पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Anapatya to aahlaada only) by Radha Gupta, Suman Agarwal, Vipin Kumar Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.) Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa etc.) Apashakuna - Abhaya (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.) Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.) Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha, Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.) Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.) Arishta - Arghya (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.) Arghya - Alakshmi (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.) Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.) Avasphurja - Ashoucha (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.) Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.) Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.) Ashvamedha - Ashvinau (Ashvamedha, Ashvashiraa, Ashvinau etc.) Ashvinau - Asi (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.) Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.) Astra - Ahoraatra (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.) Aa - Aajyapa (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya, Aaditya/sun etc.) Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.) Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.) Aayurveda - Aavarta (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.) Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.) Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )
|
|
अश्वमेधः सोमयागेषु सुत्यादिवस्य प्राक्कृत्यं प्रवर्ग्य-उपसद् इष्टयः भवन्ति। ताभिः यज्ञस्य उपशीर्षाणां सर्जनं भवति। संवत्सरस्य मासानां - अर्धमासानां संख्यानुसारेण एतेषां प्रवर्ग्याणां संख्या अपि १२ अथवा २४ भवति। एते उपशीर्षाः प्रजायाः नियमनं कुर्वन्ति। यद्यपि अश्वमेधः सोमयागः एव अस्ति, तथापि अत्र प्रवर्ग्य-उपसदिष्टयः न भवन्ति। अपितु, अश्वः राष्ट्रे भ्रमणं करोति। अनुमानमस्ति यत् अन्येषु सोमयागेषु ये प्रवर्ग्य-उपसदिष्टयः सन्ति, अश्वमेधे तेषां रूपं अश्वस्य राष्ट्रे भ्रमणमस्ति। बृहदारण्यकोपनिषदे कथनमस्ति – उषा वा अश्वस्य मेध्यस्य शिरः। अयं संकेतमस्ति यत् अश्वमेधे प्रवर्ग्याणां संख्या संवत्सरस्य अह्नां साम्येन ३६० भवति। प्रतिदिने शिरःरूपेण उषायाः प्राकट्यं भवति। बृहदारण्यके अश्वस्य अन्येषां अङ्गानां विषये ये कथनाः सन्ति, तेषां रहस्यं अन्वेषणीयमस्ति। स्कन्दपुराणे ६.२६३.१३ मनसोपरि जयस्य संज्ञा अश्वमेधः अस्ति। शतपथब्राह्मणः ११.२.५.[४] अस्य कथनस्य पुष्टिं करोति। शतपथे पौर्णमासस्य चन्द्रमसः संज्ञा अश्वमेधः अस्ति, अमावास्याः चन्द्रमसः विवर्तः। शतपथब्राह्मणे १०,६,५,७ कथनमस्ति यत् यदा शरीरतः प्राणाः उत्क्रान्ताः भवन्ति, यदा शरीरः श्वयितुमारभ्यते, तस्मिन् काले एव अश्वमेधीयस्य अश्वस्य सृजनं भवितुं शक्यते। कर्मकाण्डे अश्वमेधस्य प्रक्रिया अश्वस्य संज्ञपनान्तरं एव आरभ्यते। अस्य निहितार्थं एवं भवितुं शक्यते यत् येषां प्राणानां उत्क्रान्तिः अपेक्षितं अस्ति, ते शरीरस्य अचेतनमनःस्थानीयाः सन्ति। श्री रजनीशमहोदयेन विपश्यना शीर्षके अस्य विषयस्य विस्तृतविवेचनं कृतमस्ति। स्कन्दपुराणे ६.२६३.१३ मनसोपरि जयस्य संज्ञा अश्वमेधः अस्ति। शतपथब्राह्मणः ११.२.५.[४] अस्य कथनस्य पुष्टिं करोति। शतपथे पौर्णमासस्य चन्द्रमसः संज्ञा अश्वमेधः अस्ति, अमावास्याः चन्द्रमसः विवर्तः। शतपथब्राह्मणे १०,६,५,७ कथनमस्ति यत् यदा शरीरतः प्राणाः उत्क्रान्ताः भवन्ति, यदा शरीरः श्वयितुमारभ्यते, तस्मिन् काले एव अश्वमेधीयस्य अश्वस्य सृजनं भवितुं शक्यते। कर्मकाण्डे अश्वमेधस्य प्रक्रिया अश्वस्य संज्ञपनान्तरं एव आरभ्यते। अस्य निहितार्थं एवं भवितुं शक्यते यत् येषां प्राणानां उत्क्रान्तिः अपेक्षितं अस्ति, ते शरीरस्य अचेतनमनःस्थानीयाः सन्ति। श्री रजनीशमहोदयेन विपश्यना शीर्षके अस्य विषयस्य विस्तृतविवेचनं कृतमस्ति। पद्मपुराणे ५.९.४ उल्लेखमस्ति यत् रामस्य हयमेधस्य अश्वस्य मोचनं वैशाखपूर्णिमा तिथौ अभवत्। वैशाखशब्दस्य रहस्यार्थं किं भवितुं शक्यते। पुराणेषु स्कन्दस्य द्वौ अनुचरौ स्तः – शाखः एवं विशाखः। परोक्षरूपेण, एतौ शाकः एवं विशाकः स्तः। गरुडपुराणे २.३२.११३ उल्लेखमस्ति यत् शाकद्वीपस्य देहे स्थितिः मज्जायां अस्ति। अयं संकेतमस्ति यत् यदा मज्जायाः निर्गमनं रुधिरे भवति, तत् विशाखस्थितिः अस्ति। स्कन्दपुराणे ७.१.१३.५ उल्लेखमस्ति यत् सूर्यस्य अतिरिक्त तेजस्य भ्रमिरुपरि कर्तनं शाकद्वीपे अभवत्। अयं प्रतीयते यत् शाकद्वीपः एकांतिकसाधनायाः स्थानमस्ति एवं विशाकः सामाजिकव्यवहारस्य। पद्मपुराणे ६.८५.१ वैशाखपूर्णिमातिथौ विष्णोः जलशयनस्य आरम्भस्य कथनमस्ति। विष्णोः जलशयनस्य वैशिष्ट्यं अयमस्ति यत् तस्य शय्या कदापि श्रीरहिता न भवेत्। वैदिकवाङ्मये जलस्य तात्पर्यं पुण्यकृत्यानि भवन्ति। स्कन्दपुराणे ५.१.४८.५१ वैशाखपूर्णिमातिथौ शिवस्य शिप्रास्नानस्य निर्देशमस्ति। शिप्रा क्षिप्रस्य प्रतीकमस्ति, अयमनुमानः। अयं संकेतमस्ति यत् अश्वस्य चरणं क्षिप्रं भवितुं अर्हति। अश्वे यः श्वः, भविष्यः निहितं अस्ति, तस्य निवारणस्य अपेक्षा अस्ति। वैशाखमासस्य अपरनाम माधवः अस्ति। माधवस्य विस्तारं मेधा, मेध्य इत्यादिषु अस्ति। पृष्ठ्यषडहेषु पंचम दिवसे शाक्वर अथवा महानाम्नीसामस्य गानं भवति – विदा मघवन् विदा इति। अस्य सामस्य गाने अपां घोषः करणीयं भवति। अयं शक्वरी अपि शाकशब्देन सम्बद्धः प्रतीतं भवति। संदर्भाः १. इन्द्रायार्कवतेऽश्वमेधवता एकादशकपालं निर्वपेत् , निरुद्धं याजयेत् , अन्तं वा एष गतो यो निरुद्धो , अन्तोऽर्को , अन्तोऽश्वमेधो । मै २,२,९ । २. अश्वमेधे सर्वा देवता अन्वायत्ताः । माश १३,१,२,९ । ३. असावश्वो मेधो मेध्य इत्यादित्यम् (उपदिशन् ) । जै १, २५ । ४ असावादित्योऽश्वमेधः । तैसं ५,७,५,३; माश ९,४,२,१८ । ५. अर्को वा एष यद् अग्निर् असाव् आदित्यः अश्वमेधः । यद् एता आहुतीर् जुहोत्य् अर्काश्वमेधयोर् एव ज्योतीम्̇षि सं दधाति । एष ह त्वा अर्काश्वमेधी यस्यैतद् अग्नौ क्रियते । तैसं ५,७,५,३ द्वादशमासाः संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै [४] एकविंशं मध्यममहर्भवति असौ वा आदित्य एकविंशः सोऽश्वमेधः । माश १३,५,१,५। ६. उत्सन्नयज्ञो वा एष यदश्वमेधः कस्तद्वेदेत्याहुर्यदि सर्वो वा क्रियते, न वा सर्व इति, यत्संकृत्यच्छावाकसामं भवत्यश्वस्य सर्वत्वाय पर्याप्त्या अनन्तरायाय । तैसं ५,४,१२,३ । ७. ऋषभ एष यज्ञानां यदश्वमेधः । तै ३,८,३,३ । ८. एष एवाश्वमेधो यच्चन्द्रमाः । माश ११,२,५, १। तदाहुः। विवृत्तेऽश्वस्येष्टिं निर्वपतीत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागच्छति सोऽस्मिंलोके विवर्तते [३]। स यदामावास्येन यजते। विवृत्त एवास्यैतदिष्टिं निर्वपत्यथ यत्पौर्णमासेन यजतेऽश्वमेधमेवैतदालभते तमालभ्य देवेभ्यः प्रयच्छति संवत्सरे वा इतरमश्वमेधमालभन्त एष वै मासः परिप्लवमानः संवत्सरं करोति तदस्य संवत्सरे संवत्सर एवाश्वमेध आलब्धो भवति – माश ११.२.५.[४] ९. एष (अश्वमेधः) वा अतिव्याधी नाम यज्ञः । तै ३, ९,१९, ३ । १०. एष वाऽअश्वमेधो य एष (सूर्यः) तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । माश १०,६,५,८ । ११, एष (अश्वमेधः) वा ऊर्जस्वान् (पयस्वान् , प्रभूर् , विभूर् ) नाम यज्ञः। तै ३,९,१९,१॥ १२. एष (अश्वमेधः) वै तेजस्वी (क्लृप्तो, दीर्घो, ब्रह्मवर्चसी) नाम यज्ञः । तै ३,९,१९,३ ।
तार्प्येणाश्वँ
संज्ञपयन्ति ।
यज्ञो वै तार्प्यम् । यज्ञेनैवैनँ
समर्धयन्ति । यामेन
साम्ना प्रस्तोतानूपतिष्ठते ।
यमलोकमेवैनं गमयति । तार्प्ये
च कृत्यधीवासे चाश्वँ संज्ञपयन्ति
। एतद्वै पशूनाँ रूपम्
। रूपेणैव पशूनवरुन्धे
। हिरण्यकशिपु भवति
। तेजसोऽवरुद्ध्यै । १३. एष (अश्वमेधः) वै प्रतिष्ठितो (विधृतो, व्यावृत्तो) नाम यज्ञः । तै ३,९,१९,२ । १४. तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । माश १०,६,५,७ । १५. तद् (प्रजापतेरक्षि) देवा अश्वमेधेन (+ एव [तैसं.J) प्रत्यदधुरेष वाव (वै तैसं.1) प्रजापतिं सर्व करोति योऽश्वमेधेन यजते । तैसं ५,३,१२,१; तां २१,४,२ । प्रजापतेर् अक्ष्य् अश्वयत् तत् परापतत् तद् अश्वो ऽभवत् । यद् अश्वयत् तद् अश्वस्याश्वत्वम् । तद् देवा अश्वमेधेनैव प्रत्यदधुः । तैसं ५,३,१२,१ १६. तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते । माश १३,३,१,१।। १७. तेजसा वा एष ब्रह्मवर्चसेन व्यृध्यते । योऽश्वमेधेन यजते । तै ३,९,५,१। १८. एष वै स्वर्गो लोको यत्र पशुं सञ्ज्ञपयन्ति निरायत्याश्वस्य शिश्नं महिष्युपस्थे निधत्ते वृषा वाजी रेतोधा रेतो दधात्विति । माश १३,५,२,२। १९. प्रजापतिरश्वमेधः । माश १३,२,२,१३, ४,१,१५ । २०. वसोर्धारा -- अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश्च मेऽश्वमेधश्च मे (यज्ञेन कल्पताम् ) । तैसं ४,७,९,१ । २१. यजमानो वाऽअश्वमेधः । माश १३,२,२,१। अग्निर्वा अश्वमेधस्य योनिरायतनम् । सूर्योऽग्नेर्योनिरायतनम् । यदश्वमेधेऽग्नौ चित्य उत्तरवेदिमुपवपति । योनिमन्तमेवैनमायतनवन्तं करोति – तै ३.९.२१. २२. योऽश्वमेधेन यजते। देवानामेवायनेनैति । तै ३,९,२२,३। २३. राजा वाऽएष यज्ञानां यदश्वमेधः। माश १३,२,२,१ । २४. राष्ट्रं वा अश्वमेधः। राष्ट्रे खलु वा एते व्यायच्छन्ते । येऽश्वं मेध्यँ रक्षन्ति । (राष्ट्रमश्व॰ [माश १३, २,२,१६)। तै ३,८,९,४; माश १३,१,६,३ २५. वृषभ एष यज्ञानां यदश्वमेधः । माश १३,१,२,२ । २६. श्रीर्वै राष्ट्रमश्वमेधः । तै ३,९,७,१; माश १३,२,९,२ । २७. सर्वस्य वा एषा प्रायश्चित्तिः, सर्वस्य भेषजँ सर्वं वा एतेन (अश्वमेधेन) पाप्मानं देवा अतरन्नपि वा एतेन ब्रह्महत्यमतरन् । तैसं ५,३,१२,१। २८ सर्वस्यैष न वेद यो ब्राह्मणः सन्नश्वमेधस्य न वेद सोऽब्राह्मणः । माश १३,४,२,१७ । २९. स वा एष (अश्वमेधः ) वीर्यमेव यज्ञो, यर्हि वा एतेन पुरेजिरे, सर्वमेव वीर्यवदास । जै २,२६६ । ३०. सोऽश्वमेधेनेष्ट्वा स्वराडिति नामाधत्त । गो १, ५,८ ॥ अग्निर्वा अश्वमेधस्य योनिरायतनम् – तै ३.९.२१.२-३ तद् वै तद् अग्निहोत्रं त्र्यहम् एव पयसा जुहुयात्। तद् वा अग्निष्टोमस्य रूपम्।......तद् वै तद् अग्निहोत्रं त्र्यहम् एव दध्ना जुहुयात्। तद् वै वाजपेयस्य रूपम्। ..... तद् वै तद् अग्निहोत्रं त्र्यहम् एवाज्येन जुहुयात्। तद् वा अश्वमेधस्य रूपम्। .... तद् वै तद् अग्निहोत्रं त्र्यहम् एवाद्भिर् जुहुयात्। तद् वै पुरुषमेधस्य रूपम्। - जै १.३८ स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाभ्यां च यजते मासि मासि हैवास्याश्वमेधेनेष्टं भवति । माश ११.२.५.५ इयं (पृथिवी) वा अर्काऽसा (द्यौः) अश्वमेधः – काठ १०.९ ओजो (प्राणापानौ) बलं वा एतौ देवानां यदर्काश्वमेधौ – तै ३.९.२१.३ |