाक्षुषोपनिषत्

प्रौष्ठपद्यामिन्द्रयज्ञः १
पायसमैन्द्रं श्रपयित्वाऽपूपांश्चापूपैः स्तीर्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोतीन्द्रायेन्द्राण्या अजायैकपदेऽहिर्बुध्न्याय प्रौष्ठपदाभ्यश्चेति पारस्करगृह्यसूत्रम् २.१५.

अयं पितॄणामग्निरवाड्ढव्या पितृभ्य आ तं पूर्वः परिगृह्णाम्यविषं नः पितुं करदिति दक्षिणाग्निम् अजस्रं त्वा सभापाला विजयभागं समिन्धताम् । अग्ने दीदाय मे सभ्य विजित्यै शरदः शतमिति सभ्यम् अन्नमावसथीयमभिहराणि शरदः शतम् आवसथे श्रियं मन्त्रमहिर्बुध्नियो नियच्छत्वित्यावसथ्यम् आपश्रौसू ४.२.

अग्ने गृहपतेऽहे बुध्न्य परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय। - आपश्रौसू ५.१२.२

उपस्थानम् -- सप्रथ सभां मे गोपायेन्द्रियं भूतिवर्धनम् विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम् अहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह अहये बुध्नियाय मन्त्रं श्रियं यशः परिददाम्यहमित्यावसथ्यम् - आपश्रौसू ५.१८.२

निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषु हिरण्यं निधाय समूह्य व्यूह्य प्रथयित्वा निषसाद धृतव्रत इति मध्येऽधिदेवने राजन्यस्य जुहोति । आवसथे परिषदो मध्ये हिरण्यं निधाय मन्त्रवत्या हिरण्ये जुहोति प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति । उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो न्हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु न इत्युक्त्वा शतमक्षान्यजमानाय प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिंसन्तः परूंषि विशसतेति  संप्रैषवत्कुर्वन्ति ।  कृतं यजमानो विजिनाति । तया यज्जयन्ति तदन्नं संस्कृत्य सभासद्भ्य उपहरन्ति । आवसथे भुञ्जते । - आपश्रौसू ५.१९.४

अजोऽस्येकपादिति शालामुखीयम् अहिरसि बुध्निय इति प्राजहितम् - आपश्रौसू ११.१५.१

उत नोऽहिर्बुध्न्यः शृणोत्वज एकपादिति वा वैश्वदेव्यामृचि शस्यमानायाम् आपश्रौसू १३.१६.

सप्रथसभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति स प्रथ सभां मे गोपाय ये च सभ्याः सभासदः। तानिन्द्रियावतः कुरु सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियै यशः परिददाम्यहमित्यावसथ्यं पञ्चधाऽग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः ।
ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् । यत्रास्मै ॥ १६ ।। शतमक्षान्प्रयच्छति तेषु कृतं विजित्य सभासद्भ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्न स्कृत्य ब्राह्मणान्भोजयति । - हिरण्यकेशिश्रौसू ६.५.१६

शुनासीरौ नः प्रमुमूतु जिह्मसौ तौतौ पितृभ्यो ददतु स्तनौ शुभौ । तौ पूर्वजौ कृणुतामेकपादजः प्रतिष्ठानौ सर्वकामाभयाय च ॥ सर्वार्थाय कृणोमि कर्मसिद्धये गविष्टुतायानेककारिणे नमः । सोऽहिर्बुध्न्यः कृणुतामुत्तरौ शिवौ प्रतिष्ठानौ सर्वकामाभयाय च ॥ अथर्वपरिशिष्ट ,४०.५

प्रजापतिः । चन्द्रमाः । सोमः । इन्दुः । अदितिः । धेनवः । अहिर्बुध्न्य इति निपातभाञ्जि ॥ - अथर्वपरि. ४८,१३८

सप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः । तानिन्द्रियावतः कुरु । सर्वमायुरुपासतामिति सभ्यम् अहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रयिविदा विदुः । ऋचः सामानि यजूँ षि । सा हि श्रीरमृता सतामित्यावसथीयम् बौश्रौसू २.१८.२२

सप्रथ सभां मे गोपायेति सभ्यम् अहे बुध्निय मन्त्रं मे गोपायेत्यावसथीयं सोऽपरिमितं प्रवसति बौश्रौसू ३.१४.१३

सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्यग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर्वीर्येण मरुतामोजसा क्षत्राणां क्षत्रपतिरस्यति दिवस्पायसवित्यथोर्ध्वा धाराः समुन्मृष्टे समाववृत्रन्नधरागुदीचीरहिं बुध्नियमनु संचरन्तीस्ताः पर्वतस्य वृषभस्य पृष्ठे नावश्चरन्ति स्वसिच इयाना इत्य् बौश्रौसू १२.११.७

अहिराहन्ति मेघान्स एति वा तेषु मध्यमः। योऽहिः स बुध्न्यो वुध्ने हि णोऽन्तरिक्षेऽभिजायते॥बृहद्देवता ५.१६६

बद्धाः अस्मिन् धृताः आपः [ इति वा ] । तस्य एषा भवति । तन्निवासात् । बुध्नम् अन्तरिक्षम् । यः अहिः सः बुध्न्यः । इदम् अपि इतरत् बुध्नम् एतस्मात् एव ।
बुध्नम् अन्तरिक्षम् । अप्सुजम् उक्थैः अहिं गृणिषे बुध्ने नदीनां रजस्सु [ उदकेषु ] सीदन् । अब्जाम् उक्थैः अहिं गृणीषे बुध्ने नदीनां रजःसु सीदन् । बद्धाः अस्मिन् धृताः प्राणाः इति । निरुक्तः १०.४४

मा नः अहिः बुध्न्यः रिषे धात् मा यज्ञः अस्य स्रिधत् ऋतायोः । तस्य एषा भवति । अजः च एकपात् पृथिवी च समुद्रः च सर्वे च देवाः । अपि च नः अहिः बुध्न्यः शृणोतु । विश्वे देवाः ऋतावृधः हुवानाः स्तुताः मन्त्राः कविशस्ताः अवन्तु । उत नः अहिः बुध्न्यः शृणोतु अजः एकपात् पृथिवी समुद्रः । मन्त्राः कविशस्ताः । । निरुक्तः १२.३३