Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

आन्त्र

सामान्यरूपेण, देहे यः आन्त्रः अस्ति, तस्य कार्यं भुक्तअन्नस्य सारभागस्य शोषणं, व्यर्थभागस्य मूत्र – पुरीषरूपेण विसर्जनं आदि अस्ति। किन्तु वैदिकवाङ्मये आन्त्रस्य एकः विशिष्टकार्यमपि अस्ति – मधोः सृष्टि(आन्त्राणि स्थालीर् मधु पिन्वमाना )। आधुनिकविज्ञानानुसारेण, ये तृणाः सन्ति, ते  जटिलीभूतमधोः रूपाः सन्ति। यदि सम्यक्प्रकारस्य रसायनस्य प्रयोगं भवेत्, तर्हि जटिलस्य ऋजुकरणं, मूल मधोः जननं सम्भवमस्ति। रसायनस्य संज्ञा एन्जाईम अस्ति। सेलुलोजस्य जटिलीकरणस्य निवारणहेतु सेलुलेजसंज्ञकस्य रसायनस्य प्रयोगं प्रचलति। प्रकृतौ, वम्रिकीटे एव अस्य प्रकारस्य रसायनं भवति। सौत्रामणीयागे आन्त्राणि मधोः सर्जनस्य स्थाली केन प्रकारेण भवितुं शक्यन्ते, न ज्ञातमस्ति।

ब्रह्माण्डपुराणे उल्लेखः अस्ति यत् यज्ञवराहस्य ये आन्त्राः सन्ति, तानि उद्गातासंज्ञकस्य ऋत्विजः रूपाः सन्ति। सार्वत्रिककथनमस्ति यत् सामवेदस्य यः उद्गातासंज्ञकः ऋत्विक् अस्ति, सः पर्जन्यस्य रूपमस्ति(षड्.ब्रा. २.५.५, श.ब्रा. १२.१.१.३, आपस्तम्ब श्रौत सूत्र १०.१.१४ आदि)। वैदिकवाङ्मये पर्जन्यवर्षणाय केचन निमित्ताः सन्ति – पुरोवातस्य जननं, अभ्राणां प्लावनं, गर्जनं, वैद्युतजननं इत्यादि। तेषां जननाय केषांचित् व्याहृतीनां प्रयोगः भवति – ओ श्रावय, अस्तु श्रौषट्, यज, ये यजामहे, वौषट्। देहस्य स्तरे, मूत्रजननं, अश्रुपातनं, क्षीर प्रस्रवणं अपि पर्जन्यवृष्ट्याः फलाः सन्ति, यद्यपि आधुनिकविज्ञानानुसारेण मूत्रजननस्य अन्या प्रक्रिया अस्ति।

 

टिप्पणी : यजुर्वेद १९.८६ की सार्वत्रिक यजु के अनुसार आन्त्र एक स्थाली/थाली है जो मधु का सिञ्चन करती है (आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।) । आन्त्रों की यह स्थिति किस प्रकार प्राप्त हो सकती है, इस संदर्भ में ऋग्वेद ४.१८.१३ का कथन है कि वामदेव ऋषि ने शुनः की आन्त्रों को पकाया लेकिन कोई फल प्राप्त नहीं हुआ। तब इन्द्र ने श्येन बनकर मधु की प्राप्ति कराई। योगवासिष्ठ में आन्त्रों को महातन्त्री/वीणा का रूप कहा गया है, जबकि बृहद् देवता ७.७९ के अनुसार जब अग्नि ने देवों से अमरता के वरदान प्राप्त किए, तो अग्नि की आन्त्र अवका(अवाक्) बनी (अन्त्राणि चैवाप्यवका मज्जा सिकतशर्कराः ॥)। पुराणों में आन्त्रों की माला के उल्लेख के संदर्भ में अथर्ववेद ११.३.१० का कथन है कि बार्हस्पत्य ओदन पकाने पर (ओदन उदान प्राण का रूप है) आन्त्र जत्रु अर्थात् गले का आभूषण बन जाती है (आन्त्राणि जत्रवो गुदा वरत्राः )। यह कहा जा सकता है कि आन्त्र की शक्ति जत्रु में समाहित हो जाती है। यही आन्त्र का वीणा बनना हो सकता है।

प्रथम प्रकाशन : १९९४ ई.

 

आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।

श्येनस्य पत्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥ शु.य.१९.८६

अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम्।

अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार॥ऋ. ४.०१८.१३

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि।

यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते॥ १०.१६३.०३

यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् ।

एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥शौअ १.३.

देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥९.७.१६/९.१२.१६

या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च ।

अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥९.१३.१७

यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः ।

आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१०.९.१६

ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव ।

आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥१०.१०.२१

आन्त्राणि जत्रवो गुदा वरत्राः ॥११.३.१०

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।
यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥२०.९६.२०

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादुत ।

यक्ष्मं पाण्योरङ्गुलिभ्यो नखेभ्यो वि वृहामसि ।।पैसं ४.७.४।।

या गुदा अनुसर्पन्त्यान्त्राणि याहयन्ति च ।

अहिंसन्तीरनामया निर्द्रवन्ति बहिर्बिलम् ।।१६.७५.।।

ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव।  

आन्त्रेभ्यो अत्रा यज्ञिरे उदरादधि वीरुधः ।।१६.१०९. । ।

यत्ते यकृद् ये मतस्ने यान्यान्त्राणि याश्च ते गुदा: ।

आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ।१६.१३७.

क्षुत् कुक्षिरिरा वनिष्ठुः पर्वता प्लाशिर्देवजना

गुदा मनुष्या आन्त्राण्यत्रा उदरमितरजना ऊबध्यं रक्षांसि लोहितम् ।।१६.१३९. ।।

यत्ते गुदास्वन्त्रेषु दौर्भाग्यमुदरे हितम् ।

अयं तद् विश्वभेषजो ऽपामार्गो ऽप लुम्पतु ।। १६.१४८. ।।

स्यन्दतां रोदनावतीरनु त्वं लोहितावटम् ।

यथास्यामन्त्रं नरस्यन् नानुकूलमिवोदकम् । १९.१८.५ ।

स्यन्दन्तां लोचनावतीर् अनु त्वा लोहितावटम्।

यथास्यां अन्त्रं न रस्यन् नानुकूलं इवोदकम्।। १९.१८.५(पाठभेदः)

यदार्द्राभ्यामणिभ्यां देवा: शक्रा अमन्तं पुरुषेण पुरुषम् ।

अत्रा पुष्यतं मिथुना सयोनि जीवां प्रजां जरदष्टिं सुतेजसा ।। १९.२०.४ ।।

यद् आन्त्राभ्यां महृणीभ्यां देवश् चक्रामन्थं पुरुषेण पुरुषम्।

अत्रा मुष्यन्तां मिथुना सतोनी जीवां प्रजां जरदष्टीं सचेतसः।। (पाठभेदः)

सौत्रामणी -- मतस्ने एवास्याश्वत्थं च पात्रमौदुम्बरं च। पित्तं नैयग्रोधम्। आंत्राणि स्थाल्यः।गुदा उपशयानि। श्येनपत्रे प्लीहा। आसन्दी नाभिः। - माश १२.९.१.३

नखान् निकृत्य निरान्त्रं कुर्वन्ति। निरान्त्रं कृत्वा निष्पुरीषं कुर्वन्ति। निष्पुरीषं कृत्वा पांसुभिः कूपे पुरीषम् अभिसंवपन्ति। पाप्मानम् एवास्य तत् प्रच्छादयन्ति। प्रक्षाल्यान्त्राणि प्रत्यवधायैनम् आहरन्ति। जैब्रा १.४७

आन्त्राणि स्थाली मधु पिन्वमाना । गुदा पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिः । आसन्दी नाभिरुदरं न माता । - तैब्रा २.६.४.३

तेऽभितः परिचरन्त ऐत्पशुमेव निरान्त्रं शयानं ते विदुरियान्वा किल पशुर्यावती वपेति। - ऐब्रा २.१३

मध्य उपयमनमुदरस्य रूपम् । तस्मिन् सर्वं रञ्जुमयं समवदधात्यान्त्राणां रूपम् । -

आप.श्रौ.सू. १५.१५.१

मध्य उपयमनमुदरस्य रूपम् १५ तस्मिन् सर्वँ रज्जुमयँ समवदधात्यान्त्राणाँ रूपम् भार.श्रौ.सू. ११.१५.१६

र्मध्य उपयमनमुदरस्य तस्मिन्सर्व रज्जुमयमवदधात्पात्रा(त्यान्त्रा)णा रौहिणपिष्टलेपेन प्रध्वँसयति – हिर.श्रौ.सू. २४.६.१२

साक्षादस्य हृदयं भित्त्वान्त्राणि परिकासयातै स्तृणुते हैव तं भ्रातृव्यम् – बौ.श्रौसू. १४.२१.३२

तदपि दाशतये विज्ञायतेऽवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम्। - बौश्रौसू

२४.१३

रोमाणि काशाः केशास्तु कृशाः कूर्मा नखानि च ।
अन्त्राणि चैवाप्यवका मज्जा सिकतशर्कराः ॥बृहद्देवता ७.७९