Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अररु

ऋग्वेदे येषु ऋचासु अररुः शब्दः अस्ति, तस्य सायणभाष्यं प्रायः अदात्रे, अप्रयुच्छते इति कृतमस्ति। अस्य भाष्यस्य किमाधारः अस्ति, न ज्ञातम्। किन्तु पुराणग्रन्थाः अस्य पुष्टिं कुर्वन्ति। ब्रह्माण्डपुराणे २.३.६.३१ अररुः अनायुषायाः पंचपुत्रेषु एकः अस्ति। देवीभागवतपुराणे २.८.४४ एवं कथासरित्सागरे २.६.७६ एकः रुरुसंज्ञकः द्विजः अस्ति यस्य भार्या प्रमद्वरा सर्पदंशेन मृत्युं प्राप्नोति। रुरुः तां स्वआयुषः अर्द्धं दत्वा पुनर्जीवितं करोति। अथर्ववेदे ६.४६.१ स्वप्नस्य संज्ञा अररुः अस्ति। अयं प्रतीयते यत् ररुः करुणातः रोदनमस्ति येन आयुषः, पुण्यानां स्थांतरणं अधोस्थितेषु स्तरेषु संभवं भवति। इतिहासे बहवः उदाहरणाः सन्ति यत्र पित्रा स्वआयुषः स्थांतरणं पुत्रे कृतमस्ति। तदा केन कारणेन अथर्ववेदे स्वप्नस्य संज्ञा अररुः कृतमस्ति। एवं ब्रह्माण्डपुराणस्य कथनं अस्य पुष्टिं करोति यत् अररुः अनायुषः अस्ति। शतपथब्राह्मणे १.२.४.[१९] अररोः भेषजं स्फ्यसंज्ञेन यज्ञायुधेन कृतमस्ति।

संदर्भाः

मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य।

रक्षा णो ब्रह्मणस्पते॥ १.०१८.०३

उपद्रवं कर्तुं अस्मत्समीपं प्राप्तस्य

इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति।

इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति॥ ७.०५६.१९

हविरप्रयुच्छते

ओ षु घृष्विराधसो यातनान्धांसि पीतये।

इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन॥ ७.०५९.०५

ररे - ददामि

मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य।

इन्द्राग्नी शर्म यच्छतम्॥ ७.०९४.०८

अरेः

रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित्।

निदो यत्र मुमुच्महे॥ ९.०२९.०५

अदातुः

यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न ।

वरुणानी ते माता यमः पिताररुर्नामासि ॥शौअ ६.४६.१

आर्तिकरो असुरः

इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा ।

मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥शौअ १९.१५.२

अदात्र्यः

अररुर्वै नामासुर आसीत् स पृथिव्यामुपम्लुप्तोऽशयत् तं देवा अपहतोऽररुः पृथिव्या इति पृथिव्या अपाघ्नन्न् भ्रातृव्यो वा अररुः अपहतोऽररुः पृथिव्या इति यदाह
भ्रातृव्यमेव पृथिव्या अपहन्ति तेऽमन्यन्त दिवं वा अयमितः पतिष्यतीति तमररुस्ते दिवं मा स्कानिति दिवः पर्यबाधन्त भ्रातृव्यो वा अररुः अररुस्ते दिवं मा स्कानिति यदाह भ्रातृव्यमेव दिवः परिबाधते स्तम्बयजुर्हरति पृथिव्या एव भ्रातृव्यमपहन्ति द्वितीय हरति ५ अन्तरिक्षादेवैनमपहन्ति तृतीय हरति दिव एवैनमपहन्ति तूष्णीं चतुर्थ हरति अपरिमितादेवैनमपहन्ति । - तैब्रा ३.२.९.४

अथ द्वितीयं प्रहरति । अपाररुं पृथिव्यै देवयजनाद्बध्यासमित्यररुर्ह वै नामासुररक्षसमास तं देवा अस्या अपाघ्नन्त तथो एवैनमेतदेषोऽस्या अपहते व्रजं गच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्यां शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति [१७] तमग्नीदभिनिदधाति । अररो दिवं मा पप्त इति यत्र वै देवा अररुमसुररक्षसमपाघ्नत स दिवमपि पतिषत्तमग्निरभिन्यदधादररो दिवं मा पप्त इति स न दिवमपत्तथो एवैनमेतदध्वर्युरेवास्माल्लोकादन्तरेति दिवोऽध्यग्नीत्तस्मादेवं करोति [१८]
अथ तृतीयं प्रहरति । द्रप्सस्ते द्यां मा स्कन्नित्ययं वा अस्यै द्रप्सो यमस्या इमं रसं प्रजा उपजीवन्त्येष ते दिवं मा पप्तदित्येवैतदाह व्रजं गच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्यां शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति -माश १.२.४.[१९]

 

,