Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

Vedic contexts on Aatma/Aatmaa/soul

आत्मा

संदर्भ

*तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् - ऋ. १.३४.७

*पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् (अग्निः) - ऋ. १.७३.२

*आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च। - ऋ. १.११५.१

*तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः - ऋ. १.११६.३

*मा त्वा तपत्प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आ तिष्ठिपत्ते - ऋ. १.१६२.२०

*आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगं - ऋ. १.१६३.६

*भूम्या असुरसृगात्मा क्व स्वित् को विद्वांसमुप गात्प्रष्टुमेतत् - ऋ. १.१६४.४

*युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् - ऋ. १.१८२.५

*आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् - ऋ. ७.८७.२

*स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च (पर्जन्यः) - ऋ. ७.१०१.६

*आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् - ऋ. ८.३.२४

*गोषा इन्दो नृषा अस्यश्वसा वाजसा उत। आत्मा यज्ञस्य पूर्व्यः - ऋ. ९.२.१०

*आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः। प्रत्नं नि पाति काव्यम् ॥ - ऋ. ९.६.८

*आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते - ऋ. ९.७४.४

*अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः। - ऋ. ९.८५.३

*बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परिस्रव - ऋ. ९.११३.१

*सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा - ऋ. १०.१६.३

*आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् - ऋ. १०.९२.१३

*सनेयमश्वं गां वास आत्मानं तव पूरुष - ऋ. १०.९७.४

*धनं सनिष्यन्तीनामात्मानं तव पूरुष - ऋ. १०.९७.८

*यदिमा वाजयन्नहमोषधीर्हस्त आदधे। आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ - ऋ. १०.९७.११

*दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् - ऋ. १०.१०७.७

*य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः - ऋ. १०.१२१.२

*यक्ष्मं सर्वस्मादात्मनः तमिदं विवृहामि ते - ऋ. १०.१६३.५

*आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः - ऋ. १०.१६८.४

*यत्त आत्मनि तन्वां घोरमस्ति यत्र केशेषु प्रतिचक्षणे वा। सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु - अ. १.१८.३

*उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः। स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥ - अ. ३.१५.७

*भूमिष्ट्वा प्रतिगृह्णात्वन्तरिक्षमिदं महत्। माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि - अ. ३.२९.८

*य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। यो ३स्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम - अ. ४.२.१, १३.३.२४

*सनेयमश्वं गामहमात्मानं तव पूरुष - अ. ४.९.७

*देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः। तत्ते बध्नामि - - - - (शंखमणिः) - अ. ४.१०.७

*यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि। धाता तद् भद्रया पुनः सं दधत्परुषा परुः ॥ - अ. ४.१२.२

*चकार भद्रमस्मभ्यमात्मने तपनं तु सः - अ. ४.१८.६

*आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः - अ. ४.२०.५

*वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः - अ. ४.२५.१

*उतामृतासुर्व्रत एमि कृण्वन्नसुरात्मा तन्व१स्तत्सुमद्गुः - अ. ५.१.७

*अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते - अ. ५.५.७

*आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा। आत्मसदौ मे स्तं मा मा हिंसिष्टम् - अ. ५.९.८

*सूर्यो मे चक्षुर्वातः प्राणो३ अन्तरिक्षमात्मा पृथिवी शरीरम्। अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे। द्यावापृथिवीभ्यां गोपीथाय - अ. ५.९.७

*अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः - अ. ५.१८.२

*यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः - अ. ५.२९.५

*तदात्मना प्रजया पिशाचा वि यातयन्तामगदो३यमस्तु - अ. ५.२९.६-९

*स हि न त्वमसि यस्त्वमात्मानमावयः - अ. ६.१६.२

*पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु - अ. ६.५३.२

*अग्निष्टदाहार्निर्ऋतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते - अ. ७.५५.३/७.५३.३

*यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद् घृतेन - अ. ७.५९.१/७.५७.१

*पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च - अ. ७.६९.१/७.६७.१

*इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत मानुषाणाम् - अ. ७.११६.१/७.१११.१

*अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् - अ. ८.२.८

*य आत्मानमतिमात्रमंस आधाय बिभ्रति - अ. ८.६.१३

*एवा मे अश्विना वर्च आत्मनि ध्रियताम् - अ. ९.१.११

*एवा मे इन्द्राग्नी वर्च आत्मनि ध्रियताम् - अ. ९.१.१२

*एवा मे ऋभवो वर्च आत्मनि ध्रियताम् - अ. ९.१.१३

*एवा मे अश्विना वर्च आत्मनि ध्रियताम् - अ. ९.१.१६

*बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः। अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभेस्ताम् ॥ - अ. ९.४.१०

*आत्मानं पितरं पुत्रं पौत्रं पितामहम् - अ. ९.५.३०

*निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना यो३जं पञ्चौदनं दक्षिणाज्योतिषं ददाति - अ. ९.५.३१-३६

*तेषामासन्नानामतिथिरात्मञ्जुहोति - अ. ९.७.४/९.६.४

*यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे - अ. ९.१३.९/९.८.९

*भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् - अ. ९.१४.४/९.९.४

*तस्मिन्हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते। तस्मिन्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥ - अ. १०.२.३२

*स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन्निमिषच्च यत् - अ. १०.८.२

*पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम्। तस्मिन्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥ - अ. १०.८.४३

*तमेव विद्वान्न बिभाय मृत्योरात्मानं धीरमजरं युवानम् - अ. १०.८.४४

*तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु - अ. ११.२.१०

*तद् ब्रह्मचारी प्रायच्छत्स्वान्मित्रो अध्यात्मनः - अ. ११.७.१५/११.५.१५

*पृथक्सर्वे प्राजापत्याः प्राणानात्मसु बिभ्रति। तान्सर्वान्ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥ - अ. ११.७.२२

*अथास्येतरमात्मानं देवाः प्रायच्छन्नग्नये - अ. ११.१०.३१/११.८.३१

*इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः। सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः - अ. १२.१.१०

*प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् - अ. १२.२.३४

*उत्थाप्य सीदतोv बुध्न एनानद्भिरात्मानमभि सं स्पृशन्ताम् - अ. १२.३.३०

*क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य - अ. १२.३.५१

*तन्वं सर्वगो बहुधा वि चक्रे यथा विद आत्मन्नन्यवर्णाम् - अ. १२.३.५४

*आविरात्मानं कृणुते यदा स्थाम जिघांसति। अथो ह ब्रह्मभ्यो वशा याञ्चाय कृणुते मनः ॥ - अ. १२.४.३०

*घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः - अ. १३.१.५२

*आप्राद् द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च - अ. १३.२.३५

*आत्मन्वत्युर्वरा नारीयमागन्तस्यां नरो वपत बीजमस्याम् (सूर्या विवाहः) - अ. १४.२.१४

*स प्रजापतिः सुवर्णमात्मन्नपश्यत्तत्प्राजनयत् - अ. १५.१.२

*तद्यस्यैवं विद्वान्व्रात्यो राज्ञोऽतिथिर्गृहानागच्छेत्। श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते - अ. १५.१०.१

*म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः - अ. १६.१.३

*बृहस्पतिर्म आत्मा नृमणा साम हृद्यः - अ. १६.३.५

*यो३स्मान्द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु - अ. १६.७.५

*सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः (पितृमेधः) - अ. १८.२.७

*अग्निर्मा पातु वसुभिः पुरस्तात् तस्मिन्क्रमे तस्मिञ्छये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ - - - - - - - - - - अ. १९.१७.१ - १०

*प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् - अ. १९.२७.८

*दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः। अतिष्ठाया वर्चसा धान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥ - अ. १९.३३.५

*ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति। पशून्ये सर्वान्रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति - अ. १९.४८.५

*अयुतोऽहमयुतो म आत्मायुतं म चक्षुरयुतं मे श्रोत्रमयुतो - - - - अ. १९.५१.१

*अरिष्टानि मे सर्वात्मानिभृष्टः - अ. १९.६०.२

*आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च - अ. २०.१०७.१४

*ग्रह पश्वादि उपस्थान मन्त्राः :- रेवती रमध्वमित्याह पशवो वै रेवतीः पशूनेव आत्मन् रमयत - तैत्तिरीय संहिता १.५.८.२

*गार्हपत्यमुपतिष्ठते - - - - - तेजो वै गायत्री तेज एवाऽऽत्मन् धत्ते - तै.सं. १.५.८.३

*यदनाश्वानुपवसेत् पितृदेवत्यः स्यादारण्यस्याश्नातीन्द्रियं वा आरण्यमिन्द्रियमेव आत्मन्  धत्ते - तै.सं. १.६.७.४

*हविः सादनम् : मनोऽसि प्राजापत्यं - - - - मनो वै प्राजापत्यं प्राजापत्यो यज्ञो मन एव यज्ञमात्मन् धत्ते - तै.सं. १.६.१०.६

*ऐन्द्री वै वाग्वाचमेवैन्द्रीमात्मन् धत्ते - तै.सं. १.६.१०.६

*अग्नीषोमाभ्यां वै यज्ञश्चक्षुष्मान् ताभ्यामेव चक्षुरात्मन् धत्ते - तै.सं. १.६.११.५

*अग्निर्वै देवानामन्नादस्तेनैवाऽन्नाद्यमात्मन् धत्ते - तै.सं. १.६.११.६

*अग्नेः स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयमित्याहाऽऽयुरेव आत्मन् धत्ते - तै.सं. १.६.११.७, १.७.४.१

*ब्रह्मवादिनो वदन्ति स त्वा इडामुप ह्वयेत य इडामुपहूयाऽऽत्मानमिडायामुपह्वयेतेति सा नः प्रिया सुप्रतूर्तिर्मघोनीत्याह इडामेवोपहूयाऽऽत्मानमिडायामुप ह्वयते - तै.सं. १.७.१.४

*यथा देवत्रा दत्तं कुर्वीतोऽऽत्मन् पशून् रमयेतेति (यां वै यज्ञे दक्षिणां ददाति तामस्य पशवोऽनु संक्रामन्ति) - तै.सं. १.७.१.६

*प्रजापतिर्देवेभ्यो यज्ञान् व्यादिशत् स रिरिचानोऽमन्यत स एतमन्वाहार्यमभक्तमपश्यत् तमात्मन्नधत्त - तै.सं. १.७.३.२

*यस्यैवं विदुषोऽन्वाहार्यं आह्रियते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. १.७.३.३

*सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेत्याह सोमो वै रेतोधास्तेनेव रेत आत्मन् धत्ते - त्वष्टुरहं देवयज्यया पशूनां रूपं पुषेयमित्याह त्वष्टा वै पशूनां मिथुनानां रूपकृत् तेनैव पशूनां रूपमात्मन् धत्ते - तै.सं.

*रिच्यत इव वा एतद्यद्यजते यद्यजमानभागं प्राश्नात्यात्मानमेव प्रीणाति एतावान् वै यज्ञो यावान् यजमानभागो - तै.सं. १.७.५.२

*यत् पूर्ण पात्रं अन्तर्वेदि निनयति स्व एवाऽऽयतने सूयवसं सोदकं कुरुते सदसि सन्मे भूया इत्याहाऽऽपो वै यज्ञ आपोऽमृतं यज्ञमेवामृतमात्मन् धत्ते - तै.सं. १.७.५.३

*दक्षिणा पर्यावर्तते स्वमेव वीर्यमनु पर्यावर्तते तस्माद्दक्षिणोऽर्ध आत्मनोवीर्यावत्तरो - तै.सं. १.७.६.३

*आग्नि पावमानीभ्यां गार्हपत्यमुप तिष्ठते पुनात्येवाग्निं पुनीत आत्मानं द्वाभ्यां प्रतिष्ठित्या - तै.सं. १.७.६.४

*प्रजापतिर्वा इदमेक आसीत् सोऽकामयत प्रजाः पशून्त्सृजेयेति स आत्मनो वपामुदक्खिदत् तामग्नौ प्रागृह्णात् ततोऽजस्तूपर समभवत्~ - तै.सं. २.१.१.४

*ते देवा अमन्यन्त यमो वा इदमभवद्यद्वयं स्म इति ते प्रजापतिमुपाधावन्त्स एतौ प्रजापतिरात्मन उक्षवशौ निरमिमीत - - - तै.सं. २.१.४.४

*वरुणेनैव भ्रातृव्यं ग्राहयित्वा विष्णुना यज्ञेन प्र णुदत ऐन्द्रेणैवास्येन्द्रियं वृङ्क्ते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. २.१.४.५

*यः पाप्मना गृहीतः स्यात् स आग्नेयं कृष्णग्रीवमालभेतैन्द्रमृषभमग्निरेवास्य स्वेन भागधेयेनोपसृतः पाप्मानमपि दहत्यैन्द्रेणेन्द्रियमात्मन् धत्ते मुच्यते पाप्मनो - तै.सं. २.१.४.७

*ऐन्द्राग्नमेकादशकपालमुपरिष्टान्निर्वपेदस्यामेव प्रतिष्ठायेन्द्रियं वीर्यमुपरिष्टादात्मन् धत्ते - तै.सं. २.२.१.५

*आत्मनो वा एष मात्रामाप्नोति य उभयादत् प्रतिगृह्णाति - - - - - - संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदितमेव प्रतिगृह्णाति नाऽऽत्मनो मात्रामाप्नोति - तै.सं. २.२.६.३-४

*यदिन्द्रायेन्द्रियावत आत्मानमेवास्य तेन करोति - तै.सं. २.२.७.३

*वह्निर्वा अनड्वान् वह्निर्होता वह्निनैव वह्निमात्मानं स्पृणोति - तै.सं. २.२.१०.५

*आत्मा वै पुरुषस्य मधु यन्मध्वग्नौ जुहोत्यात्मानमेव तद्यजमानो ऽग्नौ प्रदधाति - तै.सं. २.३.२.९

*पाङ्क्तः पुरुषः पाङ्क्ताः पशव आत्मानमेव मृत्योर्निष्क्रीय पशूनवरुन्द्धे - तै.सं. २.३.२.९

*अग्निं वा एतस्य शरीरं गच्छति सोमं रसो - - - - अग्नाविष्णू आत्मा - तै.सं. २.३.११.१

*अग्नेस्त्वा मात्रयेत्याहाऽऽत्मानमेवास्मिन्नेतेन दधाति - तै.सं. २.३.११.४

*पयस्यायां पुरोडाशमव दधात्यात्मन्वन्तमेवैनं करोति - तै.सं. २.३.१३.३

*इन्द्राय वैमृधाय मृध एव तेनापाघ्नत यदिन्द्रायेन्द्रियावत इन्द्रियमेव तेनाऽऽत्मन्नदधत त्रयस्त्रिंशत्कपालं पुरोडाशं निरवपन् त्रयस्त्रिंशद्वै देवतास्ता इन्द्र आत्मन्ननु समारम्भयत भूत्यै - तै.सं. २.४.२.२

*भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. २.४.३.३

*स विष्णुस्त्रेधाऽऽत्मानं वि न्यधत्त पृथिव्यां तृतीयमन्तरिक्षे तृतीयं दिवि तृतीयम् - तै.सं. २.४.१२.३

*काम्येष्टि याज्यापुरोनुवाक्या :- आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च - तै.सं. २.४.१४.४

*अग्नीषोमीय पुरोडाशः :- तावब्रूतामभि संदष्टौ वै स्वो न शक्नुव ऐतुमिति स इन्द्र आत्मनः शीतरूरावजनयत् - तै.सं. २.५.२.३

*अग्नीषोमीय पुरोडाशः- प्राणो वै दक्षोऽपानः क्रतु एतस्माज्जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू इति प्राणापानावेवाऽऽत्मन् धत्ते - तै.सं. २.५.२.४

*अमावास्यायां सान्नाय्यादियागः :- प्रजापतिः पशूनब्रवीदेतस्मै संनयतेति तत् पशव ओषधीभ्योऽध्यात्मन्समनयन् तत्प्रत्यदुहन् यत् समनयन् तत्सांनाय्यस्य सांनाय्यत्वम् - तै.सं. २.५.३.३

*पौर्णमास्याम् अनुनिर्वाप्यौ : साकं प्रस्थायीयेन यजेत पशुकामो यस्यै वा अल्पेनाऽऽहरन्ति नाऽऽत्मना तृप्यति नान्यस्मै ददाति यस्मै महता महता तृप्यत्यात्मना ददात्यन्यस्मै - तै.सं. २.५.४.३

*अभ्युदयेष्टिः, दाक्षायणयज्ञः :- पयो वै सोमः पयः सांनाय्यं पयसैव पय आत्मन् धत्ते - तै.सं. २.५.५.१

*सामिधेनी मन्त्रः :- अग्निं दूतं वृणीमह इत्यन्वाह भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. २.५.८.५

*प्रवरादि मन्त्राः :- स्मो वयमित्याहाऽऽत्मानमेव सत्त्वं गमयति - तै.सं. २.५.९.५

*सामिधेनीषु होतुर्नियमविशेषः :- शिरो वै एतद्यज्ञस्य यदाघार आत्मा ध्रुवा ऽऽघारमाघार्य ध्रुवां समनक्त्यात्मन्नेव यज्ञस्य शिरः प्रति दधाति - तै.सं. २.५.११.७

*सामिधेनीषु होतुर्नियमः :- यस्यैवं विदुषः प्रवरं प्रवृणते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. २.५.११.९

*यद् ब्राह्मणायाध्याहाऽऽत्मनेऽध्याह यद् ब्राह्मणं पराहाऽऽत्मानं पराऽऽह तस्माद् ब्राह्मणो न परोच्यः - तै.सं. २.५.११.९

*प्रजापतिर्देवेभ्यो यज्ञान् व्यादिशत् स आत्मन्नाज्यमधत्त तं देवा अब्रुवन्नेष वा यज्ञो यदाज्यम् - तै.सं. २.६.३.१

*वेदिः :- एतावती वै पृथिवी यावती वेदिस्तस्या एतावत एव भ्रातृव्यं निर्भज्याऽऽत्मन उत्तरं परिग्राहं परि गृह्णाति - तै.सं. २.६.४.३

*इडोपाह्वानम् : उपहूतां३हो इत्याहाऽऽत्मानमेवोप ह्वयत। आत्मा ह्युपहूतानां वसिष्ठ इडामुप ह्वयते - तै.सं. २.६.७.३

*इडाप्राशित्रभक्षौ : पशवो वा इडा स्वयमा दत्ते काममेवाऽऽत्मना पशूनामा दत्ते - तै.सं. २.६.८.१

*अनूयाजा सूक्तवाकश्च : बृहस्पतिर्ब्रह्मेत्याह - - - स मां पाहीत्याह यज्ञाय यजमानायाऽऽत्मने - तै.सं. २.६.९.३

*अनूयाजा सूक्तवाकश्च : याश्चैव देवता यजति याश्च न ताभ्य एवोभयीभ्यो नमस्करोत्यात्मनोऽनार्त्यै - तै.सं. २.६.९.८

*दीक्षितवादः :- उन्दन्तीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपोनिर्वधिष्टेत्याह एतदेव सर्वमात्मन् धत्ते - तै.सं. ३.१.१.३

*पशूपाकरणमन्त्राः :- प्राजापत्या वै पशवस्तेषां रुद्रोऽधिपतिर्यदेताभ्यामुपाकरोति ताभ्यामेवैनं प्रतिप्रोच्याऽऽलभत आत्मनोऽनाव्रस्काय(अनपराधाय) - तै.सं. ३.१.५.१

*- - - - -पुरा प्रातरनुवाकाज्जुहुयादात्मन एव तदध्वर्युः पुरस्ताच्छर्म नह्यते ऽनार्त्यै - तै.सं. ३.१.७.१

*उपांशु ग्रहार्थो अभिषवः :- ऽऽत्मानं मे तर्पयताङ्गानि मे तर्पयत - तै.सं. ३.१.८.१

*सोमयाग के सवनों का चातुर्मास्य याग रूप में निरूपण : ततो देवा अभवन् पराऽसुरा य एवं विद्वान् सोमेन यजते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ३.२.२.३

*सोमावेक्षणं : आत्मने (आग्रयणमवेक्षते) ऽङ्गेभ्य (उक्थ्यं अवेक्षते) - तै.सं. ३.२.३.२

*सोमावेक्षणं :- स (प्रजापतिः) एनं तृप्त: प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्यां श्रोत्राभ्यामात्मनो ऽङ्गेभ्य आयुषोऽन्तरेति ताजक् प्र धन्वति - तै.सं. ३.२.३.४

*स्फ्याद्युपस्थानम् : यज्ञो वै मखो यज्ञं वाव स तदहन् तस्मा एव नमस्कृत्य सदः प्रसर्पत्यात्मनोऽनार्त्यै - तै.सं. ३.२.४.२

*तेभ्य(पितृभ्यः) एव नमस्कृत्य सदः प्र सर्पत्यात्मनोऽनार्त्यै - तै.सं. ३.२.४.५

*यन्म आत्मनो मिन्दाऽभूदग्निस्तत् पुनराऽहार्जातवेदा विचर्षणिः - तै.सं. ३.२.५.४

*प्रतिहारानन्तरभावि मन्त्राः :- यथासवनं प्रतिहारे छन्दांसि संपादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियं माध्यंदिने सवने पशूंस्तृतीयसवन - - - - (गायत्री द्वारा प्रातःसवन में तेज, त्रिष्टुप् द्वारा माध्यन्दिन में इन्द्रिय, शक्वरी द्वारा तृतीय सवन में पशु) - तै.सं. ३.२.९.२

*स्तोत्रोपाकरण प्रतिहाराङ्ग मन्त्राः :- - - - - ते देवाः प्राणभृतः प्राणं मयि दधत्वित्याहैतदेव सर्वमात्मन् धत्त (वायु हिंकर्ता, अग्नि प्रस्तोता, प्रजापति साम, बृहस्पति उद्गाता - - - -) - तै.सं. ३.३.२.१

*अदाभ्यांशुग्रह मन्त्राः :- आ नः प्राण एतु परावत इत्याहाऽऽयुरेव प्राणमात्मन् धत्ते - तै.सं. ३.३.४.३

*अमृतं वै हिरण्यमायुः प्राणोऽमृतेनैवाऽऽयुरात्मन् धत्ते - तै.सं. ३.३.४.३

*य एवं छन्दसां वीर्यं वेदाश्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारो भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ३.३.७.२

*अष्टाप्रूड्ढिरण्यं (अष्टाभिर्बिन्दुभिर्लाञ्छितम् वशा) दक्षिणा ऽष्टापदी ह्येषाऽऽत्मा नवमः पशोराप्त्या - तै.सं. ३.४.१.४

*वशालम्भार्थो विधिः :- यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेत् सर्वा वा प्राश्नीयात् - - - - सर्वामेव प्राश्नीयादिन्द्रियमेवाऽऽत्मन् धत्ते - तै.सं. ३.४.३.८

*अभ्यातानहोमविधानम् : राष्ट्रभृद्भी राष्ट्रमादत्ते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ३.४.६.३

*अभ्यातानहोम विधानम् : राष्ट्रभृद्भी राष्ट्रमादत्ते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ३.४.६.३

*आत्मने होतव्या राष्ट्रं वै राष्ट्रभृतो - तै.सं. ३.४.८.१

*प्रयास्यतोऽग्निहोत्रिणः अग्निसमारोपणम् : या ते अग्ने यज्ञिया तनूस्तयेह्या रोहेत्यात्मन्त्समारोहयते - तै.सं. ३.४.१०.५

*- - - - नास्यापरूपमात्मञ्जायते - तै.सं. ३.५.७.४

*मृदाक्रान्तिः :- द्यौस्ते पृष्ठं पृथिवी सधस्थमात्माऽन्तरिक्षं समुद्रस्ते योनिः - तै.सं. ४.१.२.३

*आप्रीनामिका प्रयाजयाज्या : य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः - तै.सं. ४.१.८.४

*अग्निधारणम् : सुपर्णोऽसि गरुत्मान् त्रिवृत् ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूः  - तै.सं. ४.१.१०.५

*गार्हपत्य चयनम् : सं या वः प्रियास्तनुः सं प्रिया हृदयानि वः। आत्मा वो अस्तु संप्रियः संप्रियास्तनुवो मम ॥ - तै.सं. ४.२.४.१

*यदहं वाजयन्निमा ओषधीर्हस्त आदधे। आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ - तै.सं. ४.२.६.२

*ओषधीवापः :- उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते। धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥ - तै.सं. ४.२.६.३

*यास्त आतस्थुरात्मानं या आविविशुः परुः परुः। तास्ते यक्ष्मं वि बाधन्तामुग्रो मध्यमशीरिव - तै.सं. ४.२.६.४

*स्वयमातृण्णा : - - - - - ऽऽत्मानं मे पाहि ज्योतिर्मे यच्छ - तै.सं. ४.३.६.३

*अश्वस्तोमीया होमाः :- आत्मानं ते मनसा ऽऽरादजानामवो दिवा पतयन्तं पतङ्गम्। शिवो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि - तै.सं. ४.६.७.२

*अश्वस्तोमीया होमाः :- मा त्वा तपत् प्रिय आत्माऽपियन्तं मा स्वधितिस्तनुव आ तिष्ठिपत् ते। - तै.सं. ४.६.९.४

*वसोर्धारा : आत्मा च मे तनूश्च मे - तै.सं. ४.७.१.२

*आत्मा यज्ञेन कल्पतां - तै.सं. ४.७.१०.२

*अश्वमेधीया याज्यानुवाक्या : वायोः सवितुर्विदथानि मन्महे यावात्मन्वद् बिभृतो यौ च रक्षतः - तै.सं. ४.७.१५.३

*रुद्रादेव पशून्निर्याच्याऽऽत्मने कर्म कुरुते - तै.सं. ५.१.२.४

*प्रजापतिः प्रजा असृजत स रिरिचानोऽमन्यत स एता आप्रीरपश्यत्ताभिर्वै स मुखतः आत्मानमाऽप्रीणीत - तै.सं. ५.१.८.४

*उख्य धारणम् : - - - - त्रय इमे लोका एष्वेव लोकेष्वाविदं गच्छत्यथो प्राणानेवाऽऽत्मन्धत्ते - तै.सं. ५.१.९.६

*स (शुनःशेपो) एतां वारुणीमपश्यत्तया वै स आत्मानं वरुणपाशादमुञ्चद् - - - - - उदुत्तमं वरुण पाशमस्मदित्याहाऽऽत्मानमेवैतया वरुणपाशान्मुञ्चति - तै.सं. ५.२.१.३

*गार्हपत्यचयनम् : - - - - पुनरूर्जा सह रय्येति पुनरुदैति प्रजामेव पशूनात्मन्धत्ते - तै.सं. ५.२.२.५

*गार्हपत्यचयनम् : ऽपेतत्यध्यवसाययति यममेव देवयजनमस्यै निर्याच्याऽऽत्मनेऽग्निं चिनुत - तै.सं. ५.२.३.१

*क्षेत्रकर्षणम् : दक्षिणो पर्यावर्तन्ते स्वमेव वीर्यमनु पर्यावर्तन्ते तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरो - तै.सं. ५.२.५.४

*यदक्ष्णयास्तोमीया अन्यथाऽनूच्यान्यथोपदधाति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ५.३.३.१

*असपत्नविराट् इष्टका : पुरीषवती मध्य उपदधाति पुरीषं वै मध्यमात्मनः सात्मानमेवाग्निं चिनुते सात्माऽमुष्मिंल्लोके भवति - तै.सं. ५.३.५.२

*यत्सयुज उपदधात्यात्मनेनैवैनं सयुजं चिनुते - तै.सं. ५.३.९.१

*प्रजापतिरग्निमचिनुत स यशसा व्यार्ध्यत स एता यशोदा अपश्यत्ता उपाधत्त ताभिर्वै स यश आत्मन्नधत्त - तै.सं. ५.३.१०.४

*भूयस्कृदादीष्टका : (इमा, प्राची, ऊर्ध्वा, अन्तरिक्ष की जय)। ततो देवा अभवन् पराऽसुरा - - - - भूयानेव भवत्यभीमांल्लोकान्जयति भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ५.३.११.२

*स एता इन्द्रस्तनूरपश्यत्ता उपाधत्त ताभिर्वै स तनुवमिन्द्रियं वीर्यमात्मन्नधत्त ततो देवा अभवन्पराऽसुरा - तै.सं. ५.४.१.१

*व्याघारणाद्यभिधानम् : प्राणदा अपानदा इत्याह प्राणानेव आत्मन्धत्ते वर्चोदा वरिवोदा इत्याह प्रजा वै वर्चः पशवो वरिवः प्रजामेव पशूनात्मन्धत्त - तै.सं. ५.४.५.३

*असौ वा आदित्य उद्यन्नुदग्राभ एव निम्रोचन्निग्राभो ब्रह्मणैवाऽऽत्मानमुद्गृह्णाति ब्रह्मणा भ्रातृव्यं नि गृह्णाति - तै.सं. ५.४.६६.६

*सुम्नहूर्यज्ञो देवां आ च वक्षदित्याह प्रजा वै पशवः सुम्नं प्रजामेव पशूनात्मन्धत्ते - तै.सं. ५.४.६.६

*सप्त मा पुरुषा उपजीवानिति वा अग्निश्चीयते त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनममुष्मिंल्लोक उप जीवन्ति - तै.सं. ५.५.२.३

*अनुष्टुभाऽनु चरत्यात्मा वै लोकंपृणा प्राणोऽनुष्टुप्तस्मात्प्राणः सर्वाण्यङ्गान्यनु चरति - तै.सं. ५.५.६.२

*अग्निं चित्वा तिसृधन्वमयाचितं ब्राह्मणाय दद्यात् ताभ्य एव नमस्करोति अथो ताभ्य एवाऽऽत्मानं निष्क्रीणीते - - तै.सं. ५.५.७.२

*उपस्थानम् (विभिन्न दिशाओं में इष्टका) : यो वा अपात्मानं अग्निं चिनुतेऽपात्माऽमुष्मिंल्लोके भवति यः सात्मानं चिनुते सात्माऽमुष्मिंल्लोके भवति आत्मेष्टका उपदधात्येष वा अग्नेरात्मा सात्मानमेवाग्निं चिनुते - तै.सं. ५.५.८.३

*कुम्भेष्टका : आपो वा अग्नेर्भ्रातृव्या यदपोऽग्नेरधस्तादुपदधाति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ५.६.२.१

*आहुतिः :- वाङ्म आसन्नसोः प्राण इत्याह प्राणानेवाऽऽत्मन्धत्ते - तै.सं. ५.६.३.४

*प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वा ऽतिष्ठत्तं देवा बिभ्यतो नोपाऽऽयन्ते छन्दोभिरात्मानं छादयित्वोपाऽऽयन्तच्छन्दसां छन्दस्त्वं - - - - कार्ष्णी उपानहावुपमुञ्चते छन्दोभिरेवात्मानं छादयित्वाऽग्निमुप चरत्यात्मनोऽहिंसायै - तै.सं. ५.६.६.१

*नैर्ऋत्युखा यदाक्रामेन्निर्ऋत्या आत्मानमपिदध्यात् - - - - पुरुषशीर्षमुपदधाति गुप्त्या - तै.सं. ५.६.६.२

*इन्द्रो दधीचो अस्थभिरिति यदिष्टकाभिरग्निं चिनोति सात्मानमेवाग्निं चिनुते सात्माऽमुष्मिंल्लोके भवति य एवं वेद शरीरं वा एतदग्नेर्यच्चित्य आत्मा वैश्वानरो यच्चिते वैश्वानरं जुहोति शरीरमेव संस्कृत्य अभ्यारोहति - - - तै.सं. ५.६.६.३

*यच्चिते वैश्वानरं जुहोति शरीरमेव संस्कृत्याऽऽत्मनाऽभ्यारोहति - तै.सं. ५.६.६.४

*कनीयांसं यज्ञक्रतुमुपेयात्पापीयस्यस्याऽऽत्मन प्रजा स्याद्वेदि संमितां मिनोति ज्यायांसमेव यज्ञक्रतुमुपैति नास्याऽऽत्मनः पापीयसी प्रजा भवति - तै.सं. ५.६.८.२

*आसन्द्यादि : यच्छिक्यादुखां निरूहेद्योनेर्गर्भं निर्हण्यात् षडुद्यामं शिक्यं भवति षोढाविहितो वै पुरुष आत्मा च शिरश्च चत्वार्यङ्गान्यात्मन एवैनं बिभर्ति - तै.सं. ५.६.९.२

*यत्त्रिचितीकं चिन्वीत यज्ञं दक्षिणामात्मानं प्रजामन्तरियात् तस्मात् पञ्चचितीकश्चेतव्यः पाङ्क्तः पुरुष आत्मानमेव स्पृणोति - तै.सं. ५.६.१०.२

*तेजो वै हिरण्यं तेज एवाऽऽत्मन्धत्ते - तै.सं. ५.७.५.२

*हिनस्ति खलु वै तं पशुर्य एनं पुरस्तात् प्रत्यञ्चमुपचरति तस्मात् पश्चात् प्राङुपचर्य आत्मनोऽहिंसायै - तै.सं. ५.७.६.१

*द्वेधा वा अग्निं चिक्यानस्य यश इन्द्रियं गच्छति अग्निं वा चितमीजानं वा ये ता आहुतीर्जुहोत्यात्मन्नेव यश इन्द्रियं धत्त - तै.सं. ५.७.६.४

*व्रतचरणम् : वरुण्यर्चा जुहुयात् शान्तिरेवैषाऽग्नेर्गुपति आत्मनो - - - - मैत्रावरुणतामेवोपैत्यात्मनोऽस्कन्दाय - तै.सं. ५.७.६.५

*किं वा ऽहैतस्य क्रियते किं वा न यत्र अध्वर्युरग्नेश्चिन्वन्नन्तरेत्यात्मनो वै तदन्तरेति यास्ते अग्ने समिधो यानि धामेत्याह एषा वा अग्नेः स्वयं - तै.सं. ५.७.८.१

*चितिरग्निरेव तदग्निं चिनोति नाध्वर्युरात्मनोऽन्तरेति - तै.सं. ५.७.८.१

*ये ते अग्ने मेडयो य इन्दवस्तेभिरात्मानं चिनुहि प्रजानन् - तै.सं. ५.७.८.१

*एषा वा अग्नेः स्वयंचितिरग्निरेव तदग्निं चिनोति नाध्वर्युरात्मनोऽन्तरेति - तै.सं. ५.७.८.२

*अग्निग्रहणम् : यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्यां आ विवेश। तमात्मन्परि गृह्णीमहे वयं मा सो अस्मां अवहाय परा गात् - तै.सं. ५.७.९.१

*यदध्वर्युरात्मन्नग्निमगृहीत्वाऽग्निं चिनुयाद्योऽस्य स्वोऽग्निस्तमपि यजमानाय चिनुयात् - - - - - मयि गृह्णाम्यग्रे अग्निमित्याहाऽऽत्मन्नेव स्वमग्निं दाधार - तै.सं. ५.७.९.१-२

*तेजो वै हिरण्यं तेज एवाऽऽत्मन्धत्ते - तै.सं. ५.७.९.४

*द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मा ऽन्तरिक्षं समुद्रो योनिः - - - - तै.सं. ५.७.२५.१

*क्षुरकर्मादिसंस्कृतस्य प्राग्वंश प्रवेशः :- एकविंशत्या पवयति दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविंशो - तै.सं. ६.१.१.८

*प्रायणीयाभिधानम् : आत्मा वै प्रयाजाः प्रजाऽनूयाजा - तै.सं. ६.१.५.३

*प्रयाजवदनूयाजवत्प्रायणीयं कार्यं प्रयाजवदनूयाजवदुदयनीयं नाऽऽत्मानमन्तरेति न प्रजां न यज्ञः परा भवति - तै.सं. ६.१.५.५

*कद्रू च वै सुपर्णी चाऽस्पर्धेतां - - - - दिवि सोमस्तमा हर तेनाऽऽत्मानं निष्क्रीणीष्व - तै.सं. ६.१.६.१

*अरुणया सोमक्रयप्रकाराभिधानम् : वाचैव विक्रीय पुनरात्मन्वाचं धत्तेऽनपदासु वा ऽस्य वाग्भवति - तै.सं. ६.१.७.८

*पद संग्रहणम् : अस्मे राय इति संवपत्यात्मानमेवाध्वर्युः पशुभ्यो नान्तरेति - - - - तोते राय इति पत्निया अर्धो वा एष आत्मनो यत्पत्नी - तै.सं. ६.१.८.५

*अन्यैः सोमक्रयाभिधानम् : तपसस्तनूरसि प्रजापतेर्वर्ण इत्याह पशुभ्य एव तदध्वर्युर्नि ह्नुत आत्मनोऽनाव्रस्काय - तै.सं. ६.१.१०.३

*येन हिरण्येन सोमं क्रीणीयात् तदभीषहा पुनरा ददीत तेज एवाऽऽत्मन्धत्ते - तै.सं. ६.१.१०.४

*क्रीतसोमस्य शकटेन नयनम् : परा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितो यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य स - तै.सं. ६.१.११.६

*यत्तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ६.२.२.२

*शक्मन्नोजिष्ठायेति आहोजिष्ठं हि ते तदात्मनः समवाद्यन्त - तै.सं. ६.२.२.३

*तानूनप्त्रेष्टिः :- शक्मन्नोजिष्ठायेत्याह ओजिष्ठं हि ते तदात्मनः समवाद्यन्त - तै.सं. ६.२.२.३

*अग्निमेव वरूथं कृत्वाऽसुरानभ्यभवन्नग्निमिव खलु वा एष प्र विशति यो ऽवान्तरदीक्षामुपैति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति आत्मानमेव दीक्षया पाति - तै.सं. ६.२.२.७

*तानूनप्त्र : आत्मानमेव दीक्षया पाति प्रजामवान्तरदीक्षया संतरां मेखलां समायच्छते प्रजा ह्यात्मनोऽन्तरतरा - तै.सं. ६.२.२.७

*गर्भ इव खलु वा एष यद्दीक्षितो यदस्य पयोव्रतं भवत्यात्मानमेव तद्वर्धयति पयो ब्राह्मणस्य तेजो वै ब्राह्मणस्तेजः पयस्तेजसैव तेजः पय आत्मन्धत्ते - तै.सं. ६.२.५.३

*मध्यत एव तदूर्जं धत्ते भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ६.२.५.४

*न प्रवस्तव्यमात्मनो गोपीथाय - - - - न प्रवस्तव्यम् आत्मनो गुप्त्यै - तै.सं. ६.२.५.५

*ते (देवाः) सोमेन राज्ञा रक्षांस्यपहत्याप्तमात्मानं कृत्वा सुवर्गं लोकमायन् - तै.सं. ६.३.२.१

*अग्ने व्रतपते आत्मनः पूर्वा तनूरादेयेत्याहुः - - - - तै.सं. ६.३.२.६

*गर्भ इव खलु वै एष यद्दीक्षितो यदस्य पयो व्रतं भवत्यात्मानमेव तद्वर्धयति - तै.सं. ६.३.५.३

*शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशु आघारमाघार्य पशुं समनक्ति आत्मन्नेव यज्ञाय शिरः प्रति दधाति - तै.सं. ६.३.७.३

*शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशुराघारमाघार्य पशुं समनक्ति आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति - तै.सं. ६.३.७.४

*एकादश प्रयाजान्यजति। दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तं प्र यजति वपामेकः परिशय आत्मैवाऽऽत्मानं परिशये - तै.सं. ६.३.७.५

*पराङा वर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्पशुभ्य एव तन्निह्नुत आत्मनोऽनाव्रस्काय - तै.सं. ६.३.८.३

*प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यमात्मा वपा पृषदाज्यमभिघार्य वपामभिघारयति आत्मन्नेव पशूनां प्राणापानौ दधाति - तै.सं. ६.३.९.६

*प्राणापानौ वा एतौ पशूनाम् यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माऽभि समेति यत्पृषदाज्येन हृदयमभिघारयति आत्मन्नेव पशूनां प्राणापानौ दधाति - तै.सं. ६.३.१०.२

*अवदानम् : यत्त्र्यङ्गाणां समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ६.३.१०.६

*पश्चात् सृष्टं ह्येकादशानुयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो। घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत्पृषदाज्यं यत्पृषदाज्येनानुयाजान्यजति प्राणापानावेव पशुषु दधाति - तै.सं. ६.३.११.६

*आश्विन् ग्रहः : पवित्रं वै बहिष्ष्पवमान आत्मानमेव पवयते - तै.सं. ६.४.९.२

*शुक्रामन्थि ग्रहः :- द्विदेवत्यान्भक्षयित्वेडामुप ह्वयते प्राणानेवाऽऽत्मन्धित्वा पशूनुपह्वयते - तै.सं. ६.४.९.४

*शुक्रामन्थी ग्रहः :- यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्यात्मना परा अस्य भ्रातृव्यो भवति तौ देवा अनुद्याऽऽत्मन इन्द्रायाजुहुरपनुत्तौ शण्डामर्कौ सहामुनेति - तै.सं. ६.४.१०.१

*आग्रयणग्रहः :- आत्मा वा एष यज्ञस्य यदाग्रयणः सवनेसवनेऽभिगृह्णात्यात्मन्नेव यज्ञं संतनोति - तै.सं. ६.४.११.४

*उक्थ्य ग्रहः :- यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्यन्तराऽऽहवनीयं च हविर्धानं च तिष्ठन्नव नयेत् आत्मानमेव यज्ञयशसेनार्पयति - तै.सं. ६.५.१.४

*तस्मादुक्थ्यं हुतं सोमा अन्वायन्ति तस्मादात्मा चक्षुरन्वेति - तै.सं. ६.५.१.४

*ध्रुव ग्रहः :- आयुर्वा एतद्यज्ञस्य यद्ध्रुव आत्मा होता यद्धोतृचमसे ध्रुवमवनयत्यात्मन्नेव यज्ञस्य आयुर्दधाति - तै.सं. ६.५.२.२

*मरुत्वतीय माहेन्द्र ग्रहः :- स (इन्द्रो वृत्रं हत्वा) हरितोऽभवत्स एतान् मरुत्वतीयान् आत्मस्परणानपश्यत् तानगृह्णीत प्राणमेव प्रथमेनास्पृणतापानं द्वितीयेनाऽवत्मानं तृतीयेनाऽऽत्मस्परणा वा एते यजमानस्य गृह्यन्ते यन्मरुत्वतीयाः - तै.सं. ६.५.५.३

*आत्मा वै एष यज्ञस्य यदाग्रयणो यद् ग्रहो वा कलशो वोपदस्येत् आग्रयणाद् गृह्णीयादात्मन एवाधि यज्ञं निष्करोति - तै.सं. ६.५.१०.२

*सोमपात्रस्तुतिः :- इन्द्रस्त्वष्टुः सोममभीषहाऽपिबत्स विष्वङ् व्यार्च्छत्स आत्मन्नारमणं नाविन्दत्स एताननुसवनं पुरोडाशानपश्यत्तान्निरवपत्तैर्वै स आत्मन्नारमणमकुरुत - तै.सं. ६.५.११.४

*दक्षिणा होमः :- होत्रे ददाति आत्मा वा एष यज्ञस्य यद्धोताऽऽत्मानमेव यज्ञस्य दक्षिणाभिः समर्धयति - तै.सं. ६.६.१.५

*तेजोऽसि तेजो मयि धेहीत्याह तेज एवात्मन्धत्ते - तै.सं. ६.६.३.५

*पश्वेकादशिनी : स (प्रजापतिः) एतामेकादशिनीमपश्यत्तया वै स आयुरिन्द्रियं वीर्यमात्मन्नधत्त प्रजा इव खलु वा एष सृजते यो यजते स एतर्हि रिरिचान इव यदेषैकादशिनी भवत्यायुरेव तयेन्द्रियं वीर्यं यजमान आत्मन्धत्ते - तै.सं. ६.६.६.१

*सौम्य चरु : पवित्रं वै सौम्य आत्मानमेव पवयन्ते य आत्मानं न परिपश्येदितासुः स्याद् अभिददिं कृत्वाऽवेक्षेत तस्मिन्ह्यात्मानं परिपश्यति अथो आत्मानमेव पवयते - तै.सं. ६.६.७.२

*यन्मे मनः परागतं यत्र मे अपरागतम्। राज्ञा सोमेन तद्वयमस्मासु धारयामसीति मन एवाऽऽत्मन्दाधार - तै.सं. ६.६.७.२

*अतिग्राह्य ग्रहः :- यदतिग्राह्या गृह्यन्ते इन्द्रियमेव तद्वीर्यं यजमान आत्मन्धत्ते तेज आग्नेयेनेन्द्रियम् ऐन्द्रेण ब्रह्मवर्चसं सौर्येण - तै.सं. ६.६.८.१

*अदाभ्य ग्रहः :- यस्यैवं विदुषोऽदाभ्यो गृह्यते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति - तै.सं. ६.६.९.१

*षोडशी ग्रहः :- स (प्रजापतिः) यज्ञानां षोडशधेन्द्रियं वीर्यमात्मानमभि समक्खिदत् तत् षोडश्यभवत्~ - - - - - -यत् षोडशी गृह्यत इन्द्रियमेव तद्वीर्यं यजमान आत्मन्धत्ते - तै.सं. ६.६.११.१

*त्रैष्टुभमुत्तर ओजो वै वीर्यं त्रिष्टुगोज एव वीर्यमात्मन्धत्ते - तै.सं. ७.१.४.२

*षड्रात्रकथनम् : एकविंशो भवति प्रतिष्ठित्या अथो रुचमेवाऽऽत्मन्दधते - तै.सं. ६.२.१.३

*सप्तरात्रः :- एकविंशो भवति प्रतिष्ठित्या अथो रुचमेवाऽऽत्मन्धत्ते - तै.सं. ७.२.२.३, ७.२.३.२, ७.२.५.६

*पञ्चदशरात्रेणौजो बलमिन्द्रियं वीर्यमात्मन्नधत्त - तै.सं. ७.३.७.२

*- - - सैतां विराजमपश्यत्तामात्मन्धित्वान्नाद्यमवारुन्ध - तै.सं. ७.४.३.२

*एकविंशो भवति प्रतिष्ठित्या अथो रुचमेवाऽऽत्मन्दधते - तै.सं. ७.४.३.३

*तेजो वै त्रिवृत् तेज एवाऽऽत्मन्दधते - तै.सं. ७.४.३.३

*एकोनपञ्चाशद्रात्रकथनम् : एकविंशा भवन्ति प्रतिष्ठित्या अथो रुचमेवाऽऽत्मन् दधते - तै.सं. ७.४.७.२

*दिग्भ्य एवान्नाद्यम् संभृत्य तेज आत्मन्दधते - तै.सं. ७.५.८.५

*शततन्तुवीणा : - - - -उत्क्रोदं कुर्वत इषमूर्जमात्मन्दधाना - तै.सं. ७.५.९.२

*- - - उरो वै त्रयस्त्रिंशा आत्मा पृष्ठान्यात्मन एव तद्यजमानाः शर्म नह्यन्ते - तै.सं. ७.४.२.४

*ये अन्तरेऽष्टावुक्थ्याः स आत्मा - तै.सं. ७.२.९.२

*संवत्सर आत्मा - तै.सं. ७.५.२५.१

*श्रियमेव यश आत्मन् धत्ते य एवं विद्वान् (स्विष्टकृतः संयाज्ये) बृहत्यौ कुरुते - ऐतरेय ब्राह्मण १.५

*प्रवर्ग्ये होतुरभिष्टवार्थं ऋक्षु : ता एकविंशतिर्भवन्ति। एकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या  आत्मैकविंशस्तमिमात्मानमेकविंशं संस्कुरुते - ऐ.ब्रा. १.१९

*अग्निर्वै देवानां गोपा अग्निमेव तत्सर्वतो गोप्तारं परिदत्त आत्मने च यजमानाय च - - - ऐ.ब्रा. १.२८

*विश्वं रूपमवरुन्ध आत्मने च यजमानाय च यत्रैवं विद्वानेतां रराट्यामीक्षणाणोऽन्वाह - ऐ.ब्रा. १.२९

*- - - -तत्प्रतिष्ठापयत्यात्मनश्च यजमानस्य चाहिंसायै - ऐ.ब्रा. १.३०

*सर्वाभ्य वा एष देवताभ्य आत्मानमालभते यो दीक्षते ऽग्निः सर्वा देवताः सोमः सर्वा देवताः स यदग्नीषोमीयं पशुमालभते सर्वाभ्य एव तद्देवताभ्यो यजमान आत्मानं निष्क्रीणीते - ऐ.ब्रा. २.३

*नाऽऽत्मना दृप्यति नास्य प्रजायां दृप्त आजायते य एवं वेद - ऐ.ब्रा. २.७

*पुरोडाश स्विष्टकृद् याज्या : हविरेवास्मा एतत्स्वदयती इषमूर्जमात्मन्धत्ते - ऐ.ब्रा. २.९

*भवत्यात्मना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद - ऐ.ब्रा. २.१५, २.१६

*प्रातरनुवाक् के पश्चात् : आत्मा वा उपांशुसवन(व्यान उपांशुसवन), आत्मन्येव तद्धोता प्राणान् प्रतिधाय वाचं विसृजते सर्वायुः सर्वत्वाय - ऐ.ब्रा. २.२१

*बहिष्पवमान हेतु प्रसर्पण पर होता द्वारा अभिमन्त्रण : को देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्या३म्। तस्यापि भक्षयामसीति। एवमु हास्याऽऽत्मा सोमपीथादनन्तरितो भवति - ऐ.ब्रा. २.२२

*ते वा एते प्राणा एव यद्द्विदेवत्याः। वाक् च प्राणश्चैन्द्रवायवश्चक्षुश्च मनश्च मैत्रावरुणः श्रोत्रं चाऽऽत्मा चाऽऽश्विनः। - ऐ.ब्रा. २.२६

*उपहूतं श्रोत्रं सहात्मनो मां श्रोत्रं सहाऽऽत्मना ह्वयताम् - ऐ.ब्रा. २.२७

*प्राणा वै द्विदेवत्या, आत्मा होतृचमसो, द्विदेवत्यानां संस्रवान् होतृचमसे समवनयति आत्मन्येव तद्धोता प्राणान् समवनयते - ऐ.ब्रा. २.३०

*तूष्णींशंसं वज्रं :- भवत्यात्मना पराऽस्य द्विषन् भ्रातृव्यो भवति - ऐ.ब्रा. २.३१

*अग्निः सुषमिदिति शंसति वार्युर्वा अग्निः सुषमिद् वायुर्हि स्वयमात्मानं समिन्धे - ऐ.ब्रा. २.३४

*षट्पदं तूष्णींशंसं शंसति, षड्विधो वै पुरुषः षडङ्ग आत्मानमेव तत्षड्विधं षळङ्गं विकरोति - ऐ.ब्रा. २.३९

*आज्य शस्त्र समाप्ति हेतु ऋचा : नू नो रास्व सहस्रवांस्तोकवान् पुष्टिमानात्मानमेव तत्समस्तं संभावयत्यात्मानं समस्तं संस्कुरुते - ऐ.ब्रा. २.४०

*यमु कामयेत सर्वैरेनमङ्गै सर्वेणाऽऽत्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुक्लृप्तं शंसेत्, सर्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति - ऐ.ब्रा. ३.३

*रिण्क्यात्मानं रिणक्ति यजमानं पापीयान् वषट्कर्ता भवति, पापीयान् यस्मै वषट्करोति तस्मात् तस्याऽऽशां नेयात् - ऐ.ब्रा. ३.७

*वाक् च वै प्राणापानौ च वषट्कारस्त एते वषट्कृते वषट्कृते व्युत्क्रामन्ति, ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापानावित्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति सर्वायुत्वाय - ऐ.ब्रा. ३.८

*सा (पिन्वन्त्यपः इति) वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते - - - - सो जगती, जागता हि पशवः, आत्मा यजमानस्य मध्यंदिनस्तद् यजमाने पशून् दधाति - ऐ.ब्रा. ३.१८

*आत्मा वै स्तोत्रियः, प्रजाऽनुरूपः, पत्नी धाय्या, पशवः प्रगाथो, गृहाः सूक्तम् - ऐ.ब्रा. ३.२३

*निष्केवल्य शस्त्रः : स्तोत्रियं शंसति, आत्मा वै स्तोत्रियः। तं मध्यमया वाचा शंसति, आत्मानमेव तत्संस्कुरुते। अनुरूपं शंसति, प्रजा वा अनुरूपः। स उच्चैस्तरामिवानुरूपः शंस्तव्यः। प्रजामेव तच्छ्रेयसीमात्मनः कुरुते - ऐ.ब्रा. ३.२४

*अग्नि का त्रिश्रेणि, त्र्यनीक होना, देवों की विजय :- भवत्यात्मना, पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति - ऐ.ब्रा. ३.३९

*तं(सूर्यं) यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाथात्मानं विपर्यस्यते - रात्रीमेवावस्तात् कुरुते ऽहः परस्तात्। अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रेरेव तदन्तमिवात्वाथात्मानं विपर्यस्यतेऽहरेवावस्तात् कुरुते रात्रिं परस्तात् - ऐ.ब्रा. ३.४४

*तत् (वामदेव्यं साम, कया नश्चित्र इति) त्रिभिरक्षरैर्न्यूनं, तस्य स्तोत्र उपसृप्य त्रेधात्मानं विगृह्णीयात् पुरुष इति। स एतेषु लोकेष्वात्मानं दधात्यस्मिन् यजमानलोके ऽस्मिन् अमृतलोके अस्मिन् स्वर्गे लोके सर्वां दुरिष्टिमत्येति - ऐ.ब्रा. ३.४६

*यदेवा एषिष्यमाणस्य संनिर्वपेद् ईश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति - ऐ.ब्रा. ३.४८

*षोडशी शस्त्र : तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेऽत एव वाचाऽभिषिद्ध उपावर्त्तते - ऐ.ब्रा. ४.१

*अति शंसति स्तोत्रमति वै प्रजात्मानमति पशवस्तद् यत् स्तोत्रमति शंसति यदेवास्यात्यात्मानं तदेवास्यैतेनावरुन्धेऽवरुन्धे - ऐ.ब्रा. ४.६

*नमो मित्रस्य वरुणस्य चक्षसे इति जागतं तद्वाशीः पदमाशिषमेवैतेनाशास्त आत्मने च यजमानाय च - ऐ.ब्रा. ४.९

*सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् इत्याशिषमेवैतेनाशास्त आत्मने च यजमानेभ्यश्च - ऐ.ब्रा. ४.२०

*इन्द्रो वै वृत्रं हत्वा विश्वकर्माऽभवत्~, प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माऽभवत्~, - - - - संवत्सरो विश्वकर्मेन्द्रमेव तदात्मानं प्रजापतिं संवत्सरं विश्वकर्माणमाप्नुवन्तीन्द्र एव तदात्मनि प्रजापतौ संवत्सरे विश्वकर्मण्यन्ततः प्रतितिष्ठन्ति - ऐ.ब्रा. ४.२२

*स(प्रजापतिः) तपस्तप्त्वेमं द्वादशाहमपश्यदात्मन एवाङ्गेषु च प्राणेषु च, तमात्मान एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत, तमाहरत, तेनायजत, ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत - ऐ.ब्रा. ४.२३

*द्वादशाहस्य गायत्री पक्षिणी ज्योतिष्मती स्वरूपम् : तस्य यावभितोऽतिरात्रौ तौ पक्षो यावन्तराग्निष्टोमौ ते चक्षुषी, येऽष्टौ मध्य उक्थ्याः स आत्मा - ऐ.ब्रा. ४.२३

*पञ्चम अह, महानाम्नी साम : इन्द्रो वा एताभिर्महानात्मानं निरमिमीत, तस्मान्महानाम्न्योऽथो वै लोका महानाम्न्य इमे महान्तः - ऐ.ब्रा. ५.७

*यदि नाभानेदिष्ठं, रेतोऽस्यान्तरियात्, यदि वालखिल्याः, प्राणानस्यान्तरियात्, यदि वृषाकपिमात्मानमस्यान्तरियात्, यद्येवयामरुतं, प्रतिष्ठाया एनं च्यावयेद्दैव्यै च मानुष्यै च - ऐ.ब्रा. ५.१५

*दशम अह में आग्नीध्र पर आहुति : रायस्पोषमिषमूर्जमवरुन्ध आत्मने च यजमानेभ्यश्च यत्रैवं विद्वानेतामाहुतिं जुहोति - ऐ.ब्रा. ५.२२

*एतानि ह वै वेदानामन्तः श्लेषणानि यदेता व्याहृतयः तद् यथाऽऽत्मनाऽऽत्मानं संदध्याद् यथा पर्वणा पर्व, यथा श्लेष्मणा चर्मण्यं वाऽन्यद्वा विश्लिष्टं संश्लेषयेदेवमेवैताभिर्यज्ञस्य विश्लिष्टिं संदधाति - ऐ.ब्रा. ५.३२

*ते वै पुरस्तादपहता असुराः पश्चात् परीत्य प्राविशंस्ते देवाः प्रतिबुध्य विश्वान् देवानात्मानं पश्चात् तृतीयसवने पर्यौहंस्ते विश्वैरेव देवैरात्मभिः पश्चात् तृतीयसवन ऽसुररक्षांस्यपाघ्नत - ऐ.ब्रा. ६.४

*यज्ञ में सब दिशाओं से असुरों को निकालने के पश्चात् : भवत्यात्मना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति - ऐ.ब्रा. ६.४

*ते वै पुरस्तादपहता असुराः पश्चात् परीत्य प्राविशंस्ते देवाः प्रतिबुध्य विश्वान् देवानात्मानं पश्चात् तृतीयसवने पर्यौहंस्ते विश्वैरेव देवैरात्मभिः पश्चात् तृतीयसवनऽसुररक्षांसि अपाघ्नत - ऐ.ब्रा. ६.४

*अथ समान्य एव तृतीयसवने होत्रकाणां परिधानीया भवन्त्यात्मा वै होताऽङ्गानि होत्रकाः समाना वा इमेऽङ्गानामन्तास्तस्मात् समान्य एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति - ऐ.ब्रा. ६.८

*यदेव दशर्चाम्, दश वै प्राणाः, प्राणानेव तदाप्नुवन्ति, प्राणानात्मन् दधते - ऐ.ब्रा. ६.२०

*स यत्प्रथमं षड् वालखिल्यानां सूक्तानि विहरति, प्राणं च तद्वाचं च विहरति, यद्द्वितीयं, चक्षुश्च तन्मनश्च विहरति, यत्तृतीयं, श्रोत्रं च तदात्मानं च विहरति - ऐ.ब्रा. ६.२४

*आत्मा वै स्तोत्रियः, प्राणा वालखिल्याः, स यत्संशंसेदेताभ्यां देवताभ्यां यजमानस्य प्राणान्वीयात् - ऐ.ब्रा. ६.२६

*आत्मसंस्कृतिर्वाव शिल्पानि च्छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते - ऐ.ब्रा. ६.२७

*स यत्प्रथमे सूक्ते विहरति, प्राणं च तद्वाचं च विहरति, यद्द्वितीये चक्षुश्च तन्मनश्च विहरति, यत्तृतीये श्रोत्रं च तदात्मानं च विहरति - ऐ.ब्रा. ६.२८

*आत्मा वै बृहती, प्राणाः सतोबृहती, स बृहतीमशंसीत्, स आत्माऽथ सतोबृहती, ते प्राणा अथ बृहतीमथ सतोबृहतीं तदात्मानं प्राणैः परिवृहन्नेति, तस्मादतिमर्शमिव विहरेत् - ऐ.ब्रा. ६.२८

*यद्वेवातिमर्शा३म् आत्मा वै बृहती, पशवः सतोबृहती, स बृहतीमशंसीत्, स आत्माऽथ सतोबृहतीं ते पशवो - - - ऐ.ब्रा. ६.२८

* वृषाकपिं शंसत्यात्मा वै वृषाकपिरात्मानमेवास्य तत्कल्पयति - ऐ.ब्रा. ६.२९

*अथ वृषाकपिं शंसति, स आत्मा, रेतो वा अग्रेऽथाऽऽत्मा - ऐ.ब्रा. ६.३०

*संवत्सर सत्र में विश्वजित् अतिरात्र में शिल्पों का प्रश्न : नाभानेदिष्ठ का अभाव है। मैत्रावरुणो वालखिल्याः शंसति, ते प्राणाः, रेतो वा अग्रेऽथ प्राणाः, एवं ब्राह्मणाच्छंस्यशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति, स आत्मा, रेतो वा अग्रेऽथाऽऽत्मा, कथमत्र यजमानस्य प्रजातिः, कथं प्राणा अविक्लृप्ता भवन्तीति - ऐ.ब्रा. ६.३१

*अथ योऽसौ तपती३ एषोऽश्वः श्वेतो रूपं कृत्वाऽश्वाभिधान्यपिहितेनाऽऽत्मना प्रतिचक्रम - - - ऐ.ब्रा. ६.३५

*तदाहुर्यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वा श्वा वा प्रतिपद्येत का तत्र प्रायश्चित्तिरिति ? नैनन्मनसि कुर्यादित्याहुरात्मन्यस्य हि ता भवन्तीति - - - ऐ.ब्रा. ७.१२

*इष्टि के आरम्भ में अन्वाहार्यपचन अग्नि के आहरण का प्रश्न : आहारयेदित्याहुः। प्राणान् वा एषोऽभ्यात्मन् धत्ते योऽग्नीनाधत्ते तेषामेषोऽऽन्नादतमो भवति - ऐ.ब्रा. ७.१२

*नारद - हरिश्चन्द्र संवादः :- शश्वत् पुत्रेण पितरोऽत्यायन् बहुलं तमः। आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी - ऐ.ब्रा. ७.१३

*द्वितीय संवत्सर के अन्त में इन्द्र का उपदेश : पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलग्रहिः। शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हत चरैवेति - ऐ.ब्रा. ७.१५

*दीक्षणीय इष्टि में क्षत्रिय द्वारा यजमान भाग का प्राशन : यत्प्राश्नीयादहुताद्धुतं प्राश्य पापीयान् स्याद्, यन्न प्राश्नीयात् यज्ञादात्मानमन्तरियात्, यज्ञो वै यजमान भागः - - - -, पुरोहितायतनं वा एतत्क्षत्रियस्य यद् ब्रह्माऽर्धात्मो ह वा एष क्षत्रियस्य, यत्पुरोहित उपाह परोक्षेणैव प्राशितरूपमाप्नोति, नास्य प्रत्यक्षं भक्षितो भवति - ऐ.ब्रा. ७.२६

*तद्यत्क्षत्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्यात्मन्येव तत्क्षत्रं वनस्पतीनां प्रतिष्ठापयति, क्षत्त्र आत्मानम्, क्षत्रे ह वै स आत्मनि क्षत्रं वनस्पतीनां प्रतिष्ठापयति - ऐ.ब्रा. ७.३१

*शं न एधि हृदे पीतः, प्र ण आयुर्जीवसे सोम तारीरित्यात्मनः प्रत्यभिमर्शः - ऐ.ब्रा. ७.३३

*ईश्वरो ह वा एषोऽप्रत्यभिमृष्टो मनुष्यस्याऽऽयुः प्रत्यवहर्तोरनर्हन् मा भक्षयतीति, तद्यदेतेनाऽऽत्मानमभिमृशत्यायुरेव तत्प्रतिरते - ऐ.ब्रा. ७.३३

*समान आत्मनः प्रत्यभिमर्शः, समानमाप्यायनं चमसस्य - ऐ.ब्रा. ७.३४

*निष्केवल्य शस्त्र : त्वामिद्धि हवामह इति बृहत्पृष्ठं भवति - - - - क्षत्त्रं वै बृहदात्मा यजमानस्य निष्केवल्यं - ऐ.ब्रा. ८.२

*औदुम्बरी आसन्दी से प्रत्यवरोहण के पश्चात् : प्रतितिष्ठामि द्यावापृथिव्योः, प्रतितिष्ठामि प्राणापानयोः, प्रतितिष्ठामि अहोरात्रयोः, प्रतितिष्ठामि अन्नपानयोः, प्रति ब्रह्मन्, प्रतिक्षत्रेः प्रत्येषु त्रिषु लोकेषु तिष्ठामि, अन्ततः सर्वेणाऽऽत्मना प्रतितिष्ठति - ऐ.ब्रा. ८.९

*आहवनीये समित् : समिदसि सम्वेङ्क्ष्वेन्द्रियेण वीर्येण स्वाहेति। इन्द्रियेणैव तद्वीर्येणाऽऽत्मानमन्ततः समर्धयति - ऐ.ब्रा. ८.९

*अर्द्धो ह वा एष आत्मनो यज्ञस्य यदाज्यम्। अर्द्धो यदिह हविर्भवति। - - - - एवमु हैष आत्मा यज्ञस्य  सन्धीयते - शतपथ ब्राह्मण १.२.२.५

*तेन संशितेन (स्फ्येन) नात्मानमुपस्पृशति, न पृथिवीम्, नेदनेन वज्रेण संशितेनात्मानं वा पृथिवीं वा हिनसानीति - मा.श. १.२.४.७

*तस्येयमेव जुहूः, इयमुपभृत्, आत्मैव ध्रुवा। तद्वा आत्मन एवेमानि सर्वाण्यङ्गानि प्रभवन्ति। - मा.श. १.३.२.२

*सोऽभिमृशति - ध्रुवा असदन्, ऋतस्य योनौ, ता विष्णो पाहि, पाहि यज्ञं, पाहि यज्ञपतिम्, पाहि माँ यज्ञन्यम् इति। तदप्यात्मानं यज्ञान्नान्तरेति - मा.श. १.३.४.१६

*तदु हैकेऽन्वाहुः - होता यो विश्ववेदसः इति। नेद् अरमित्यात्मानं ब्रवाणीति। तदु तथा न ब्रूयात्। - - - - तस्माद्यथैवर्चाऽनूक्तमेवमेवानुब्रूयात् - होतारं विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् इति। - - - - - भवति ह वा आत्मना, परा अस्य सपत्ना भवन्ति - यस्यैवं विदुष एतामन्वाहुः - मा.श. १.४.१.३५

*एकादश सामिधेनीः :- समिद्धो अग्नि आहुत इति। य एवायमवाङ् प्राणः, एतमेवैतया समिन्धे। आजुहोता दुवस्यत इति। सर्वामात्मानं समिन्धे - आ नखेभ्योऽथो लोमभ्यः। स यद्येनं प्रथमायां सामिधेन्यामनुव्याहरेत्, तं प्रति ब्रूयात् - प्राणं वा एतदात्मनोऽग्नावाधाः, प्राणेनात्मन आर्त्तिमारिष्यसि इति। तथा हैव स्यात्। यदि द्वितीयस्यामनुव्याहरेत्, तं प्रति ब्रूयात् - अपानं वा एतदात्मनोऽग्नावाधाः, अपानेनात्मन आर्त्तिमारिष्यसि इति। तथा हैव स्यात्। यदि तृतीयस्यामनुव्याहरेत्, तं प्रति ब्रूयात् - उदानं वा एतदात्मनोऽग्नावाधाः, उदानेनात्मन आर्तिमारिष्यसि इति। तथा हैव स्यात्। यदि चतुर्थ्यामनुव्याहरेत्, तं प्रति ब्रूयात् - श्रोत्रं वा एतदात्मनोऽग्नावाधाः, श्रोत्रेणात्मन आर्त्तिमारिष्यसि बधिरो भविष्यसि इति। तथा हैव स्यात्। यदि पञ्चम्यामनुव्याहरेत्, तं प्रति ब्रूयात् - वाचं वा एतदात्मनोऽग्नावाधाः, वाचात्मन आर्तिमारिष्यसि मूको भविष्यसि इति। तथा हैव स्यात्। यदि षष्ठ्यामनुव्याहरेत्, तं प्रति ब्रूयात् - मनो वा एतदात्मनोऽग्नावाधाः, मनसात्मन आर्त्तिमारिष्यसि मनोमुषिगृहीतो मोमुघश्चरिष्यसि इति। तथा हैव स्यात्। यदि सप्तम्यामनुव्याहरेत्, तं प्रति ब्रूयात् - चक्षुर्वा एतदात्मनोऽग्नावाधाश्चक्षुषात्मन आर्तिमारिष्यस्यन्धो भविष्यसि इति। तथा हैव स्यात्। यद्यष्टम्यामनुव्याहरेत्, तं प्रति ब्रूयात् - मध्यं वा एतत्प्राणमात्मनोऽग्नावाधाः, मध्येन प्राणेनात्मन आर्तिमारिष्यस्युद्ध्माय मरिष्यसि इति। तथा हैव स्यात्। यदि नवम्यामनुव्याहेत्, तं प्रति ब्रूयात् - शिश्नं वा एतदात्मनोऽग्नावाधाः, शिश्नेनात्मन आर्त्तिमारिष्यसि क्लीबो भविष्यसि इति। तथा हैव स्यात्। यदि दशम्यामनुव्याहरेत्, तं प्रति ब्रूयात् - अवाञ्चं वा एतत्प्राणमात्मनोऽग्नावाधाः, अवाचा प्राणेनात्मन आर्त्तिमारिष्यस्यपिनद्धो मरिष्यसि इति। तथा हैव स्यात्। यद्येकादश्यामनुव्याहरेत्, तं प्रति ब्रूयात् - सर्वं वा एतदात्मानमग्नावाधाः, सर्वेणात्मनार्त्तिमारिष्यसि क्षिप्रेऽमुं लोकमेष्यसि इति। तथा हैव स्यात्। - मा.श. १.४.३.१०- २१

*उत्तराघारः :- शिरो वै यज्ञस्योत्तर आघारः। आत्मा वै ध्रुवा। तदात्मन्येवैतच्छिरः प्रतिदधाति - मा.श. १.४.५.५

*अथ होतुः पाणौ समवद्यति। - - - -तयात्मन् श्रितया होता यजमानायाशिषमाशास्ते - मा.श. १.८.१.१७

*यस्य हि प्रजा भवति - अमुं लोकमात्मनैति। अथास्मिन् लोके प्रजा यजते। - मा.श. १.८.१.३१

*इडाकर्म : यस्य हि प्रजा भवति - एक आत्मना भवति, अथोत दशधा प्रजया हविष्क्रियते - मा.श. १.८.१.३४

*मयीदमिन्द्र इन्द्रियं दधातु, अस्मान् रायो मघवानः सचन्ताम्। अस्माकं सन्त्वाशिषः, सत्या नः सन्त्वाशिषः। तद्या एवात्रर्त्विजो यजमानायाशिष आशासते - ता एवैतत्प्रतिगृह्यात्मन् क्रियते - मा.श. १.८.१.४२

*सूक्तवाक् - शंयुवाक् कर्मारम्भः :- तन्(प्रस्तर तृणं) मुहूर्त्तं धारयित्वाऽनुपहरति। तद् यत्रास्येतर आत्मागन्, तदेवास्यैतद्गमयति। - मा.श. १.८.३.१७

*अथाग्नीदाह - अनुप्रहर इति। तद् यत्रास्येतर आत्मागन् - तदेवास्यैतद्गमय - इत्येवैतदाह। तूष्णींमेवानुप्रहृत्य - चक्षुष्पा अग्नेऽसि, चक्षुर्मे पाहि इति। आत्मानमुपस्पृशति। तेनो अप्यात्मानं नानुप्रवृणक्ति - मा.श. १.८.३.१९

*द्वयं तद् - यस्मान्मुखमुपस्पृशते। अमृतं वा आपः। अमृतेनैवैतत्संस्पृशते। एतदु चैव - एतत्कर्मम्मात्मन् कुरुते। - मा.श. १.९.३.७

*फलवादब्राह्मणम् : देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे। त उभय एवानात्मान आसुः मर्त्या आसुः, अनात्मा हि मर्त्यः। तेषूभयेषु मर्त्येष्वग्निरेवामृत आस। - मा.श. २.२.२.८

*अथैनं देवा अन्तरात्मन्नादधत। त इमममृतमन्तरात्मन्नाधाय, अमृता भूत्वा, अस्तर्य्या भूत्वा, स्तर्यान् सपत्नान्मर्त्यानभ्यभवन् - मा.श. २.२.२.१४

*तद्यत्रैनमदो मन्थति, तज्जातमभिप्राणिति। प्राणो वा अग्निः, जातमेवैनमेतत्सन्तं जनयति। स पुनरपानिति। तदेनमन्तरात्मन्नाधत्ते। सोऽस्यैषोऽन्तरात्मन्नग्निराहितो भवति। - मा.श. २.२.२.१५

* न ह वा अस्यैतं कश्चनान्तरेणैति, यावज्जीवति, योऽस्यैषोऽन्तरात्मन्नग्निराहितो भवति। तस्मादु तं नाद्रियेत्, यदनुगच्छेत्। - मा.श. २.२.२.१७

*आत्मैव भूतम्। अद्धा हि तद् - यद्भूतम्, अद्धो तद् - यदात्मा। प्रजैव भविष्यत्। अनद्धा हि तद् - यद्भविष्यत् - मा.श. २.३.१.२५

*आत्मैव जातम्। अद्धा हि तद् - यज्जातम् अद्धो तद् - यदात्मा। प्रजैव जनिष्यमाणम्। अनद्धा हि तद् - यज्जनिष्यमाणम्। - मा.श. २.३.१.२६

*आत्मैवागतम्। अद्धा हि तद् - यदागतम् अद्धो तद् - यदात्मा। प्रजैवाशा। अनद्धा हि तद् - यदाशा अनद्धो तद् - यत्प्रजा। - मा.श. २.३.१.२७

*आत्मैवाद्य। अद्धा हि तद् - यदद्य। अद्धो तद्यदात्मा। प्रजैव श्वः। अनद्धा हि तद् - श्वः अनद्धो तद् - यत्प्रजा। - मा.श. २.३.१.२८

*सा या पूर्वाहुतिः सात्मानमभिहूयते। तां मन्त्रेण जुहोति। अद्धा हि तद् - यन्मन्त्रः। अद्धो तद् - यदात्मा। अथ योत्तरा सा प्रजामभिहूयते। तां तूष्णीं जुहोति। अनद्धा हि तद् - यत्तूष्णीम्। - मा.श. २.३.१.२९

*स्वानु चैवैतत् पितॄञ्छ्रेयांसं लोकमुपोन्नयति। यदु चैवास्यात्रात्मनोऽनुचरणेन हन्यते वा मीयते वा, तदु चैवास्यैतेन पुनराप्यायते। - मा.श. २.६.१.३

*सा या चैव देवानां श्रीरासीत् - साकमेधैरीजानानां विजिग्यानानाम्, य उ च संवत्सरस्य प्रजितस्य रस आसीत् - तमेवैतदुभयं परिगृह्यात्मन् कुरुते। तस्माच्छुनासीर्येण यजते - मा.श. २.६.३.२,

*दीक्षा संस्काराः :-वाग्वै यज्ञः। यज्ञमेवैतदात्मन्धत्ते। - श.ब्रा . ३.१.३.२७

*आकूत्यै प्रयुजेऽग्नये स्वाहा इति। आ वा अग्रे कुवते - यजेयेति। तद् यदेवात्र यज्ञस्य - तदेवैतत् संभृत्यात्मन् कुरुते। - मा.श. ३.१.४.६

*मेधायै मनसेऽग्नये स्वाहा इति। मेधया वै मनसाऽभिगच्छति - यजेयेति। तद् यदेवात्र यज्ञस्य - तदेवैतत् सम्भृत्यात्मन् कुरुते। - मा.श. ३.१ .४.७

*सरस्वत्यै पूष्णेऽग्नये स्वाहा इति। - - - - तद् यदेवात्र यज्ञस्य - तदेवैतत्सम्भृत्यात्मन् कुरुते - मा.श. ३.१.४.१०

*आकूत्यै प्रयुजेऽग्नये स्वाहेति। आत्मना वा अग्र आकुवते यजेयेति। तमात्मन एव प्रयुङ्क्ते - यत्तनुते। ते अस्यैते आत्मन्देवते आधीते भवतः आकूतिश्च प्रयुक्च। मेधायै मनसेऽग्नये स्वाहेति। मेधया वै मनसाऽभिगच्छति -- यजेयेति। ते अस्यैते आत्मन्देवते आधीते भवतो - मेधा च मनश्च। - मा.श. ३.१.४.१२-१३

*सरस्वत्यै पूष्णेऽग्नये स्वाहेति। वाग्वै सरस्वती। वाग्यज्ञः। साऽस्यैषाऽऽत्मन्देवताऽऽधीता भवति - वाक्। पशवो वै पूषा। पुष्टिर्वै पूषा पुष्टिः पशवः। पशवो हि यज्ञः। तेऽस्यैत आत्मन्पशव आधीता भवन्ति। तद्यदस्यैता आत्मन्देवता आधीता भवन्ति - तस्मादाधीतयजूंषि नाम। - मा.श. ३.१.४.१४

*सैषाऽनुष्टुप्सत्येकत्रिंशदक्षरा भवति। दश पाण्या अंगुलयः, दश पाद्याः, दश प्राणाः, आत्मैकत्रिंशः - यस्मिन्नेते प्राणाः प्रतिष्ठिताः। एतावान्वै पुरुषः - मा.श. ३.१.४.२३

*यदा वै सुषमं भवति - अथालं यज्ञाय भवति। यदो दुःषमं भवति - न तर्ह्यात्मने च नालं भवति। - मा.श. ३.२.१.३०

*अथ यत्र सुप्त्वा पुनर्नावन्नस्यन् भवति - तद्वाचयति - पुनर्मनः पुनरायुर्मऽआगन्, पुनः प्राणः पुनरात्मा मऽआगन्, पुनश्चक्षुः पुनः श्रोत्रं मऽआगन् इति - मा.श. ३.२.२.२३

*पूर्वार्धं वा अन्वात्मनो बाहू। पूर्वार्धमेवैतद्यज्ञस्याभि संस्करोति। - मा.श. ३.२.३.२३

*अथाध्वर्युरात्मानमुपस्पृशति। मा वयं रायस्पोषेण वियौष्म इति। तथो हाध्वर्युः पशुभ्य आत्मानं नान्तरेति। - मा.श. ३.३.१.९

*अथ सोमविक्रयिणमभिप्रकम्पयति - - - - - -अस्मे ते चन्द्राणि इति। स आत्मन्येव वीर्यं धत्ते। शरीरमेव सोमविक्रयी हरते - मा.श. ३.३.३.७

*हविर्वाऽएष देवानां भवति - यो दीक्षते। तदेनमन्तर्जम्भऽआदधाते - तत्पशुनाऽऽत्मानं निष्क्रीणीते - मा.श. ३.३.४.२१

*स्विते माऽधाः इति। स्विते हि तद्देवा आत्मानमदधत - यत् सत्यमवदन्, यत् सत्यमकुर्वन् - तस्मादाह - स्विते माऽधा इति - मा.श. ३.४.२.१४

*सन्तरामङ्गुलीराञ्चन्त, सन्तरां मेखलाम्। तत्प्रजामात्मन्नकुर्वत। तथो एवैष एतत्प्रजामेवोपैति। - मा.श. ३.४.३.४

*सन्तरामङ्गुलीरचते, सन्तरां मेखलाम्। तत्प्रजामात्मन् कुरुते - मा.श. ३.४.३.५

*धिष्ण्य पदार्थ विधानं : ये वै समङ्कास्ते विजामानः। एतऽउ हैवास्यैत आत्मानः। - मा.श. ३.६.२.१

*ते हऽर्तीयमानेऽऊचतुः - यतरा नौ दवीयः परापश्याद् - आत्मानं नौ सा जयादिति। तथेति। सा ह कद्रूरुवाच - परेक्षस्वेति - मा.श. ३.६.२.३

* सा ह कद्रूरुवाच - आत्मानं वै त्वाऽजैषम्। दिव्यसौ सोमः - तं देवेभ्य आहर। तेन देवेभ्य आत्मानं निष्क्रीणीष्वेति। तथेति। सा छन्दांसि ससृजे। - मा.श. ३.६.२.८

*तस्मात्तत्र सुगुप्तं चिकीर्षेद् - यस्य ह गोपनायामपहरन्ति। हीयते ह। तेनैतेन सुपर्णी देवेभ्य आत्मानं निरक्रीणीत। तस्मादाहुः - पुण्यलोक ईजान इति। - मा.श. ३.६.२.१५

*ऋणं ह वै पुरुषो जायमान एव मृत्योरात्मना जायते। स यद्यजते - यथैव तत् सुपर्णी देवेभ्य आत्मानं निरक्रीणीत - एवमेवैष एतन्मृत्योरात्मानं निष्क्रीणीते - मा.श. ३.६.२.१६

*अथ निग्राभ्या आहरति। तास्वेनं वाचयति - - - - -आत्मानं मे तर्पयत, प्रजां मे तर्पयत पशून्मे तर्पयत - - - मा.श. ३.९.४.७

*अथाप्रीभिश्चरन्ति। - - - -सर्वेणेव वाऽएष मनसा सर्वेणेवात्मना यज्ञं सम्भरति, सञ्च जिहीर्षति। यो दीक्षते - तस्य रिरिचान इवात्मा भवति। तमेताभिराप्रीभिराप्याययन्ति - मा.श. ३.८.१.२

*ते वाऽएतऽएकादश प्रयाजा भवन्ति। दश वाऽइमे पुरुषे प्राणाः - आत्मैकादशः - यस्मिन्नेते प्राणाः प्रतिष्ठिताः - मा.श. ३.८.१.३

*अस्य हविषस्त्मना यज इति। वाचमेवैतदाह - अनार्तस्यास्य हविष आत्मना यजेति - मा.श. ३.८.१.१३

*हृदयमु वै पशुः। तस्यात्मन एवाग्रेऽवद्यति। तस्माद्यदि किञ्चिदवदान हीयेत - न तदाद्रियेत। - मा.श. ३.८.३.१६

*तद् यत्रैनमहौषीत् - तदेनं कृत्स्नं कृत्वानुसमस्यति। सोऽस्य कृत्स्नोऽमुष्मिfल्लोकऽआत्मा भवति। - मा.श. ३.८.३.३७

*अथ मुखं विमृष्टे - मनो मे हार्द्दि यच्छ इति। तथो होपयष्टात्मानं नानुप्रवृणक्ति। - मा.श. ३.८.५.५

*अथैन्द्राग्नम्। तेजो वाऽअग्निः। इन्द्रियम् वीर्यमिन्द्रः। उभाभ्यामेव तद्वीर्याभ्यां प्रजापतिः पुनरात्मानमाप्याययत, उभेऽएनं वीर्येऽउपसमावर्तेताम्। उभे वीर्येऽअनुकेऽआत्मनोऽकुरुत। - मा.श. ३.९.१.१९

*अन्तर्यामग्रहः :- सोऽस्यायमुदानोऽन्तरात्मन् - यतस्तद्यदस्यैषोऽन्तरात्मन् - यतः। यत्रएनेनेमाः प्रजा यतः। तस्मादन्तर्यामो नाम। तमन्तः पवित्राद्गृह्णाति। प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति। सोऽस्यायमुदानोऽन्तरात्मन् हितः। - मा.श. ४.१.२.२-३

*अन्तस्ते द्यावापृथिवी दधामि - - - - - -। अथ यदन्तरन्तरिति गृह्णाति। अन्तस्त्वाऽऽत्मन्दधऽइत्येवैतदाह। - मा.श. ४.१.२.१६

*वय इव ह वै यज्ञो विधीयते। तस्योपांश्वन्तर्यामावेव पक्षौ। आत्मोपांशुसवनः। - मा.श. ४.१.२.२५

*वषट्कर्तुर्हि भक्षः प्राणो वै वषट्कारः। सोऽस्मादेतद्वषट्कुर्वतः पराङिवाभूत्। प्राणो वै भक्षः, तत् प्राणं पुनरात्मन्धत्ते। - मा.श. ४.२.१.२९

*आग्रयण ग्रहः :- आत्मा ह वाऽअस्याग्रयणः। सोऽस्यैष सर्वमेव। सर्वं ह्ययमात्मा। तस्मादनया गृह्णाति। अस्यै हि स्थाली भवति। - मा.श. ४.२.२.१

*आत्मा वाऽआग्रयणः। आत्मनो वाऽइमानि सर्वाण्यङ्गानि प्रभवन्ति। एतस्मादन्ततो हारियोजनं ग्रहं गृह्णाति। - मा.श. ४.२.२.५

*उक्थग्रहः :-- अयं ह वाऽअस्यैषोऽनिरुक्त आत्मा, यदुक्थ्यः, सोऽस्यैष आत्मैव। आत्मा ह्ययमनिरुक्तः प्राणः। सोऽस्यैष आयुरेव तस्मादनया गृह्णाति। -- मा.श. ४.२.३.१

*तस्यासावेव ध्रुव आयुरात्मैव। अस्यैतेन संहितः, पर्वाणि संततानि। तद्वाऽअगृहीत एवैतस्मादच्छावाकायोत्तमो ग्रहो भवति। - मा.श. ४.२.२.३

*- - - तस्मादिमानि पर्वाणि व्यतिषक्तानि। इदमित्थमतिहानमिदमित्थम्। तद् यदस्यैतेनात्मा संहितः तेनास्यैष आयुः। - मा.श. ४.२.३.५

*ध्रुव ग्रहः :-यत्रऽस्यावाचीनं नाभेः - तद् अस्यैष आत्मनः - सोऽस्यैष आयुरेव। तस्मादनया गृह्णाति। - मा.श. ४.२.४.२

*यत्रऽअस्यावाचीनं नाभेः - तदस्यैष आत्मनः। स यत्पुरैतस्य होमात्सर्पेद्वा, प्र वा स्रावयेत - ध्रुवं हावमेहेत् - नेद्ध्रुवमवमेहानीति। तस्माद्वाऽअग्निष्टोमसद्भवति। तद्वै तद् यजमान एव, यजमानस्य ह्येषः तदात्मनः। - मा.श. ४.२.४.८

*तद्वाऽएतद्यशो ब्राह्मणाः सम्प्रसृप्यात्मन्दधते - यद्भक्षयन्ति। - मा.श. ४.२.४.९

*ते वाऽएते सर्पन्त एवाग्निष्टोमसद्ये तद्यशः सन्निधाय सर्पन्ति। ते पराञ्चोऽयशसो भवन्ति। तदेष परिगृह्यैव पुनरात्मन्यशो धत्ते। - मा.श. ४.२.४.१०

*तावध्वर्यू प्रथमौ प्रतिपद्येते प्राणोदानौ यज्ञस्य। अथ प्रस्तोता वागेव यज्ञस्य। अथोद्गाता आत्मैव प्रजापतिर्यज्ञस्य। अथ प्रतिहर्त्ता भिषग्वा व्यानो वा। - मा.श. ४.२.५.३

*दक्षिणादानम् : अन्यं वाऽएतऽएतस्यात्मानं संस्कुर्वन्ति - एतं यज्ञमृङ्मयं यजुर्मयं साममयमाहुतिमयम्। सोऽस्यामुष्मिंल्लोकऽआत्मा भवति। - मा.श. ४.३.४.५

*- - - - आप्रा द्यावापृथिवीऽन्तरिक्षं। सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा। - मा.श. ४.३.४.१०

*सावित्र ग्रहः :- आग्रयणाद् गृह्णाति। मनो ह वाऽअस्य सविता आत्माऽऽग्रयणः। आत्मन्येवैतन्मनो दधाति। प्राणो ह वाऽअस्य सविता, आत्माऽऽग्रयणः। आत्मन्येवैतत्प्राणं दधाति। - मा.श. ४.४.१.५

*एतेन वै देवा वज्रेणाज्येनाघ्नन्नेव पत्नीर्निराक्ष्णुवन्। ता हता निरष्टा नात्मनश्चनैशत, न दायस्य चनैशत। - - - - ता हता निरष्टा नात्मनश्चनेशते, न दायस्य चनेशते। - मा.श. ४.४.२.१३

*अथ मुखान्युपस्पृशन्ते। द्वयं तद् - यस्मान्मुखान्युपस्पृशन्ते। अमृतं वाऽआपः। अमृतेनैवैतत्संस्पृशन्ते। एतदु चैवैतत्कर्मात्मन् कुर्वते। - मा.श. ४.४.३.१५

*अथ यस्मात्समिष्टयजूंषि जुहोति। रिरिचानऽइव वाऽएतदीजानस्यात्मा भवति। यद्ध्यस्य भवति - तस्य हि ददाति। - मा.श. ४.४.४.४

*अतिग्राह्य ग्रहाः :-- - - एतानि ह वै तेजांसि। एतानि वीर्याण्यात्मन्धत्ते - यस्यैवं विदुषः एतान्ग्रहान्गृह्णन्ति। तान्वै प्रातःसवने गृह्णीयादाग्रयणं गृहीत्वा। आत्मा वाऽआग्रयणः। बहु वाऽइदमात्मन एकैकमतिरिक्तं क्लोम, हृदयं त्वत् यत्त्वत्। - मा.श. ४.५.४.५

*माध्यन्दिने वैनान्त्सवने गृह्णीयात्। उक्थ्यं गृहीत्वा उपाकरिष्यन्वा पूतभृतः। अयं ह वाऽअस्यैषोऽनिरुक्त आत्मा यदुक्थ्यः सोऽएषा मीमांसैव। - मा.श. ४.५.४.७

*अथाग्रयणम् : आत्मने मे वर्चोदा वर्चसे पवस्व इति। - मा.श. ४.५.६.३

*स आश्विनं ग्रहं गृहीत्वा कृत्स्नं यज्ञं जनयति। तं कृत्स्नं यज्ञं जनयित्वा तमात्मन्धत्ते, तमात्मन्कुरुते। - मा.श. ४.५.६.५

*तदाग्रयणाग्रान्गृह्णाति। जागतं वाऽएतन्नवममहर्भवति। आत्मा वा आग्रयणः, सर्वं वाऽइदमात्मा जगत्। तस्मादाग्रयणाग्रान्गृहणाति। - मा.श. ४.५.९.८

*अंशुग्रहः :- प्रजापतिर्वाऽष यदंशुः सोऽस्यैष आत्मैव। आत्मा ह्ययं प्रजापतिः। तदस्यैतमात्मानं कुर्वन्ति - यत्रैतं गृह्णन्ति। तस्मिन्नेतान्प्राणान्दधाति। - मा.श. ४.६.१.१

*स यदेवात्र क्ष्णुते वा, वि वा लिशते - अमृतमायुर्हिरण्यं, तदमृतमायुरात्मन् धत्ते। - मा.श. ४.६.१.६

*स वाऽएष न सर्वस्यैव ग्रहीतव्यः। आत्मा ह्यस्यैषः। यो न्वेव ज्ञातः - तस्य ग्रहीतव्यः। - मा.श. ४.६.१.१४

*वाजपेययज्ञः :- अथ देवा अन्योऽन्यस्मिन्नेव जुह्वतश्चेरुः। तेभ्यः प्रजापतिरात्मानं प्रददौ। यज्ञो हैषामास। - मा.श. ५.१.१.२

*आजिधावनं, रथचक्राधिरोहणं : तद् यदेवैतदन्नमुदजैषीत् - तेनैवैतदेतां गतिं गत्वा संस्पqशते तदात्मन् कुरुते। - मा.श. ५.१.५.२५

*अथैतं स हिरण्यपात्रमेव मधुग्रहं ब्रह्मणे ददाति। तं ब्रह्मणे दददमृतमायुरात्मन् धत्ते। अमृतं ह्यायुर्हिरण्यम्। - मा.श. ५.१.५.२८

*द्वादश वै मासाः संवत्सरस्य, संवत्सरः प्रजापतिः। प्रजापतिर्यज्ञः। तद् यैवास्याप्तिः, या सम्पत् - तामेवैतदुज्जयति - तामात्मन् कुरुते। - मा.श. ५.२.१.२

*तद् यज्जायामामन्त्रयते। अर्द्धो ह वाऽएष आत्मनो यज्जाया। तस्माद्यावज्जायां न विन्दते - नैव तावत्प्रजायते। - मा.श. ५.२.१.१०

*तद् यदेवैतदन्नमुदजैषीत् - तेनैवैतां गतिं गत्वा संस्पृशते - तदात्मन् कुरुते। तस्माद्गोधूमानुपस्पृशति। - मा.श. ५.२.१.१३

*सर्वमुह्येवेदं प्रजापतिः। सोऽस्य सर्वस्य यशः - इन्द्रियं वीर्यं संवृज्य तदात्मन् धत्ते - तदात्मन् कुरुते। - मा.श. ५.२.१.१५

*तद्धैके एतत्कृत्वाऽथैतत्कुर्वन्ति। तदु तथा न कुर्यात्। आत्मा वै स्तोत्रम्, प्रजा शस्त्रम्। एतस्माद्ध स यजमानं प्रणाशयति। - मा.श. ५.२.२.२०

*यत्र वाऽइन्द्रो वृत्रमहन् - तस्य भीतस्येन्द्रियं वीर्यमपचक्राम। स एतेन हविषेन्द्रियं वीर्यं पुनरात्मन्नधत्त। तथो एवैष एतेन हविषेन्द्रियं वीर्यमात्मन्धत्ते। - मा.श. ५.२.३.८

*अथ यदैन्द्रावैष्णवश्चरुर्भवति - इन्द्रो वै यजमानो, वैष्णवाः पुरुषाः - स यानेवास्माऽअग्निर्दाता पुरुषान् ददाति। तैरेवैतत्संस्पृशते। तानात्मन् कुरुते। - मा.श. ५.२.५.३

*अथ यदैन्द्रापौष्णश्चरुर्भवति - इन्द्रो वै यजमानः, पौष्णाः पशवः - स यानेवास्माऽअग्निर्दाता पशून् ददाति - तैरेवैतत् संस्पृशते। तानात्मन् कुरुते। - मा.श. ५.२.५.७

*अथ यदैन्द्रासौम्यश्चरुभवति। इन्द्रो वै यजमानः। वर्चः सोमः। स यदेवास्माऽअग्निर्दाता वर्चो ददाति, तेनैवैतत् संस्पृशते। तदात्मन् कुरुते। - मा.श. ५.२.५.११

*वीर्यं वाऽएतदपां रसः सम्भृतो भवति - येनैनमेतदभिषिञ्चति। इदं मे वीर्यं सर्वमात्मानमुपस्पृशादिति। - मा.श. ५.४.२.४

*अभिषेकोत्तर कर्माणि : अथ धनुरार्त्न्या गामुपस्पृशति - समिन्द्रियेण इति। इन्द्रियं वै वीर्यम् - गावः। इन्द्रियमेवैतद्वीर्यमात्मन्धत्ते। - मा.श. ५.४.३.१०

*प्रतमामिवाभ्यपक्रामति। तत् स्वादेवैतदिन्द्रियं वीर्यं पुनरात्मन्धत्ते। - मा.श. ५.४.३.११

*औदुम्बरीं शाखामुपगूहति। तयोरन्यतरमुपस्पृशति - इयदस्यायुरस्यायुर्मयि धेहि। युङ्ङसि वर्चोऽसि वर्चो मयि धेहि इति। तद् आयुर्वर्च आत्मन्धत्ते। - मा.श. ५.४.३.२५

*अथौदुम्बरीं शाखामुपस्पृशति - ऊर्गस्यूर्जं मयि धेहि इति। तद् ऊर्जमात्मन्धत्ते। - मा.श. ५.४.३.२६

*वज्रो वै स्फ्यः। स एतेन वज्रेण ब्राह्मणो राजानमात्मनोऽबलीयांसं कुरुते। - मा.श. ५.४.४.१५

*तं राजा राजभ्रात्रे प्रयच्छति - इन्द्रस्य वज्रोऽसि तेन मे रध्य इति। तेन राजा राजभ्रातरमात्मनोऽबलीयांसं कुरुते। तं राजभ्राता सूताय वा स्थपतये वा प्रयच्छति - इन्द्रस्य वज्रोऽसि तेन मे रध्य इति। तेन राजभ्राता सूतं वा स्थपतिं वाऽऽत्मनोऽबलीयांसं कुरुते। तं सूतो वा स्थपतिर्वा ग्रामण्ये प्रयच्छति - इन्द्रस्य वज्रोऽसि तेन मे रध्य इति। तेन सूतो वा स्थपतिर्वा ग्रामण्यमात्मनोऽबलीयांसं कुरुते। तं ग्रामणीः सजाताय प्रयच्छति - इन्द्रस्य वज्रोऽसि तेन मे रध्य इति। तेन ग्रामणीः सजातमात्मनोऽबलीयांसं कुरुते। - मा.श. ५.४.४.१९

 

*अथ यद्विष्णुं यजति। यज्ञो वै विष्णुः। तद्यज्ञं प्रत्यक्षमाप्नोति। तं प्रत्यक्षमाप्त्वाऽऽत्मन्कुरुते। - मा.श. ५.४.५.१८

*- - - सम्वत्सरः प्रजापतिः। प्रजापतिर्यज्ञः। तद् यज्ञं प्रत्यक्षमाप्नोति। तं प्रत्यक्षमाप्त्वाऽऽत्मन्कुरुते। - मा.श. ५.४.५.२१, २३

*स वै न्येव वर्तयते, केशान्न वपते। - - - -अथ यन्निवर्तयति। तदात्मन्येवैतां श्रियं नियुनक्ति। तस्मान्न्येव वर्तयते। केशान्न वपते। - मा.श. ५.५.३.६

*सप्तपुरुषो ह्ययं पुरुषः - यच्चत्वार आत्मा, त्रयः पक्षपुच्छानि। - - - - अथ यदेकेन पुरुषेणात्मानं वर्धयति - तेन वीर्येणायमात्मा पक्षपुच्छान्युद्यच्छति। - मा.श. ६.१.१.६

*स एतान्पञ्च पशूनपश्यत्। - - - - - स ऐक्षत - इमे वाऽअग्निः, इमानेवात्मानमभिसंस्करवै। यथा वाऽअग्निः समिद्धो दीप्यते - एवमेषां चक्षुर्दीप्यते - - - - - तान्नाना देवताभ्य आलिप्सत - वैश्वकर्मणं पुरुषम्, वारुणमश्वम्, ऐन्द्रमृषभम्, त्वाष्ट्रमविम्, आग्नेयमजम्। - मा.श. ६.२.१.५

*- - - -अजेन यज्ञं समस्थापयत्। नेन्मे यज्ञो विकृष्टोऽसदिति। आत्मा वै यज्ञः। नेन्मेऽयमात्मा विकृष्टोऽसदिति। - मा.श. ६.२.१.७

*उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह - प्राणो गायत्री, आत्मा त्रिष्टुप्। प्राणमेवास्य गायत्रीभिः समिन्द्धे, आत्मानं त्रिष्टुब्भिः। मध्ये त्रिष्टुभो भवन्ति, अभितो गायत्र्यः। मध्ये ह्ययमात्मा - अभितः प्राणाः। - मा.श. ६.२.१.२४

*एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयः, दश पाद्याः, आत्मैकविंशः। पुरुषः प्रजापतिः। - मा.श. ६.२.२.४

*- - - रसो वै रेतः। यावानु वै रसस्तावानात्मा। - मा.श. ६.२.२.६

*सप्तदशो वै पुरुषो - दश प्राणाः, चत्वार्यङ्गानि, आत्मा पञ्चदशः, ग्रीवाः षोडश्यः, शिरः सप्तदशम्। पुरुषः प्रजापतिः। - मा.श. ६.२.२.९

*अथास्यैतेन पुरोडाशेनात्मानं समस्कुर्वन्। स यत्प्राजापत्यो भवति - प्रजापतिर्ह्यात्मा। - मा.श. ६.२.२.१२

*अथ यदेतेन मध्यतश्चरन्ति - मध्यतो ह्ययमात्मा। - मा.श. ६.२.२.१३

*तमसावादित्योऽब्रवीत् - उपाह मायानीति। केनेति। लोकम्पृणयेति। तथेति। एष वाव लोकम्पृणा। आत्मना हैव तदुवाच। - मा.श. ६.२.३.६

*द्यौस्ते पृष्ठं पृथिवी सधस्थमात्माऽन्तरिक्षं समुद्रो योनिः इति। इत्थमसि, इत्थमसि, इत्येवैतदाह - मा.श. ६.३.३.१२

*अथैनमस्यां खनति। एतद्वै देवा अबिभयुः - यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति। तस्माऽइमामेवात्मानमकुर्वन् - गुप्त्यै। आत्मानं गोप्स्यतीति। सा समम्बिला स्यात्। तदस्येयमात्मा भवति। - मा.श. ६.३.३.२६

*सम्वसाथां स्वर्विदा समीचीऽउरसाऽऽत्मना इति। - मा.श. ६.४.१.११

*मृत्पिण्डाभिमर्शनादि : अथैते त्रिष्टुभाऽउत्तरे भवतः। आत्मा वै त्रिष्टुप्। आत्मानमेवास्यैताभ्यां संस्करोति - मा.श. ६.४.२.६

*अथाध्यात्मम्। आत्मैवोखा। वागषाढा। तां पूर्वां करोति। पुरस्ताद्धीयमात्मनो वाक्। तामेतस्या एव मृदः करोति आत्मनो ह्येवेयं वाक्। - मा.श. ६.५.३.४

*अथोखां करोति। आत्मानं तत् करोति। - - - - -ता एतस्या एव मृदः करोति। आत्मनस्तत्प्रजां निर्मिमीते। यजमानः करोति। यजमानस्तदात्मनः प्रजां करोति। उत्तराः करोति। उत्तरां तदात्मनः प्रजां करोति। - मा.श. ६.५.३.५

*अश्वशकैर्धूपयति। प्राजापत्यो वाऽश्वः। प्रजापतिरग्निः। नो वाऽआत्माऽऽत्मानं हिनस्ति - अहिंसायै। तद्वै शक्नैव। - मा.श. ६.५.३.९

*अथैनमस्यां खनति। एतद्वै देवा अबिभयुः - यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति। तस्माऽइमामेवात्मानमकुर्वन् - गुप्त्यै। आत्माऽऽत्मानं गोप्स्यतीति। तां वाऽअदित्या खनति। इयं वाऽअदितिः। नो वाऽआत्माऽऽत्मानं हिनस्त्यहिंसायै। - मा.श. ६.५.४.१-२

*प्रजापतेर्वै शोकादजाः समभवन्। प्रजापतिरग्निः। नो वाऽआत्माऽऽत्मानं हिनस्ति। अहिंसायै। - मा.श. ६.५.४.१६

*शिर एव वैश्वानरः। आत्मैष आदित्यश्चरुः। शिरश्च तदात्मानं च करोति। वैश्वानरं पूर्वं निर्वपति। शिरस्तत्कृत्वाऽऽत्मानं करोति। - - - - -भूमा वा एष तण्डुलानां यच्चरुः। भूमो एषोऽङ्गानां यदात्मा। आत्मंस्तदंगानां भूमानं दधाति। - मा.श. ६.६.१.१०

*औद्ग्रभणैर्वै देवा आत्मानमस्माल्लोकात्स्वर्गं लोकमभ्युदगृह्णत। यदुदगृह्णत - तस्मादौद्ग्रभणानि। तथैवैतद्यजमान औद्ग्रभणैरेवात्मानमस्माल्लोकात्स्वर्गं लोकमभ्युद्गृह्णीते। - मा.श. ६.६.१.१२

*तान्यु हैके उखायामेवैतान्यौद्ग्रभणानि जुह्वति। कामेभ्यो वाऽएतानि हूयन्ते। आत्मोऽएष यजमानस्य यदुखा। आत्मन्यजमानस्य सर्वान् कामान् प्रतिष्ठापयाम इति। न तथा कुर्यात् - मा.श. ६.६.१.२२

*प्राणो गायत्री, आत्मा त्रिष्टुप्। एतावान्वै पशुः, यावान्प्राणश्चात्मा च। तद् यावान्पशुः - तावतैवैनामेतत् प्रवृणक्ति। - मा.श. ६.६.२.७

*तद्वाऽआत्मैवोखा, योनिर्मुञ्जाः, शणा जरायु, उल्बं घृतम्, गर्भः समित्। बाह्योखा भवति - अन्तरे मुञ्जाः। बाह्यो ह्यात्मा। अन्तरा योनिः। - मा.श. ६.६.२.१६

*स वै न्यञ्ज्यादेव। दैवो वाऽअस्यैष आत्मा, मानुषोऽयम्। स यन्न न्यञ्ज्यात् - न हैतं दैवमात्मानं प्रीणीयात्। अथ यन्न्यनक्ति - तथो हैतं दैवमात्मानं प्रीणाति। - मा.श. ६.६.४.५

*स वै समिधमाधायाथ व्रतयति। दैवो वाऽअस्यैष आत्मा, मानुषोऽयम्। देवा उ वाऽअग्रे, अथ मनुष्याः। - मा.श. ६.६.४.६

*आत्मैवाग्निः, प्राणाः शिक्यम्। प्राणैर्ह्ययमात्मा शक्नोति स्थातुम्। यच्छक्नोति, तस्माच्छिक्यम्। - मा.श. ६.७.१.२०

*तस्य मन एव प्रतिष्ठा। मनसि ह्ययमात्मा प्रतिष्ठितः। अन्नमासञ्जनम्। अन्ने ह्ययमात्मा प्राणैरासक्तः। - मा.श. ६.७.१.२१

*बृहद्रथन्तरे पक्षौ इति। - - - स्तोम आत्मा इति। स्तोममात्मानं करोति पञ्चविंशम्। छन्दांस्यङ्गानि इति। - - - - साम ते तनूर्वामदेव्यम् इति। आत्मा वै तनूः। आत्मा ते तनूर्वामदेव्यमित्येत्। - मा.श. ६.७.२.६

*एतद्वै देवा अकामयन्त - पर्जन्यो रूपं स्यामेति। तऽएतेनाऽऽत्मना पर्जन्यो रूपमभवन्। तथैवैतद्यजमान एतेनात्मना पर्जन्यो रूपं भवति। - मा.श. ६.७.३.१

*अथैनमभिमन्त्रयते - आयुर्वाऽअग्निः, आयुरेवैतदात्मन्धत्ते। आ त्वाऽहार्षम् इति। आ ह्येनं हरन्ति। अन्तरभूः इति। आयुरेवैतदन्तरात्मन्धत्ते। ध्रुवस्तिष्ठाविचाचलि: इति। आयुरेवैतद्ध्रुवमन्तरात्मन् धत्ते। - मा.श. ६.७.३.७

*गार्हपत्याग्निचयनम् : स चतस्रः प्राचीरुपदधाति, द्वे पश्चात्तिरश्च्यौ, द्वे पुरस्तात्। तद्याश्चतस्रः प्राचीरुपदधाति - स आत्मा। तद्यत्ताश्चतस्रो भवन्ति। चतुर्विधो ह्ययमात्मा। अथ ये पश्चात् - ते सक्थ्यौ। ये पुरस्तात् - तौ बाहू। यत्र वा आत्मा तदेव शिरः। - मा.श. ७.१.१.१८

*स चतस्रः पूर्वा उपदधाति। आत्मा ह्येवाग्रे सम्भवतः सम्भवति। दक्षिणत उदङ्ङासीन उत्तरार्ध्यां प्रथमामुपदधाति। तथो हास्यैषोऽभ्यात्ममेवाग्निश्चितो भवति। - मा.श. ७.१.१.२१

*नानोपदधाति। ये नाना कामा आत्मन् - तांस्तद्दधाति। सकृत्सादयति। एकं तदात्मानं करोति। - मा.श. ७.१.१.२७

*अथ योऽस्मिंल्लोकेऽग्निः - सोऽस्यावाङ् प्राणः। अथास्यान्तरिक्षमात्मा। अथ योऽन्तरिक्षे वायुः - य एवायमात्मन् प्राणः, सोऽस्य सः। द्यौरेवास्य शिरः। - मा.श. ७.१.२.७

*आहवनीय एव द्यौः। अथ य आहवनीयेऽग्निः - तौ सूर्याचन्द्रमसौ - सोऽस्यैष आत्मैव। - मा.श. ७.१.२.१२

*- - - - दक्षिणं श्रोत्रं दक्षिणः पक्षः, उत्तरं श्रोत्रमुत्तरः पक्षः। प्राणो मध्यमात्मा। वाक्पुच्छं प्रतिष्ठा। - मा.श. ७.१.२.१३

*अथ यदन्तराऽऽहवनीयं च गार्हपत्यं च - स आत्मा। अथ य आग्नीध्रीयेऽग्निः - य एवायमन्तरात्मन् प्राणः, सोऽस्य सः। प्रतिष्ठैवास्य गार्हपत्यः। - मा.श. ७.१.२.१४

*अथ येऽएते द्वे यजुषी - एतत्तत्। यदन्तराऽऽहवनीयं च गार्हपत्यं च तदन्तरिक्षम्। स आत्मा। - मा.श. ७.१.२.२०

*स वाऽआत्मानमेव विकृषति - न पक्षपुच्छानि। आत्मंस्तदन्नं दधाति। यदु वाऽआत्मन्नन्नं धीयते - तदात्मानमवति, तत्पक्षपुच्छानि। अथ यत्पक्षपुच्छेषु - नैव तदात्मानमवति, न पक्षपुच्छानि। - मा.श. ७.२.२.८

*यद्वेवात्मानं विकृषति। यऽएवेमेऽन्तरात्मन्प्राणाः, - तानस्मिन्नेतद्दधाति। तूष्णींम्। - मा.श. ७.२.२.२०

*आत्ममध्ये कुशगुच्छोपधानादि : यावानु वै रसस्तावानात्मा। अनेनैवैनमेतत्सर्वेण प्रीणाति। - मा.श. ७.२.३.४

*स यत् कृष्टऽएव निनयेत् - नाकृष्टे, प्राणेष्वेवापः स्युः - नेतरस्मिन्नात्मन्। अथ यदकृष्टऽएव निनयेत् - न कृष्टे, आत्मन्नेवापः स्युः - न प्राणेषु। कृष्टं चाकृष्टे च निनयति। तस्मादिमा उभयत्रापः प्राणेषु चात्मंश्च। - मा.श. ७.२.४.१०

*सोमक्रयणम् : यद्वेव चिते गार्हपत्ये - अचितऽआहवनीये - अथ राजानं क्रीणाति। आत्मा वाऽअग्निः, प्राणः सोमः। आत्मंस्तत्प्राणं मध्यतो तधाति। तस्मादयमात्मन्प्राणो मध्यतः। - मा.श. ७.३.१.२

*यद्वेव चिते गार्हपत्ये - अचितऽआहवनीये - अथ राजानं क्रीणाति। आत्मा वाऽअग्निः, रसः सोमः। आत्मानं तद्रसेनानुषजति। तस्मादयमान्तमेवात्मा रसेनानुषक्तः। - मा.श. ७.३.१.३

*सौमिकाग्निकव्यतिषजनम् : यद्वेव व्यतिषजति। आत्मा वाऽअग्निः, प्राणोऽध्वरः। आत्मंस्तत् प्राणं मध्यतो दधाति। - तस्मादयमात्मन्प्राणो मध्यतः। यद्वेव व्यतिषजति। आत्मा वाऽअग्निः, रसोऽध्वरः। आत्मानं तद्रसेनानुषजति। तस्मादयमान्तमेवात्मा रसेनानुषक्तः। - मा.श. ७.३.१.४

*लोगेष्टकोपधानम् : प्रजापतिर्वै कः। तस्मै हविषा विधेमेत्येतत्। तामाहृत्य, अन्तरेण परिश्रित आत्मन्नुपदधाति। स यः प्राच्यां दिशि रसोऽत्यक्षरत् - तमस्मिन्नेतद्दधाति। - मा.श. ७.३.१.२०

*वपान्तेऽअग्निरिषितोऽअरोहत् इति। यद्वै किं चास्याम् - साऽस्यै वपा। तामग्निरिषित उपादीप्तो रोहति। तामाहृत्यान्तरेण पक्षसन्धिमात्मन्नुपदधाति। - मा.श. ७.३.१.२१

*अग्ने यत्ते शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियम् इति। तद्देवेभ्यो भरामसि इति। तदस्मै दैवाय कर्मणे हराम इत्येतत्। तामाहृत्यान्तरेण पुच्छसन्धिमात्मन्नुपदधाति। स यः प्रतीच्यां दिशि रसोऽत्यक्षरत् - तमस्मिन्नेतद्दधाति। - मा.श. ७.३.१.२२

*लोगेष्टकोपधानम् : आ मा गोषु विशत्वा तनूषु इति। आत्मा वै तनूः। आ मा गोषु च, आत्मनि च विशत्वित्येतत्। जहामि सेदिमनिराममीवाम् इति सिकताः प्रध्वंसयति। तद् यैव सेदिः, याऽनिरा, याऽमीवा - तामेतस्यां दिशि दधाति। तस्मादेतस्यां दिशि प्रजा अशनायुकाः। तामाहृत्यान्तरेण पक्षसन्धिमात्मन्नुपदधाति। स य उदीच्यां दिशि रसोऽत्यक्षरत् - तमस्मिन्नेतद्दधाति। - मा.श. ७.३.१.२३

*ता एता यजुष्मत्य इष्टकाः। ता आत्मन्नेवोपदधाति, न पक्षपुच्छेषु। आत्मन्ह्येव यजुष्मत्य इष्टका उपधीयन्ते, न पक्षपुच्छेषु। - मा.श. ७.३.१.२५, ७.३.१.४४

*योनिर्वाऽउत्तरवेदिः। योनौ तद् रेतः सिञ्चति। यद्वै योनौ रेतः सिच्यते - तत्प्रजनिष्णु भवति। ताभिः सर्वमात्मानं प्रच्छादयति। सर्वस्मिंस्तदात्मन् रेतो दधाति। तस्मात्सर्वस्मादेवात्मनो रेतः सम्भवति। - मा.श. ७.३.१.२८

*पशुरेषः - यदग्निः। यो वै पशुं पुरस्तात्प्रत्यञ्चमधिरोहति - विषाणाभ्यां तं हन्ति। अथ यः पश्चात्प्राञ्चं - पद्भ्यां तम्। आत्मनैवैनमारोहेत्। यं वाऽआत्मना पशुमारोहन्ति - स पारयति। - - - - आरुह्याग्निमौत्तरवेदिकं कर्म कृत्वा, आत्मन्नग्निं गृह्णीते। आत्मन्नग्निं गृहीत्वा सत्यं साम गायति। - मा.श. ७.३.२.१७

*आत्मन्नग्निं गृह्णीते चेष्यन्। आत्मनो वाऽएतमधि जनयति। यादृशाद्वै जायते - तादृङ्ङेव भवति। स यदात्मन्नगृहीत्वाऽग्निं चिनुयात् - मनुष्यादेव मनुष्यं जनयेत् - - - -। अथ यदात्मन्नग्निं गृहीत्वा चिनोति - तदग्नेरेवाध्यग्निं जनयति, अमृतादमृतम् - मा.श. ७.४.१.१

*स गृह्णाति - मयि गृह्णाम्यग्रेऽअग्निम् इति। तदात्मन्नेवाग्रेऽग्निं गृह्णीते। रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय इति। तदु सर्वा आशिष आत्मन् गृह्णीते। मामु देवताः सचन्ताम् इति। तदु सर्वान्देवानात्मन् गृह्णीते। तद्यत्किंचात्मनोऽधिजनिष्यन्भवति - तत्सर्वमात्मन् गृह्णीते। स वै तिष्ठन्नात्मन्नग्निं गृहीत्वाऽनूपविश्य चिनोति - मा.श. ७.४.१.२

*अथ सर्वनामैरुपतिष्ठते। इमे वै लोकाः सर्पाः। ते हानेन सर्वेण सर्पन्ति - यदिदं किं च। सर्वेषामु हैष देवानामात्मा - यदग्निः। ते देवा एतमात्मानमुपधाय - अबिभयुः - यद्वै न इमे लोका अनेनात्मना न  सर्पेयुरिति। - - - - - तथैवैतद्यजमानो यत्सर्पनामैरुपतिष्ठते - इमानेवास्माऽएतल्लोकान्त्स्थापयति। इमाँल्लोकान्नमयति। तथो हास्यैतऽएतेनात्मना न सर्पन्ति। - मा.श. ७.४.१.२६

*अथ या सा प्रतिष्ठा - एषा सा प्रथमा स्वयमातृण्णा। तद् यदेतामत्रोपदधाति - यदेवास्यैषाऽऽत्मनः - तदस्मिन्नेतत्प्रतिदधाति। - - - -तां वै प्रजापतिनोपदधाति। प्रजापतिर्ह्येवैतत्स्वयमात्मनः प्रत्यधत्त। ध्रुवाऽसि इति। स्थिराऽसीत्येतत्। - मा.श. ७.४.२.४

*द्वियजुरिष्टकोपधानम् : योऽसौ हिरण्मयः पुरुषः - अथ कतमदस्येदं रूपमिति। दैवो वा ऽअस्य स आत्मा, मानुषोऽयम्। - - - - अथ यदिमामपशिनष्टि - यदेवास्येदं मानुषं रूपम् - तदस्यैतदपशिनष्टि। तथो हानेनात्मना सर्वमायुरेति। - मा.श. ७.४.२.१७

*अथ यदनन्तर्हितां दूर्वेष्टकायै द्वियजुषमुपदधाति - प्राणो वै दूर्वेष्टका, यजमानो द्वियजुः - एवमु हास्यैतावात्मानौ प्राणेन सन्ततावव्यवच्छिन्नौ भवतः। - मा.श. ७.४.२.२०

*तस्यायमेव लोकः प्रथमा चितिः। अयमस्य लोको वसन्त ऋतुः। तद् यदेतेऽअत्रोपदधाति - यदेवास्यैतेऽआत्मनः - तदस्मिन्नेतत्प्रतिदधाति - मा.श. ७.४.२.३०

*तस्य प्रतिष्ठैव प्रथमा चितिः। प्रतिष्ठोऽअस्य वसन्त ऋतुः। तद्यदेतेऽअत्रोपदधाति। यदेवास्यैतेऽआत्मनः - तदस्मिन्नेतत्प्रतिदधाति। - मा.श. ७.४.२.३१

*कूर्मेष्टकोपधानम् : यो वै स एषां लोकानामप्सु प्रविद्धानां पराङ्रसोऽत्यक्षiरत् - स एष कूर्मः। तमेवैतदुपदधाति। यावानु वै रसः - तावानात्मा। - मा.श. ७.५.१.१

*तान्येतान्यन्योऽन्येन गृहीतानि। तान्यन्योऽन्येन गृहीत्वाऽऽत्मन्प्रापादयत। तदेतदन्नं प्रपद्यमानं सर्वे देवा अनुप्रापद्यन्त। - मा.श. ७.५.१.२०

*यत्प्राणान्प्राणयत् पुरि इति। आत्मा वै पूः। यद्वै प्राणान्प्राणयत् - तस्मात्प्राणा देवाः। - मा.श. ७.५.१.२१

*पञ्चपशुशीर्षेष्टकोपधानम् : तान्पुरस्तात्प्रतीच उपदधाति। एतद्वै यत्रैतान्प्रजापतिः पशूनालिप्सत, तऽआलिप्स्यमाना उदचिक्रमिषन्। तान्प्राणेषु समगृह्णात्। तान्प्राणेषु सङ्गृह्य पुरस्तात्प्रतीच आत्मन्नधत्त। - - - - -अथो प्राणेष्वेवैनानेतत्सङ्गृह्य पुरस्तात्प्रतीच आत्मन्धत्ते। - मा.श. ७.५.२.४-५

*तदेतदन्नं सृष्ट्वा पुरस्तात्प्रत्यगात्मन्नधत्त। तस्माद्यः कश्चान्नं सृजते - पुरस्तादेवैनत्प्रत्यगात्मन्धत्ते। तद्वाऽउखायाम्। उदरं वाऽउखा। उदरे तदन्नं दधाति। - मा.श. ७.५.२.७

*आऽप्रा द्यावापृथिवीऽअन्तरिक्षम् इति उद्यन्वाऽएष इमांल्लोकानापूरयति। सूर्य आत्मा जगतस्तस्थुषश्च इति। एष ह्यस्य सर्वस्यात्मा। यच्च जगद्, यच्च तिष्ठति। - मा.श. ७.५.२.२७

*मयुं पशुं मेधमग्ने जुषस्व इति। किम्पुरुषो वै मयुः। किम्पुरुषमग्ने जुषस्वेत्येतत्। तेन चिन्वानस्तन्वो निषीद इति। आत्मा वै तनूः। तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतत्। - मा.श. ७.५.२.३२

*बाह्योखा भवति, अन्तराणि पशुशीर्षाणि। बाह्यानि हि लोमानि, अन्तर आत्मा। यदीतरेण यदीतरणेति ह स्माह शाण्डिल्यः। - मा.श. ७.५.२.४३

*अनूचीश्च तिरश्चीश्चोपदधाति। तस्मादिमेऽन्वञ्चश्च तिर्यञ्चश्चात्मन्प्राणाः। संस्पृष्टा उपदधाति। - मा.श. ८.१.३.१०

*एषोऽहैव प्राणो - य एष हिरण्मयः पुरुषः। तस्य त्वयमात्मा - यावदिदमभ्ययमग्निर्विहितः। तद्यद्धास्यैता अङ्गं नाभिप्राप्नुयुः - प्राणो हास्य तदङ्गं नाभिप्राप्नुयात्। यदु वै प्राणोऽङ्गं नाभिप्राप्नोति - शुष्यति वावैतत्, म्लायति वा। तस्मादेनाः परिश्रित्स्वेवोपार्प्योपदध्यात्। अथ या मध्यऽउपदधाति। ताभिरस्यैष आत्मा पूर्ण:। ता उऽएवैतस्मादनन्तर्हिताः। - मा.श. ८.१.४.१

*अथ यदेना एवमभ्यनूक्ताः सतीरक्ष्णया देशेषूपदधाति - तस्मादयं प्रागयं प्राणः सन्नक्ष्णया सर्वाण्यङ्गानि, सर्वमात्मानमनुसंचरति - मा.श. ८.१.४.२

*स एष पशुर्यदग्निः। - - - तस्य याः पुरस्तादुपदधाति - तौ बाहू। अथ याः पश्चात् - ते सक्थ्यौ। अथ या मध्यऽउपदधाति - स आत्मा। ता रेतःसिचोर्वेलयोपदधाति। पृष्टयो वै रेतःसिचौ। मध्यमु पृष्टयः। मध्यतो ह्ययमात्मा। सर्वत उपदधाति। सर्वतो ह्ययमात्मा। - मा.श. ८.१.४.३

*अथ कस्मादत्र द्वौ स्तोमौ, द्वे पृष्ठे उपदधातीति। आत्मा वाऽअस्यैषः। आत्मानं तदङ्गानां ज्येष्ठं वरिष्ठं वीर्यवत्तमं करोति। तस्मादयमात्माऽङ्गानां ज्येष्ठो वरिष्ठो वीर्यवत्तमः। - मा.श. ८.१.४.४

*आहवनीयाग्निचित्यायां प्रथमा चितिः :-यो वाऽआत्मन्प्राणः - स एव प्राणः। तद्यत् प्राणभृत उपदधाति - तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति। तथा सं चाञ्चति, प्र च सारयति। - मा.श. ८.१.४.१०

*स्वावेशा तन्वा संविशस्व इति। आत्मा वै तनूः, स्वावेशेनात्मना संविशस्वेत्येतत्। - मा.श. ८.२.१.६

*- - - -किं नौ ततो भविष्यतीति। युवद्देवत्यमेव मऽएतदात्मनो भविष्यतीति। तथेति। तदस्मिन्नेतदश्विनौ प्रत्यधत्ताम्। तद्या एताः पञ्चाश्विन्यः - एतदस्य तदात्मनः। तद्यदेता अत्रोपदधाति - यदेवास्यैता आत्मनः - तदस्मिन्नेतत्प्रतिदधाति - मा.श. ८.२.१.१३

*ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवाऽसि इति। यद्वै स्थिरं, यत्प्रतिष्ठितं - तद्ध्रुवम्। अथ वाऽअस्यैतदस्थिरमिवाध्रुवमिवात्मन आसीत् - तदेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्ताम्। कुलायिनी घृतवती पुरन्धिः इति। कुलायमिव वाऽअस्यैतदात्मनः। स्वैर्दक्षैर्दक्षपितेह सीद इति। अदक्षयतामेवास्यैतदात्मनः। पृथिव्याः पुरीषमसि इति। पुरीषसंहितमिव वाऽअस्यैतदात्मनः। रेतःसिचोर्वेलया। पृष्टयो वै रेतःसिचौ। पृष्टिसाचयमिव वाऽअस्यैतदात्मनः। सर्वत उपदधाति। सर्वतोv ह्यस्यैतदश्विनावात्मनः प्रत्यधत्ताम्। - मा.श. ८.२.१.१४

*ऋतव्येष्टकोपधानम् : तस्य यदूर्ध्वं पृथिव्याः, अर्वाचीनमन्तरिक्षात् - तदस्यैषा द्वितीया चितिः। तद्वस्य ग्रीष्म ऋतुः। तद्यदेतेअत्रोपदधाति। यदेवास्यैतेऽआत्मनः - तदस्मिन्नेतत्प्रतिदधाति। - मा.श. ८.२.१.१७-१८

*यद्वेव वैश्वदेवीरुपदधाति। प्रजापतेर्विस्रस्तात्सर्वाः प्रजा मध्यत उदक्रामन् - एतस्या अधि योनेः। ता एनमेतस्मिन्नात्मनः प्रतिहिते प्रापद्यन्त। - मा.श. ८.२.२.५

*यद्वेव वैश्वदेवीरुपदधाति। एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहितेऽकामयत - प्रजाः सृजेय, प्रजायेयेति। स ऋतुभिः - अद्भिः - प्राणैः - सम्वत्सरेण - अश्विभ्यां सयुग्भूत्वैताः प्रजाः प्राजनयत्। -  मा.श. ८.२.२.७

*स वै पशुं प्रथममाह - अथ वयः - अथ च्छन्दः। वयसा च ह्येनांश्छन्दसा च परिगत्याऽऽत्मन्नधत्त, आत्मन्नकुरुत। तथैवैनानयमेतद्वयसा चैव च्छन्दसा च परिगत्याऽऽत्मन्धत्ते - आत्मन्कुरुते। - मा.श. ८.२.४.१६

*स एष पशुर्यदग्निः। सोऽत्रैव सर्वः कृत्स्नः संस्कृतः। तस्य याः पुरस्तादुपदधाति। शिरोऽस्य ताः। अथ या दक्षिणतश्चोत्तरतश्च - स आत्मा। अथ याः पश्चात् - तत्पुच्छम्। - मा.श. ८.२.४.१७

*द्वितीया चितिः :-अथ दक्षित उपधायोत्तरत उपदधाति। सार्द्धमयमात्मा जायताऽइति। अथ पश्चात्। पुच्छं ह्यन्ततो जायमानस्य जायते। - मा.श. ८.२.४.१८

*तानब्रवीत् - उप मेत, प्रति मऽएतद्धत्त, येन मे यूयमुदक्रमिष्ट इति। किं नस्ततो भविष्यतीति। युष्मद्देवत्यमेव मऽएतदात्मनो भविष्यतीति। तथेति। तदस्मिन्नेतदिन्द्राग्नी च विश्वकर्मा च प्रत्यदधुः। - मा.श. ८.३.१.६

*तद्यैषा मध्यमा स्वयमातृण्णा - एतदस्य तदात्मनः। तद्यदेतामत्रोपदधाति - यदेवास्यैषाऽऽत्मनः - तदस्मिन्नेतत्प्रतिदधाति। - मा.श. ८.३.१.७

*विश्वकर्मा त्वा सादयतु इति - - - अन्तरिक्षं यच्छान्तरिक्षं दृंहान्तरिक्षं मा हिंसीः इति। आत्मानं यच्छ, आत्मानं दृंह, आत्मानं मा हिंसीरित्येतत्। - मा.श. ८.३.१.९

*अथातः संस्कृतिरेव। या अमूरेकादशेष्टका उपदधाति। योऽसौ प्रथमोनुवाकः। तदन्तरिक्षम्। स आत्मा। तद्यत्ता एकादश भवन्ति। एकादशाक्षरा वै त्रिष्टुप्। - मा.श. ८.३.४.११

*स्तोमा इष्टकोपधानम् : तमब्रवीत् - उप मेहि, प्रति मऽएतद्धेहि - येन मे त्वमुदक्रमीरिति। किं मे ततो भविष्यतीति। त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति। तथेति। तदस्मिन्नेतद्वायुः प्रत्यदधात्। - मा.श. ८.४.१.७

*तद् या एता अष्टादश प्रथमाः - एतदस्य तदात्मनः। तद्यतेता अत्रोपदधाति - तदस्मिन्नेतत्प्रतिदधाति। - मा.श. ८.४.१.८

*स्पृदिष्टकोपधानम् : एतद्वै प्रजापतिः एतस्मिन्नात्मनः प्रतिहिते सर्वाणि भूतानि गर्भ्यभवत्~। तान्यस्य गर्भऽएव सन्ति पाप्मा मृत्युरगृह्णात्। - मा.श. ८.४.२.१

*ऋतव्येष्टकोपधानम् : तस्य यदूर्ध्वमन्तरिक्षाद्, अर्वाचीनं दिवः - तदस्यैषा चतुर्थी चितिः। तद्वस्य हेमन्त ऋतुः। तद्यदेते अत्रोपदधाति - यदेवास्यैते आत्मनः - तदस्मिन्नेतत्प्रतिदधाति। - मा.श. ८.४.२.१५ - १६

*एकादशभिरस्तुवत इति। दश प्राणाः, आत्मैकादशः। तेनैव तदस्तुवत। ऋतवोऽसृज्यन्त इति। - मा.श. ८.४.२.८

*त्रयोदशभिरस्तुवत इति। दश प्राणाः, द्वे प्रतिष्ठे, आत्मा त्रयोदशः। तेनैव तदस्तुवत। मासा असृज्यन्त। - मा.श. ८.४.३.९

*एकविंशत्याऽस्तुवत इति। दश हस्त्या अंगुलयो, दश पाद्या, आत्मैकविंशः, तेनैव तदस्तुवत। एकशफः पशवोऽसृज्यन्त इति। - मा.श. ८.४.३.१३

*त्रयोविंशत्याऽस्तुवत इति। दश हस्त्या अंगुलयो, दश पाद्याः, द्वे प्रतिष्ठे, आत्मा त्रयोविंशः, तेनैव तदस्तुवत। क्षुद्राः पशवोऽसृज्यन्त इति। - मा.श. ८.४.३.१४

*सप्तविंशत्याऽस्तुवत इति। दश हस्त्या अंगुलयो, दश पाद्याः, चत्वार्यङ्गानि, द्वे प्रतिष्ठे, आत्मा सप्तविंशः। तेनैव तदस्तुवत। द्यावापृथिवी व्यैतम् इति। - मा.श. ८.४.३.१६

*एकत्रिंशताऽस्तुवत इति। दश हस्त्या अङ्गुलयो, दश पाद्याः, दश प्राणाः, आत्मैकत्रिंशः। तेनैव तदस्तुवत। प्रजा असृज्यन्त इति। - मा.श. ८.४.३.१८

*त्रयस्त्रिंशताऽस्तुवत इति। दश हस्त्या अङ्गुलयो, दश पाद्याः, दश प्राणाः, द्वे प्रतिष्ठे, आत्मा त्रयस्त्रिंशः। तेनैव तदस्तुवत। भूतान्यशाम्यन् इति। - मा.श. ८.४.३.१९

*तथैवैतद्यजमान एतेन सप्तदशेन सम्वत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः प्रजनयति। ताः सृष्ट्वाऽऽत्मन्प्रपादयते। रेतःसिचोर्वेलया। - मा.श. ८.४.३.२०

*अथोऽएवं देवा उपादधत, इतरथाऽसुराः। ततो देवा अभवन्, पराऽसुराः। भवत्यात्मना, पराऽस्य द्विषन्भ्रातृव्यो भवति - य एवं वेद। - मा.श. ८.४.४.३

*अथ या मध्य उपदधाति - स आत्मा। ता रेतःसिचोर्वेलयोपदधाति। पृष्टयो वै रेतःसिचौ। मध्यमु पृष्टयः। मध्यतो ह्ययमात्मा। सर्वत उपदधाति। सर्वतोv ह्ययमात्मा। - मा.श. ८.४.४.८

*यद्वेवैता असपत्ना उपदधाति। एतद्वै प्रजापतिमेतस्मिन्नात्मनः प्रतिहिते सर्वतः पाप्मोपायतत। स एता इष्टका अपश्यदसपत्नाः। - मा.श. ८.५.१.६

*तद्यदेताभिः पाप्मानं सपत्नमपहते - तस्मादेता असपत्नाः। सर्वत उपदधाति। सर्वत एवैतत्पाप्मानं सपत्नमपहते। परार्ध उपदधाति। सर्वस्मादेवैतदात्मनः पाप्मानं सपत्नमपहते। - मा.श. ८.५.१.७

*रश्मिना सत्याय सत्यं जिन्व इति। एष वै रश्मिः। अन्नं रश्मिः। एतं च तद्रसं च सन्धायात्मन्प्रपादयते। - मा.श. ८.५.३.३

*अन्वित्या दिवा दिवं जिन्व इति। एष वाऽअन्वितिः। अन्नमन्वितिः। एतं च तद्रसं च संधायात्मन्प्रपादयते। तद् यद्यदेतदाह - तच्च तद्रसं च संधायात्मन्प्रपादयते। - मा.श. ८.५.३.३

*एतावान्वै सर्वो यज्ञः। यज्ञ उ देवानामात्मा। यज्ञमेव तद्देवा आत्मानं कृत्वैतस्मिन्नाके स्वर्गे लोकेऽसीदन्। तथैवैतद्यजमानो यज्ञमेवात्मानं कृत्वैतस्मिन्नाके स्वर्गे लोके सीदति। - मा.श. ८.६.१.१०

*पञ्चचूडेष्टकोपधानम् : यद्वेव नाकसत्पञ्चचूडा उपदधाति। आत्मा वै नाकसदो, मिथुनं पञ्चचूडाः। अर्धमु हैतदात्मनो - यन्मिथुनम्। यदा वै सह मिथुनेन। अथ सर्वः। - मा.श. ८.६.१.१२

*यद्वेव नाकसत्पञ्चचूडा उपदधाति। आत्मा वै नाकसदः, प्रजा पञ्चचूडाः। अतिरिक्तं वै तदात्मनो - यत्प्रजा। यदुवा अतिरिक्तं चूडः सः। - मा.श. ८.६.१.१३

*एकत्रिंशच्छन्दस्येष्टकोपधानम् : तस्य शिरो गायत्र्यः। आत्मा त्रिष्टुभः। अनूकं जगत्यः। पक्षौ पङ्क्तयः। - - - - मा.श. ८.६.२.३

*सोऽस्यैष सुकृत आत्मा। तद्यस्य हैतमेवं सुकृतमात्मानं कुर्वन्ति - एतं ह स सुकृतमात्मानमभिसम्भवति। अथ यस्य हैतमतोऽन्यथा कुर्वन्ति - दुष्कृतं ह तस्यात्मानं कुर्वन्ति। स ह स दुष्कृतमेवात्मानमभिसम्भवति। - मा.श. ८.६.२.१८

*अष्टगार्हपत्येष्टकोपधानम् : तं मध्य उपदधत। तदेतां राद्धिमात्मन्नदधत। मध्यतः। मध्यत एवैतदेतां राद्धिमात्मन्नदधत। तथैवैतद्यजमानो यद्गार्हपत्यमुपदधाति - एतामेवैतद्राद्धिमात्मन्धत्ते। - मा.श. ८.६.३.४

*तस्य द्यौरेव पञ्चमी चितिः। द्यौरस्य शिशिर ऋतुः। तद्यदेते अत्रोपदधाति - यदेवास्यैते आत्मनः - तदस्मिन्नेतत्प्रतिदधाति - मा.श. ८.७.१.७

*शिरोऽस्य शिशिर ऋतुः। तद्यदेते अत्रोपदधाति - यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति - मा.श. ८.७.१.८

*लोकम्पृणेष्टकोपधानम् : - - - एकस्थं तत् क्षत्रमेकस्थां श्रियं करोति। अथ या द्वितीया - मिथुनं तत्। अर्धमु हैतदात्मनो - यन्मिथुनम्। यदा वै सह मिथुनेन - अथ सर्वः, अथ कृत्स्नः। - मा.श. ८.७.२.३

*स वै यजुष्मतीरुपधाय लोकम्पृणया प्रच्छादयति। अन्नं वै यजुष्मत्य इष्टकाः, आत्मा लोकम्पृणा। अन्नं तदात्मना परिदधाति। तस्मादन्नमात्मना परिहितमात्मैव भवति। स वा आत्मन्नेव यजुष्मतीरुपदधाति, न पक्षपुच्छेषु। आत्मंस्तदन्नं दधाति। यदु वा आत्मन्नन्नं धीयते - तदात्मानमवति, तत्पक्षपुच्छानि। - - - - उभयीर्यजुष्मतीश्च लोकंपृणाश्चात्मन्नुपदधाति। तस्मादयमात्मा द्विगुणो बहुलतर इव लोकंपृणा एव पक्षपुच्छेषु। तस्मात्पक्षपुच्छानि तनीयांसीव। अनूचीश्च तिरश्चीश्चात्मन्नुपदधाति। अस्थीनि वा इष्टकाः। तस्मादिमान्यन्वञ्चि च तिर्यञ्चि चात्मन्नस्थीनि। - मा.श. ८.७.२.१०

*प्राणो वै स्वयमातृण्णा, आदित्यो लोकंपृणा। प्राणं तदादित्येन समिन्द्धे। तस्मादयमुष्णः प्राणः। तथा सर्वमात्मानं प्रच्छादयति। सर्वं तदात्मानमादित्येन समिन्द्धे। तस्मादयं सर्व एवात्मोष्णः। - मा.श. ८.७.२.११

*आत्मानमग्रे संछादयति। आत्मा ह्येवाग्रे सम्भवतः सम्भवति। अथ दक्षिणं पक्षम्। अथ पुच्छम्। - - - - - - - स एष प्राण एव - यल्लोकम्पृणा। तया सर्वमात्मानं प्रच्छादयति। सर्वस्मिंस्तदात्मन्प्राणं दधाति। तद्यद्धास्यैषाऽङ्गं नाभिप्राप्नुयात् - प्राणो हास्य तदङ्गं नाभिप्राप्नुयात् - - - -स वा आत्मन एवाधि पक्षपुच्छानि चिनोति। आत्मनो ह्येवाध्यङ्गानि प्ररोहन्ति। - मा.श. ८.७.२.१३

*आर्तम्वेतद्रूपं - यत्कृष्णम्। नेदार्तमात्मानमभिसंस्करवा इति। नाभिन्नां परास्येत्। नेदनार्तमात्मनो बहिर्धा करवाणीति। - मा.श. ८.७.२.१६

*पुरीषनिवपनम् : आत्मानमग्रे संछादयति। आत्मा ह्येवाग्रे सम्भवतः संभवति। अथ दक्षिणं पक्षम्। अथोत्तरम्। - - - -स एष प्राण एव - यत्पुरीषम्। तेन सर्वमात्मानं प्रच्छादयति। सर्वस्मिंस्तदात्मन् प्राणं दधाति। - मा.श. ८.७.३.५

*प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामन्। तस्य परमेष्ठी शिर आदायोत्क्रम्यातिष्ठत्। तमब्रवीत् - उप मेहि, प्रति म एतद्धेहि, येन मे त्वमुदक्रमीरिति। किं मे ततो भविष्यतीति। त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति। - - - -तद् यैषोत्तमा स्वयमातृण्णा - एतदस्य तदात्मनः। तद् यदेतामत्रोपदधाति - यदेवास्यैषाऽऽत्मनः - तदस्मिन्नेतत्प्रतिदधाति - मा.श. ८.७।.३.१६

*अथाध्यात्मम् - -- - - - -मांसं पुरीषम्। यत्प्रथमां चितिं पुरीषेण प्रच्छादयति - एतदस्य तदात्मनो मांसैः संछादयति। - - - - तस्मादिमे प्राणा अधस्तादसंछन्नाः। उपरिष्टात्तु प्रच्छादयति। एतदस्य तदात्मन उपरिष्टान्मांसैः संछादयति। तस्मादस्यैतदात्मन उपरिष्टान्मांसैः संछन्नं नावकाशते। - - - - अस्थि तन्मांसैः संछादयति। पुरीष उपदधाति, पुरीषेण प्रच्छादयति। एतदस्य तदात्मन उभयतो मांसैः संछादयति। तस्मादस्यैतदात्मन उभयतो मांसैः संछन्नं नावकाशते। - मा.श. ८.७.४.१९

*यद्वेव प्रत्यवरोहति। एतद्वा एनानेतत्प्रीणन्नन्ववैति। तत एवैतदात्मानमपोद्धरते - जीवात्वै। तथो हानेनात्मना सर्वमायुरेति। - मा.श. ९.१.१.३३

*अथ यानि त्रिंशत् - त्रिंशन्मासस्य रात्रयः - तन्मासस्य रात्रीराप्नोति। तदुभयानि संवत्सरस्याहोरात्राण्याप्नोति। अथ यानि पञ्चत्रिंशत् - स त्रयोदशो मासः। स आत्मा। त्रिंशदात्मा, प्रतिष्ठा द्वे, प्राणा द्वे, शिर एव पञ्चत्रिंशम्। - मा.श. ९.१.१.४३

*यान्यमूनि पञ्चविंशतिर्यजूंषि - अभितोऽशीतीः - स पञ्चविंश आत्मा। यत्र वा आत्मा - तदेव शिरः, तत्पक्षपुच्छानि। - मा.श. ९.१.१.४४

*अग्नीत्परिषिञ्चति। अग्निरेषः - यदाग्नीध्रः। नो वा आत्माऽऽत्मानं हिनस्ति। अहिंसायै। - मा.श. ९.१.२.४

*मयि तऽऊर्क् इति अपादत्ते। तदात्मन्नूर्जं धत्ते। - मा.श. ९.१.२.५

*यद्वेव विपल्ययते। एतद्वा एनमेतदन्ववैति। तत एवैतदात्मानमपोद्धरते। जीवात्वै। तथो हानेनात्मना सर्वमायुरेति। - मा.श. ९.१.२.७

*आत्मानमग्रे विकर्षति। आत्मा ह्येवाग्रे सम्भवतः सम्भवति। अथ दक्षिणं पक्षम्। अथ पुच्छम्। अथोत्तरम् - मा.श. ९.१.२.२९

*अभ्यात्मं पक्षपुच्छानि विकर्षति। अभ्यात्ममेव तच्छान्तिं धत्ते। परस्तादर्वाक्। - - - - अग्ने पावक रोचिषा इति दक्षिणं पक्षम्। स नः पावक दीदिवः इति पुच्छम्। - मा.श. ९.१.२.३०

*ते चेतयमाना एतानि सामान्यपश्यन्। तैरेनं पर्यगायन्। तैरेतमात्मानमनस्थिकममृतमकुर्वत। - मा.श. ९.१.२.३४

*वामदेव्यमात्मन्। प्राणो वै वामदेव्यम्। वायुरु प्राणः। सर्वेषामु हैष देवानामात्मा - यद्वायुः। वायुमेवास्यैतदात्मानं करोति। अथ आत्मानमेवास्यैतदनस्थिकममृतं करोति। - मा.श. ९.१.२.३८

*असौ वा आदित्यो हृदयम्। - - - - परिमण्डल एषः। परिमण्डलं हृदयम्। आत्मन् गायति। आत्मन् हि हृदयम्। निकक्षे। निकक्षे हि हृदयम्। - मा.श. ९.१.२.४०

*सर्वे हैते प्राणाः - योऽयमग्निश्चितः। स यदेतामत्रात्मनः परिदां न वदेत - अत्र हैवास्यैष प्राणान्वृञ्जीत। अथ यदेतामत्रात्मनः परिदां वदते - तथो हास्यैष प्राणान्न वृङ्क्ते। - मा.श. ९.२.१.१७

*यद्वेवाग्ना उत्सादयति। शिर एतद्यज्ञस्य - यत्प्रवर्ग्यः। आत्माऽयमग्निश्चितः। स यदन्यत्राग्नेरुत्सादयेद् - बहिर्धाऽस्माच्छिरो दध्यात्। अथ यदग्ना उत्सादयति - आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति। - मा.श. ९.२.१.२२

*प्राणः स्वयमातृण्णा, शिरः प्रवर्ग्यः, आत्माऽयमग्निश्चितः, शिरश्च तदात्मानं च प्राणेन सन्तनोति, सन्दधाति। - मा.श. ९.२.१.२३

*प्रवर्ग्योत्सादनविधिः :- अष्टौ प्राणाः, अष्टावङ्गानि, एतामभिसम्पदम्। समान्यां स्रुचि गृह्णीते। समाने ह्येवात्मन्नङ्गानि च प्राणाश्च भवन्ति। - मा.श. ९.२.२.६

*स एष प्राणः। प्राणमेवैतदात्मन्धत्ते। तदेतदायुः। आयुरेवैतदात्मन्धत्ते। - मा.श. ९.२.३.१६

*तद्यदेतमत्राहरन्ति - यैवैतेषां सप्तानां पुरुषाणं श्रीः, यो रसः, तमेतदूर्ध्वं समुदूहन्ति। तदस्यैतच्छिरः। आत्माऽयमग्निश्चितः। आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति। - मा.श. ९.२.३.५१

*वैश्वानरहोमः :- तदस्यैतच्छिरो वैश्वानरः। आत्माऽयमग्निश्चितः। आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति। - मा.श. ९.३.१.६

*एतद्वै देवा अब्रुवन् - केनेमान्कामान्प्रतिग्रहीष्याम इति। आत्मनैवेत्यब्रुवन्। यज्ञो वै देवानामात्मा। यज्ञ उ एव यजमानस्य। स यदाह - यज्ञेन कल्पन्ताम् इति। आत्मना मे कल्पन्तामित्येवैतदाह। - मा.श. ९.३.२.७

*तस्यै वा एतस्यै वसोर्धारायै। द्यौरेवात्मा, अभ्रमूधः, विद्युत्स्तनः, धारैव धारा। दिवोऽधि गामागच्छति। तस्यै गौरेवात्मा, ऊध एवोधः, स्तनः स्तनः, धारैव धारा। गोरधि यजमानम्। - मा.श. ९.३.३.१५

*तस्यै यजमान एवात्मा, बाहुरूधः, स्रुक् स्तनः, धारैव धारा। यजमानादधि देवान्। देवेभ्योऽधि गाम्। गोरधि यजमानम्। - मा.श. ९.३.३.१७

*अथ यानि पञ्चत्रिंशत्। स त्रयोदशो मासः। स आत्मा। त्रिंशदात्मा। - मा.श. ९.३.३.१८

* यानि पञ्चविंशतिः - स पञ्चविंश आत्मा। अथ यान्येकविंशतिः - तदेकविंशं पुच्छम्। - मा.श. ९.३.३.१९

*दैवो वाऽअस्यैष आत्मा, मानुषोऽयम्। अनेन हास्य मर्त्येनात्मनैतं दैवमात्मानमनुप्रसजन्ति - यं तथाऽभिषिञ्चन्ति। - मा.श. ९.३.४.१२

*तद् - यत्कृष्णाजिनमास्पृष्टं परिश्रितो भवति - तथो हास्यैष दैव आत्मा कृष्णाजिनेऽभिषिक्तो भवति। - मा.श. ९.३.४.१५

*अग्नौ हुत्वाऽथैनमभिषिञ्चति। दैवो वा अस्यैष आत्मा, मानुषोऽयम्। देवा उ वा अग्रे, अथ मनुष्याः। - मा.श. ९.३.४.१६

*राष्ट्रभृद्धोमः :- प्रजापतेर्विस्रस्तान्मिथुनान्युदक्रामन् - गन्धर्वाप्सरसो भूत्वा। तानि रथो भूत्वा पर्यगच्छत्। तानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत। तथैवैनान्ययमेतत्परिगत्यात्मन्धत्ते, आत्मन्कुरुते। - मा.श. ९.४.१.२

*असौ वा आदित्य एष रथः। एतद्वै तद्रूपं कृत्वा प्रजापतिरेतानि मिथुनानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत। तथैवैनान्ययमेतत्परिगत्यात्मन्धत्ते, आत्मन्कुरुते। उपरि धार्यमाणे। उपरि हि सः - य एतानि मिथुनानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत। - - - समानो हि सः - य एतानि मिथुनानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत। सर्वतः परिहारम्। सर्वतोv हि सः - य एतानि मिथुनानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत। - मा.श. ९.४.१.१५

*यस्यै वै देवतायै हविर्गृह्यते - सा देवता। न सा - यस्यै न गृह्यते। वारुण्यर्चा। स्वेनैवैनमेतदात्मना स्वया देवतया प्रीणाति। - मा.श. ९.४.२.१५

*वारुणीहोमः :- उरुशंस मा न आयुः प्रमोषीः इति। आत्मनः परिदां वदते। - मा.श. ९.४.२.१७

*सुत्याह कर्माणि : महान्त्सधस्थे ध्रुव आनिषत्तो नमस्तेऽअस्तु मा मा हिंसीः इति। आत्मनः परिदां वदते। तद्यन्मध्यमं यजुः - स आत्मा। अथ येऽअभितः - तौ पक्षौ। - मा.श. ९.४.४.५

*तद् यदग्नौ जुहोति - तदग्निमभिषिञ्चति। सोऽस्यैष दैव आत्मा सोमाभिषिक्तो भवति। अमृताभिषिक्तः। अथ भक्षयति। तदात्मानमभिषिञ्चति। सोऽस्यायमात्मा सोमाभिषिक्तो भवति, अमृताभिषिक्तः। अग्नौ हुत्वा - अथ भक्षयति। दैवो वा अस्यैष आत्मा, मानुषोऽयम्। - मा.श. ९.४.४.८

*यजमानव्रतमीमांसा : सर्वेषामु हैष देवानामात्मा - यदग्निः। तद्यदग्नावमृतमदधुः - तदात्मन्नमृतमदधत। ततो देवा अमृता अभवन्। - मा.श. ९.५.१.७

*तत् - प्रातरभिपद्य अभिषुत्य अग्नौ जुहोति। तदग्नावमृतं दधाति। अथ भक्षयति। तदात्मन्नमृतं धत्ते, सो ऽमृतो भवति। एतद्वै मनुष्यस्यामृतत्वम् - यत् सर्वमायुरेति। तथो हानेनात्मना सर्वमायुरेति। अग्नौ हुत्वा - अथ भक्षयति। दैवो वा अस्यैष आत्मा, मानुषोऽयम्। देवा उ वा अग्रे, अथ मनुष्याः। - मा.श. ९.५.१.१०

*यत्समस्थापयन् - तत्सर्वं सत्यमाप्नुवन्। ततोऽसुरा अपपुप्रुविरे। ततो देवा अभवन्, पराऽसुराः। भवत्यात्मना, पराऽस्य द्विषन्भ्रातृव्यो भवति - य एवं वेद। - मा.श. ९.५.१.२७

*एकादशाक्षरा वै त्रिष्टुप्। त्रैष्टुभ इन्द्रः। इन्द्रो यज्ञस्यात्मा। - मा.श. ९.५.१.३३

*चित्याग्नेरुपस्थानम् : नाम कृत्वाऽथैनमुपतिष्ठते। सर्वेण वा एष एतमात्मना चिनोति। स यदेतामत्रात्मनः परिदां न वदेत - अत्र हैवास्यैष आत्मानं वृञ्जीत। अथ यदेतामत्रात्मनः परिदां वदते - तथो हास्यैष आत्मानं न वृङ्क्ते। - मा.श. ९.५.१.५३

*चित्युपस्थानम् : अश्याम तं काममग्ने तवोती इति। - - - एतद्वै देवाः षडृचेन पाप्मानमपहत्यैकया कामवत्यैकधाऽन्ततः सर्वान्कामानात्मन्नकुरुत। - मा.श. ९.५.२.७

*- - -ताञ्छुष्यतोऽन्वस्य च्छन्दांसि शुष्यन्ति। छन्दांस्यनु लोकः। लोकमन्वात्मा। आत्मानमनु प्रजा पशवः। - मा.श. ९.५.२.१२

*य एतानि परस्मै न करोति। अथैष ह वाऽअस्य दैवोऽमृत आत्मा। स य एतानि परस्मै करोति - एतं ह स दैवमात्मानं परस्मै प्रयच्छति। अथ शुष्क एव स्थाणुः परिशिष्यते - मा.श. ९.५.२.१३

* स होवाच - किं नु लोक्यम्, किमलोक्यम्। आत्मा वै यज्ञस्य यजमानः, अङ्गान्यृत्विजः। यत्र वा आत्मा - तदङ्गानि। यत्रो अङ्गानि - तदात्मा - मा.श. ९.५.२.१६

*- - - -अग्निमेव पश्यन्ति। आत्मा ह्यग्निः। तदेनमेतेऽउभे रसो भूत्वाऽपीतः। ऋक् च साम च। तदुभे ऋक्सामे यजुरपीतः। स एष मिथुनोऽग्निः। प्रथमा च चितिर्द्वितीया च। तृतीया च चतुर्थी च। अथ पञ्चम्यै चितेर्यश्चितेऽग्निर्निधीयते - तन्मिथुनम्। मिथुन उ एवायमात्मा। - मा.श. १०.१.१.७

*दन्ताः इति पुमांसः, जिह्वेति स्त्री। सर्व एव मिथुनः। सोऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति। - - - -वागेवेयं योऽयमग्निश्चितः। - - - - प्राणो वै वाचो वृषा। प्राणो मिथुनम्। वाग्वेवायमात्मा। अथ य आत्मन् प्राणः - तन्मिथुनम्। सोऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति। - मा.श. १०.१.१.९

*य एवमेतौ मिथुनौ - आत्मानं चाग्निं च वेद। अन्नं ह त्वेवायमात्मा। दक्षिणाऽन्नं वनुते यो न आत्मा इति ह्यप्यृषिणाऽभ्युक्तम्। - मा.श. १०.१.१.१०

*प्रजापतिरिमाँल्लोकानैप्सत्। स एतं वयोविधमात्मानमपश्यत्। अग्निं तं व्यधत्त। तेनेमं लोकमाप्नोत्। स द्वितीयं वयोविधमात्मानमपश्यत्। महाव्रतं तद्व्यधत्त। तेनान्तरिक्षमाप्नोत्। स तृतीयं वयोविधमात्मानमपश्यत्। महदुक्थं तद्व्यधत्त। तेन दिवमाप्नोत्। - मा.श. १०.१.२.१

*आत्मैवाग्निः। प्राणो महाव्रतम्। वाङ्महदुक्थम्। तस्मादेतानि सर्वाणि सहोपेयात्। सह ह्यात्मा प्राणो वाक्। तद्यदग्निः प्रथमश्चीयते। आत्मा हि प्रथमः सम्भवतः सम्भवति। - मा.श. १०.१.२.४

*शिर एवाग्निः। आत्मा महदुक्थम्। तस्मादेतानि सर्वाणि सहोपेयात्। सह हि शिरः प्राण आत्मा। तद्यदग्निः प्रथमश्चीयते। शिरो हि प्रथमं जायमानस्य जायते। तस्माद्यत्रैतानि सर्वाणि सह क्रियन्ते। महदेवोक्थमातमां ख्यायते। आत्मा हि महदुक्थम्। - मा.श. १०.१.२.५

*तयोर्वा एतयोः पञ्चदशसप्तदशयोर्द्वात्रिंशत्स्तोत्रियाः - ततो याः पञ्चविंशतिः, स पञ्चविंश आत्मा। अथ याः सप्तातियन्ति, ता परिमादः। - मा.श. १०.१.२.८

*- - - -अशीतिभिर्हि महदुक्थमाख्यायते। अथ यानि पञ्चचत्वारिंशत्। ततो यानि पञ्चविंशतिः। स पञ्चविंश आत्मा। यत्र वा आत्मा तदेव शिरः। तत्पक्षपुच्छानि। - मा.श. १०.१.२.९

*एवमस्यैताभ्याममृताभ्यां तनूभ्यामेतां मर्त्यां तनूं परिगृह्यामृतामकुर्वन् - इष्टकाचितिभ्यां पुरीषचितिम्। ततो वै प्रजापतिरमृतोऽभवत्~। तथैवैतद्यजमान एतममृतमात्मानं कृत्वा सोऽमृतो भवति। - मा.श. १०.१.३.७

*तस्य प्राणा एवामृता भवन्ति। शरीरं मर्त्यम्। स एतेन कर्मणैतया ऽऽवृतैकधाऽजरममृतमात्मानं कुरुते। - मा.श. १०.१.४.१

*यावानग्निर्यावत्यस्य मात्रा तावतैव तत्प्रजापतिरेकधाऽजरममृतमात्मानमकुरुत। तथैवैतद्यजमान एकधाऽजरममृतमात्मानं कुरुते। - मा.श. १०.१.४.८

*रूपमेव तत्प्रजापतिर्हिरण्मयमन्तत आत्मनोऽकुरुत। तद्यदन्ततः - तस्मादिदमन्त्यमात्मनो रूपम्। तस्मादाहुः - हिरण्मयः प्रजापतिरिति। तथैवैतद्यजमानो रूपमेव हिरण्मयमन्तत आत्मनः कुरुते। - मा.श. १०.१.४.९

*सर्वे वै पशवः प्रजापतिः - पुरुषः, अश्वः, गौः, अविः, अजः। स एतै रूपैर्नाशक्नोत्। स एतं वयोविधमात्मानमपश्यत्। अग्निं तं व्यधत्त। - मा.श. १०.२.१.१

*सप्तपुरुषो ह्यं पुरुषः। यत् चत्वार आत्मा, त्रयः पक्षपुच्छानि। - मा.श. १०.२.२.५

*तदाहुः - कथमेष सप्तविध एतया वेद्या सम्पद्यत इति। दश वा इमे पुरुषे प्राणाः, चत्वार्यङ्गानि, आत्मा पञ्चदशः। - - - पाङ्क्तो वै पुरुषः - लोम, त्वग्, मांसम्, अस्थि, मज्जा। पाङ्क्ता उ इयं वेदिः - चतस्रो दिशः, आत्मा पञ्चमी। एवमेष सप्तविध एतया वेद्या संपद्यते। - मा.श. १०.२.३.५

*अथाग्नेर्विधाः - अष्टाविंशतिः प्राञ्चः पुरुषाः। अष्टाविंशतिस्तिर्यञ्चः - स आत्मा। चतुर्दश पुरुषा दक्षिणः पक्षः। - - - -। मा.श. १०.२.३.११

*अथ त्रिपुरुषां रज्जुं मिमीते। तां सप्तधा समस्यति। तस्यै चतुरो भागानात्मन्नुपदधाति। त्रीन्पक्षपुच्छेषु। - मा.श. १०.२.३.१२

*अथो आहुः - प्रजापतिरेवात्मानं विधाय तस्य यत्र - यत्र न्यूनमासीत्तदेतैः समापूरयत। तेन उ एवापि सम्पन्न इति। - मा.श. १०.२.३.१६

*सप्तविधो वा अग्रे प्रजापतिरसृज्यत। स आत्मानं विदधान ऐत। स एकशतविधेऽतिष्ठत। - मा.श. १०.२.३.१८

*सोऽयं संवत्सरः प्रजापतिरकामयत - अग्निं सर्वान्कामानात्मानमभिसंचिन्वीयेति। स एकशतधाऽऽत्मानं व्यधत्त। - मा.श. १०.२.४.१

*एकशतधा वा असावादित्यो विहितः - सप्तस्वृतुषु, सप्तसु स्तोमेषु, सप्तसु पृष्ठेषु - - - -। तथैवैतद्यजमान एकशतधाऽऽत्मानं विधायैतस्मिन्त्सर्वस्मिन्प्रतितिष्ठति। - मा.श. १०.२.४.५

*सप्तविधो वा अग्रे प्रजापतिरसृज्यत। स एतमेकशतधाऽऽत्मानं विहितमपश्यत्। प्राणभृत्सु पञ्चाशदिष्टकाः, पञ्चाशद्यजूंषि, तच्छतम्। सादनं च सूददोहाश्चैकशततमे।- - - - स एतेनैकशतविधेनात्मनेमां जितिमजयत्। इमां व्यष्टिं व्याश्नुत। - मा.श. १०.२.४.८

*त(देवाः) एताः पुरोऽपश्यन्नुपसदः। इमानेव लोकान्। इमे वै लोकाः पुरः। ताः प्रापद्यन्त। ताः प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत। तथैवैतद्यजमान एताः पुरः प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते। - मा.श. १०.२.५.१

*त(देवाः) एतान्वज्रानपश्यन्नुपसदः। वज्रा वा उपसदः - तान्प्रापद्यन्त। तान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत। - - - - मा.श. १०.२.५.२

*तद् यावान्वासन्तिक ऋतौ कामः - तं तत्सर्वमात्मानमभिसञ्चिनुते। - मा.श. १०.२.५.९

*तद् यावान्ग्रैष्म ऋतौ कामः - तं तत्सर्वमात्मानमभिसञ्चिनुते। - मा.श. १०.२.५.१०

*तद्यावान्वार्षिक ऋतौ कामः - तं तत्सर्वमात्मानमभिसञ्चिनुते - मा.श. १०.२.५.११

*तद् यावाञ्छारद ऋतौ कामः - तं तत्सर्वमात्मानमभिसञ्चिनुते - मा.श. १०.२.५.१२

*तद्यावान्हैमन्तिक ऋतौ कामः - तं तत्सर्वमात्मानमभिसञ्चिनुते - मा.श. १०.२.५.१३

*तद् यावाञ्छैशिर ऋतौ कामः - तं तत्सर्वमात्मानमभिसञ्चिनुते - - - -तद् यावान्द्वादशसु मासेषु कामः षट्स्वृतुषु। तं तत् सर्वमात्मानमभिसञ्चिनुते। - मा.श. १०.२.५.१४

*तद् यावांस्त्रयोदशसु मासेषु कामः सप्तस्वृतुषु। तं तत्सर्वमात्मानमभिसञ्चिनुते। - मा.श. १०.२.५.१५

*अथाध्यात्मम् - पञ्चमाश्चतुर्विधा अङ्गुलयः, द्वे कल्कुषी, दोः, - - - - एवमिमानीतराण्यङ्गानि। ताः शतं विधाः। आत्मैवैकशततमी विधा। - मा.श. १०.२.६.१४

*विद्यया हैव तमेवं विदाप्नोति। सर्वैर्हि यज्ञैरात्मानं सम्पन्नं विदे। - मा.श. १०.२.६.१५

*न्यूनाक्षरा छन्द आपो देवतोनातिरिक्तानि। सैषाऽऽत्मविद्यैव। एतन्मयो हैवैता देवता एतमात्मानमभिसम्भवति। - मा.श. १०.३.२.१३

*विद्यया हैवास्यैष आत्मन्नग्निरर्कश्चितो भवति - मा.श. १०.३.४.५

*अयमेवाकाशो जूः। योऽयमन्तरात्मन्नाकाशः। एतं ह्याकाशमनु जवते। तदेतद्यजुः प्राणश्चाकाशश्च यच्च जूश्च। - मा.श. १०.३.५.५

*मन एव पुरः। मनो हि प्रथमं प्राणानाम्। चक्षुरेव चरणम्। चक्षुषा ह्ययमात्मा चरति। - मा.श. १०.३.५.७

*तस्माद्यदाऽन्नस्य तृप्यति। अथ स गत - इव मन्यते। आनन्द एवास्य विज्ञानमात्मा। आनन्दात्मानो हैव सर्वे देवाः। - मा.श. १०.३.५.१३

*एतद्ध स्म वै तद्विद्वान्प्रियव्रतो रौहिणायन आह - वायुं वान्तम्। आनन्दस्त आत्मा। इतो वा वाहि, इतो वेति। स ह स्म तथैव वाति। तस्माद्यां देवेष्वाशिषमिच्छेद् - एतेनैवोपतिष्ठेत - आनन्दो वा आत्मा, असौ मे कामः, स मे समृध्यताम् इति। - मा.श. १०.३.५.१४

*योनिर्वा उखा। तस्मा एतत्सम्वत्सरेऽन्नं समस्कुर्वन्। योऽयमग्निश्चितः। तदात्मना पर्यदधुः। तदात्मना परिहितमात्मैवाभवत्~। तस्मादन्नमात्मना परिहितमात्मैव भवति। तथैवैतद्यजमान आत्मानमुखायां योनौ रेतोभूतं सिञ्चति। योनिर्वा उखा - तस्मा एतत्संवत्सरेऽन्नं संस्करोति। योऽयमग्निश्चितः। तदात्मना परिदधाति। तदात्मना परिहितमात्मैव भवति। तस्मादन्नमात्मना परिहितमात्मैव भवति। - - - - - इदं षट्-चितिकमन्नं कृत्वाऽस्मा अपिदधात्यात्मम्मितम्। यदु वा आत्मसंमितमन्नं तदवति। तन्न हिनस्ति। - मा.श. १०.४.१.१ - ३

*संवत्सरो वै प्रजापतिः अग्निः। सोमो राजा चन्द्रमाः। स ह स्वयमेवात्मानं प्रोचे - यज्ञवचसे राजस्तंबायनाय - - - - मा.श. १०.४.२.१

*स हेक्षां चक्रे। कथं न्वहमिमानि सर्वाणि भूतानि पुनरात्मन्नावपेय। पुनरात्मन्दधीय कथं न्वहमेवैषां सर्वेषां भूतानां पुनरात्मा स्यामिति। स द्वेधाऽऽत्मानं व्यौहत् - षष्टिश्च त्रीणि च शतान्यन्यतरस्येष्टका अभवन्। एवमन्यतरस्य। स न व्याप्नोत्। त्रीनात्मनोऽकुरुत। - - - चतुर आत्मनोऽकुरुत। - - --- - - चतुर्विंशतिमात्मनोऽकुरुत - त्रिंशदिष्टकान्। सोऽत्रावतिष्ठत - पञ्चदशे व्यूहे। - - - - अथ यच्चतुर्विंशतिमात्मनोऽकुरुत - तस्माच्चतुर्विंशत्यर्धमासः संवत्सरः। स एतैश्चतुर्विंशत्या त्रिंशदिष्टकैरात्मभिर्न व्यभवत्~। स पञ्चदशाह्नो रूपाण्यपश्यदात्मनस्तन्वो मुहूर्त्तान् - लोकम्पृणाः। - मा.श. १०.४.२.३-१८

*अथ सर्वाणि भूतानि पर्यैक्षत्। स त्रय्यामेव विद्यायां सर्वाणि भूतान्यपश्यत्। अत्र हि सर्वेषां छन्दसामात्मा। सर्वेषां स्तोमानाम्। सर्वेषां प्राणानाम्। सर्वेषां देवानाम्। - - - त्रय्यां वाव विद्यायां सर्वाणि भूतानि। हन्त त्रयीमेव विद्यामात्मानमभिसंस्करवा इति। - मा.श. १०.४.२.२१

*स एषु त्रिषु लोकेषूखायां योनौ रेतोभूतमात्मानमसिञ्चत् - छन्दोमयम्, स्तोममयम्, प्राणमयम्, देवतामयम्। तस्यार्धमासे प्रथमा आत्मा समस्क्रियत। दवीयसि परः। - मा.श. १०.४.२.२६

*तद् यत्परिश्रितमुपाधत्त - तद्रात्रिमुपाधत्त। - - - एवमेतां त्रयी विद्यामात्मन्नावपत। आत्मन्नकुरुत। सोऽत्रैव सर्वेषां भूतानामात्माऽभवत्~ - छन्दोमयः, स्तोममयः, प्राणमयः, देवतामयः। स एतन्मय एव भूत्वोर्ध्व उदक्रामत्। स यः स उदक्रामद् - एष स चन्द्रमाः। तस्यैषा प्रतिष्ठा य एष तपति, एतस्मादेवाध्यचीयत। एतस्मिन्नध्यचीयत। आत्मन एवैनं तन्निरमिमीत। आत्मनः प्राजनयत्। - मा.श. १०.४.२.२७

*यथैव तत्प्रजापतिरेषु त्रिषु लोकेषूखायां योनौ रेतोभूतमात्मानमसिञ्चत् - एवमेवैष एतदात्मानमुखायां योनौ रेतोभूतं सिञ्चति - छन्दोमयम्, स्तोममयम्, प्राणमयम्, देवतामयम्। तस्यार्द्धमासे प्रथम आत्मा संस्क्रियते, दवीयसि परः - मा.श. १०.४.२.२९

*मुहूर्ताननु पञ्चदशाशीतीः। एवमेतां त्रयी विद्यामात्मन्नावपते, आत्मन् कुरुते - - - - -- मा.श. १०.४.२.३०

*तस्यैषा प्रतिष्ठा - य एष तपति - एतस्माद्वेवाधिचीयते। एतस्मिन्नधिचीयते, आत्मन एवैनं तन्निर्मिमीते, आत्मनः प्रजनयति। स यदैवंविदस्माल्लोकात्प्रैति - अथैतमेवात्मानमभिसम्भवति - - - - मा.श. १०.४.२.३१

*शाट्यायनिरु ह स्माह सम्वत्सर एवाग्निः - तस्य वसन्तः शिरः, ग्रीष्मो दक्षिणः पक्षः, वर्षा उत्तरः, शरदृतुर्मध्यम्, आत्मा हेमन्तशिशिरावृतू। - मा.श. १०.४.५.२

*इम एव लोकास्तिस्र स्वयमातृण्णावत्यश्चितयः, यजमानश्चतुर्थी, सर्वे कामाः पञ्चमी। इमांश्च लोकान्त्संस्कुर्वे। आत्मानं च, सर्वांश्च कामानित्येव विद्यादिति। - मा.श. १०.४.५.३

*सोऽयमात्मा त्रेधा विहित एव। सोऽनेन त्रेधा विहितेनात्मनैतं त्रेधा विहितं दैवममृतमाप्नोति। ता उ सर्वा इष्टका इत्येवाचक्षते - नेष्टक इति - मा.श. १०.५.१.३

*तद् यत्किंचार्वाचीनमादित्यात् - सर्वं तन्मृत्युनाऽऽप्तम्। स यो हैनमतोऽर्वाचीनं चिनुते - मृत्युना हैनं स आप्तं चिनुते। मृत्यवे ह स आत्मानमपि दधाति। - - - - -तद् यत्पुष्करपर्णमुपधायाग्निं चिनोति - एतस्मिन्नेवैतदमृतऽऋङ्मयम्, यजुर्मयम्, साममयमात्मानं संस्कुरुते। - मा.श. १०.५.१.५

*मृत्योरात्मा विवस्वति इति। एतस्मिन् हि मण्डल एतस्य पुरुषस्यात्मा। - मा.श. १०.५.२.४

*स एष एव मृत्युः - य एष एतस्मिन्मण्डले पुरुषः। यश्चायं दक्षिणऽक्षन्पुरुषः स एष एवंविद आत्मा भवति। स यदैवंविदस्माल्लोकात्प्रैति। अथैतमेवात्मानमभिसम्भवति। सोऽमृतो भवति, मृत्युर्ह्यस्यात्मा भवति। - मा.श. १०.५.२.२३

*मानसाग्न्युपासनं : तदिदं मनः सृष्टमाविरबुभूषत्। निरुक्ततरं मूर्ततरं तदात्मानमन्वैच्छत्। तत्तपोऽतप्यत। - मा.श. १०.५.३.३

*सेयं वाक्सृष्टाऽऽविरबुभूषत् - निरुक्ततरा, मूर्ततरा। साऽऽत्मानमन्वैच्छत्। सा तपोऽतप्यत् ॥ सा प्रामूर्च्छत्। सा षट्-त्रिंशतं सहस्राण्यपश्यत् - आत्मनोऽग्नीन्। - मा.श. १०.५.३.४

*सोऽयं प्राणः सृष्टऽ आविरबुभूषत् - निरुक्ततरः, मूर्ततरः। स आत्मानमन्वैच्छत्। स तपोऽतप्यत। स प्रामूर्च्छत्। स षट्-त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीन्, अर्कान्प्राणमयान्, प्राणचितः - मा.श. १०.५.३.५

*तदिदं चक्षुः सृष्टमाविरबुभूषत् - निरुक्ततरम्, मूर्ततरम्। तदात्मानमन्वैच्छत्। - - - -तत्षट्-त्रिंशतं सहस्राण्यपश्यत् - आत्मनोऽग्नीन्, अर्कांश्चक्षुर्मयांश्चक्षुश्चितः - मा.श. १०.५.३.६

*तदिदं श्रोत्रं सृष्टमाविरबुभूषत् - निरुक्ततरम्, मूर्ततरम्। तदात्मानमन्वैच्छत्। तत् तपोऽतप्यत। तत्प्रामूर्च्छत्। तत् षट्-त्रिंशतं सहस्राण्यपश्यत् - आत्मनोऽग्नीन्। - मा.श. १०.५.३.६

*तदिदं श्रोत्रं सृष्टमाविरबुभूषत् - निरुक्ततरम्, मूर्ततरम्। तदात्मानमन्वैच्छत्। - - - तत् षट्-त्रिंशतं सहस्राण्यपश्यत् - आत्मनोऽग्नीन्। - मा.श. १०.५.३.७

*तदिदं कर्म सृष्टमाविरबुभूषत्। निरुक्ततरम्, मूर्ततरम्। तदात्मानमन्वैच्छत्। तत्तपोऽतप्यत। - - -तत् षट्-त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीन्, अर्कान्कर्ममयान्कर्मचितः - मा.श. १०.५.३.९

*सोऽयमग्निः सृष्ट आविरबुभूषत् - निरुक्ततरः, मूर्ततरः। स आत्मानमन्वैच्छत्। स तपोऽतप्यत्। - - स षट्-त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीन्। - मा.श. १०.५.३.११

*अथ यान्यधि षट्-त्रिंशत् - स त्रयोदशो मासः। स आत्मा। त्रिंशदात्मा। प्रतिष्ठा द्वे। प्राणा द्वे। शिर एव षट्-त्रिंश्यौ। - मा.श. १०.५.४.५,

*अथ या अमूः षट्-त्रिंशदिष्टका अतियन्ति। यः स त्रयोदशो मास आत्मा। अर्धमासाश्च ते मासाश्च। - मा.श. १०.५.४.१०

*आत्मा ह त्वेवैषोऽग्निश्चितः - तस्यास्थीन्येव परिश्रितः। ताः षष्टिश्च त्रीणि च शतानि भवन्ति। - मा.श. १०.५.४.१२

*अथ या अमूः षट्-त्रिंशदिष्टका अतियन्ति - यः स त्रयोदशो मास आत्मा - प्राणः सः। तस्य त्रिंशदात्मन्विधाः - प्रतिष्ठायां द्वे, प्राणेषु द्वे, शीर्षन् द्वे। - - - - अथैतत्त्रयं येनायमात्मा प्रच्छन्नः - लोम, त्वङ्, मांसमिति तत्पुरीषम्। - - - --अथ यदात्मेत्याख्यायते - तत्सर्वोऽग्निर्लोकम्पृणामभिसम्पद्यते। - मा.श. १०.५.४.१२

*अथ या अमूः षट्-त्रिंशदिष्टका अतियन्ति, यः स त्रयोदशो मासः, आत्माऽयमेव स योऽयं हिरण्मयः पुरुषः। - मा.श. १०.५.४.१४

*यश्चितेऽग्निर्निधीयते - सा पञ्चत्रिंशी लोकम्पृणायै। यजुः षट्-त्रिंशी। सोऽस्यैष सर्वस्यान्तमेवात्मा। स एष सर्वासामपां मध्ये स एष सर्वैः कामैः सम्पन्नः। - मा.श. १०.५.४.१५

*आत्मा त्वा एष वैश्वानरस्य आत्मा त्वाऽहास्यद्यदि ह नागमिष्य इति। आत्मा ते विदितोऽभविष्यद्यदि ह नागमिष्य इति वा। - मा.श. १०.६.१.६

*शाण्डिल्याग्नि उपासनं : स आत्मानमुपासीत। मनोमयं प्राणशरीरं भारूपमाकाशात्मानं, कामरूपिणं, - - - यथा व्रीहिर्वा, यवो वा, श्यामाको वा, श्यामाकतण्डुलो वा। एवमयमन्तरात्मन्पुरुषो हिरण्मयः। - - - - ज्यायान्त्सर्वेभ्यो भूतेभ्यः। स प्राणस्यात्मा। एष मे आत्मा। एतमित आत्मानं प्रेत्याभिसम्भविष्यामीति यस्य स्यात्। - मा.श. १०.६.३.२

*उषा वा अश्वस्य मेध्यस्य शिरः, - - - -व्यात्तमग्निर्वैश्वानरः, संवत्सर आत्मा। - मा.श. १०.६.४.१

*अशनाययाऽशनाया हि मृत्युस्तन्मनो ऽकुरुत - आत्मन्वी स्यामिति। सोऽर्चन्नचरत्। - मा.श. -१०.६.५.१

*स त्रेधाऽऽत्मानं व्याकुरुत - आदित्यं तृतीयम्, वायुं तृतीयम्। - - -मा.श. १०.६.५.३

*सोऽकामयत - द्वितीयो म आत्मा जायेतेति। स मनसा वाचं मिथुनं समभवत्~ - अशनाया मृत्युः। - मा.श. १०.६.५.४

*स तथा वाचा, तेनात्मनेदं सर्वमसृजत - यदिदं किं च ऋचः, यजूंषि, सामानि, - - - - मा.श. १०.६.५.५

*सोऽकामयत - मेध्यं म इदं स्यात् - आत्मन्वी अनेन स्यामिति। ततोऽश्वः समभवत्~। - मा.श. १०.६.५.७

*तमनवरुध्द्येवामन्यत। तं संवत्सरस्य परस्तादात्मानऽआलभत। - मा.श. १०.६.५.८

*आत्मा वै प्रजा पशवः। रोहिण्याऽऽत्मन्येवैतत्प्रजायां पशुषु प्रतितिष्ठति। - मा.श. ११.१.१.७

*सोऽर्चन् श्राम्यंश्चचार प्रजाकामः। स आत्मन्येव प्रजातिमधत्त। स आस्येनैव देवानसृजत। - मा.श. ११.१.६.७

*स यदेवैतामात्मन्नाहुतिं जुहोति। तेनो एतेषां मेधानां नाश्नाति। - मा.श. ११.१.७.३

*अथ देवा अन्योन्यस्मिन्नेव जुह्वतश्चेरुः। तेभ्यः प्रजापतिरात्मानं प्रददौ। यज्ञो हैषामास। - - - - - - स देवेभ्य आत्मानं प्रदायाथैतमात्मनः प्रतिमामसृजत यद्यज्ञम्। तस्मादाहुः प्रजापतिर्यज्ञ इति। आत्मनो ह्येतं प्रतिमामसृजत। - मा.श. ११.१.८.३

*स एतेन यज्ञेन देवेभ्य आत्मानं निरक्रीणीत। स यत् व्रतमुपैति। यथैव तत्प्रजापतिर्देवेभ्य आत्मानं प्रायच्छत्। एवमेवैष एतद्देवेभ्य आत्मानं प्रयच्छति। - मा.श. ११.१.८.४

*अथ यद्यज्ञं तनुते। यज्ञेनैवैतद्देवेभ्य आत्मानं निष्क्रीणीते। - मा.श. ११.१.८.५

*एष ह वै यजमानस्यामुष्मिन् लोक आत्मा भवति। यद्यज्ञः। स ह सर्वतनूरेव यजमानोऽमुष्मिन् लोके संभवति। - मा.श. ११.१.८.६

*ता वा एता एकादश सामिधेनीरन्वाह। दश वा इमे पुरुषे प्राणाः। आत्मैकादशः। यस्मिन्नेते प्राणाः प्रतिष्ठिताः। - मा.श. ११.२.१.२

*- - लोकेषु प्रतिष्ठितेषु पशून्प्रतिष्ठापयति। पशुषु प्रतिष्ठितेष्वात्मानं प्रतिष्ठापयति। एवमेष पुरुषः पशुषु प्रतिष्ठितः। - मा.श. ११.२.२.४

*स एतं मृत्युमतिमुच्यते। यज्ञो वा अस्यात्मा भवति। - - - - अथ यामेतामाहुतिं जुहोति। एषा ह वा अस्याहुतिरमुष्मिन् लोक आत्मा भवति। स यदैवं विदस्माल्लोकात्प्रैति। अथैनमेषाऽऽहुतिरेतस्य पृष्ठे सत्याह्वयति। एहि, अयं वै त इहात्माऽस्मीति। - मा.श. ११.२.२.६

*तदाहुः - आत्मायाजी श्रेया३न् देवयाजी३ इति। आत्मयाजीति ह ब्रूयात्। स ह वा आत्मयाजी - यो वेदेदं मेऽनेनाङ्गं संस्क्रियते, इदं मेऽनेनाङ्गमुपधीयत इति। - मा.श. ११.२.६.१३

*चतुर्द्धा भूतानि प्रविशति। अग्निं पदा। मृत्युं पदा। आचार्यं पदा। आत्मन्येवास्य चतुर्थः पादः परिशिष्यते। - मा.श. ११.३.३.३

*स यदग्नये समिधमाहरति। य एवास्याग्नौ पादः, तमेव तेन परिक्रीणाति। तं संस्कृत्यात्मन् धत्ते। स एनमाविशति। अथ यदात्मानं दरिद्रीकृत्येवाहीर्भूत्वा भिक्षते। य एवास्य मृत्यौ पादः, तमेव तेन परिक्रीणाति। सं संस्कृत्यात्मन् धत्ते। स एनमाविशति। अथ यदाचार्यवचसं करोति। यदाचार्याय कर्म करोति। य एवास्याचार्ये पादः, तमेव तेन परिक्रीणाति। तं संस्कृत्यात्मन् धत्ते। - मा.श. ११.३.३.४-६

*प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे। स इममेव दक्षिणं बाहुं वैश्वदेवं हविरकुरुत। तस्यायमेवाङ्गुष्ठ आग्नेयं हविः। इदं सौम्यम्। इदं सावित्रम्। - मा.श. ११.५.२.१

*- - -द्वयोः प्रणयंति। तस्माद् द्वाभ्यामेति। एवमु ह प्रजापतिश्चातुर्मास्यैरात्मानं विदधे। तथो एवैवंविद्यजमानश्चातुर्मास्यैरात्मानं विधत्ते। - मा.श. ११.५.२.८

*उपनयनधर्माभिधायकं ब्राह्मणम् : ब्रह्मचर्यमागाम इत्याह। ब्रह्मण एवैतदात्मानं निवेदयति। ब्रह्मचार्यसानि इत्याह। ब्रह्मण एवैतदात्मानं परिददाति। - मा.श. ११.५.४.१

*प्रजापतिर्ह वा एष यदंशुः। सोऽस्यैष आत्मैव। आत्मा ह्ययं प्रजापतिः। वागेवादाभ्यः। - मा.श. ११.५.८.८

*स यदंशुं गृहीत्वाऽदाभ्यं गृह्णाति। आत्मानमेवास्यैतत्संस्कृत्य तस्मिन्नेतां वाचं प्रतिष्ठापयति। - मा.श. ११.५.९.१

*कतमे रुद्रा इति। दशेमे पुरुषे प्राणाः, आत्मैकादशः। ते यदाऽस्मान्मर्त्याच्छरीरादुत्क्रामन्ति। अथ रोदयंति। - मा.श. ११.६.३.७

*पशुबन्धः :- यजमानमनु गृहाश्च पशवश्च। आयुष्यो ह वा अस्यैष आत्मनिष्क्रयणो भवति। - - - स यत्पशुबन्धेन यजते। आत्मानमेवैतन्निष्क्रीणीते। वीरेण वीरम्। - मा.श. ११.७.१.२

*एतदु ह वै परममन्नाद्यं यन्मांसम्। - - - तं वै संवत्सरो नानीजानमतीयात्। आयुर्वै संवत्सरः। आयुरेवैतदमृतमात्मन् धत्ते। - मा.श. ११.७.१.३

*एकामाहुतिं कृत्वा पंच वाऽऽज्यात् - द्यौष्पृष्ठमन्तरिक्षमात्माऽङ्गैर्यज्ञं पृथिवीं शरीरैः। - - - - मा.श. ११.७.२.६

*स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयेत्। एताभ्यस्त्वा देवताभ्य आवृश्चामः इत्येनं ब्रूयुः। स पापीयान् भवति। श्रेयांस आत्मना। - मा.श. १२.१.३.२२

*तदाहुः - - - - आत्मा वै संवत्सरस्य विषुवान्। अङ्गानि मासाः। यत्र वा आत्मा तदंगानि। यत्रो अंगानि तदात्मा। न वा आत्मा अंगान्यतिरिच्यते। नात्मानमंगान्यतिरिच्यन्ते। - मा.श. १२.२.३.६

*अथ ह वा एष महासुपर्ण एव। यत् संवत्सरः। तस्य यान् पुरस्तात् विषुवतः षण्मासानुपयन्ति। सः अन्यतरः पक्षः। अथ यान् षडुपरिष्टात् स अन्यतरः। आत्मा विषुवान्। यत्र वा आत्मा तत्पक्षौ। यत्र वा पक्षौ तदात्मा। न वा आत्मा पक्षावतिरिच्यते। नात्मानं पक्षावतिरिच्येते। - मा.श. १२.२.३.७

*स इतोऽभिप्लवः षडहः। स इतः। स इत आत्मा पृष्ठ्यः। एतद्ध स्म वै तद्विद्वानाह पैंग्यः। प्लवन्त इव वा अभिप्लवाः। तिष्ठतीव पृष्ठ्य इति। प्लवत इव ह्ययमंगैः। तिष्ठतीवात्मनेति। - मा.श. १२.२.४.७

*सर्वस्तोमं सर्वसामानमेतं संवत्सरमध्यात्मं प्रविष्टम्। समं धीर आत्मना कल्पयित्वा ब्रध्नस्यास्ते विष्टपेऽजातशोकः ॥ - मा.श. १२.३.२.९

*तद्विद्यात् सर्वान् लोकानात्मन्नधिषि। सर्वेषु लोकेषु आत्मानमधाम्। सर्वान् वेदान् आत्मन्नधिषि सर्वेषु वेदेष्वात्मानमधाम्। सर्वान् प्राणानात्मन्नधिषि। सर्वेषु प्राणेष्वात्मानधामिति। - मा.श. १२.३.४.११

*- - - - श्रेयान् भविष्यामीति। तामात्मन्येव कुर्वीत। आत्मन्येव तच्छ्रियं धत्ते। इति ह स्माहारुणिः। - मा.श. १२.४.१.११

*त्रायते मृत्योरात्मानम्। अप पाप्मानं हते। य एवमेतत्सौत्रामण्यै सौत्रामणीत्वं वेद। - मा.श. १२.७.१.१४

*- - -उभयमेव ग्राम्यं चान्नमारण्यं चावरुन्धे। अथो उभयेनैवान्नेन यथा रूपमिन्द्रियं वीर्यमात्मन्धत्ते। - मा.श. १२.७.२.९

*- - - शतायुर्वै पुरुषः शतेंद्रियः। आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते। - मा.श. १२.७.२.१३

*सोमो राजाऽमृतं सुतः इति। तेनैनं स्वदयित्वाऽऽत्मन्नदधत। - मा.श. १२.७.३.४

*- - -प्राणोदानावेवावरुंधे। ऊर्ध्वश्च ह्ययमवाङ् च प्राण आत्मानमनु संचरति। - मा.श. १२.७.३.२२

*यत्सुरा ब्राह्मणस्य। शिवमेवैनमेतत् कृत्वाऽऽत्मन्धत्ते। - मा.श. १२.८.१.५

*आत्मा वै यज्ञस्य यजमानः। अंगानि ऋत्विजः। यत्र वा आत्मा पूतः। पूतानि तत्राङ्गानि। - मा.श. १२.८.१.१७

*एकाकी हुतोच्छिष्टं भक्षयति। एकधैव श्रियमात्मन् धत्ते। श्रीर्हि पयः। - - - - दशवीरम् इति। प्राणा वै दश वीराः। प्राणानेवात्मन्धत्ते। सर्वगणम् इति। अङ्गानि वै सर्वे गणाः। अंगान्येवात्मन् धत्ते। स्वस्तय आत्मसनि इति। आत्मानमेव सनोति। - मा.श. १२.८.१.२२

*शिरो वा एतद्यज्ञस्य। यद्व्रतम्। आत्मा दीक्षा। एतत् खलु वै व्रतस्य रूपम्। - - - - स यत् वाचा व्रतमुपैति। आत्मन्येवैतद्यज्ञस्य शिरः प्रतिदधाति। - मा.श. १२.८.२.४

*एकधा वा एषा प्राणानां श्रीः। यद्वाक्। एकधैव वाचं श्रियमात्मन्धत्ते। - मा.श. १२.८.२.२८

*प्रत्यश्वेषु प्रतितिष्ठामि गोषु इति। - - - - प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् इति। अङ्गेष्वेवात्मन्प्रतितिष्ठति। अङ्गेभ्य आत्मनोऽप्रभ्रंशाय। - मा.श. १२.८.३.२२

*मांसं म उपनतिर्वस्वस्थि मज्जा म आनतिः इति। प्रेव वा एष लोकांश्च देवताश्च विशति। यः सौत्रामण्याऽभिषिच्यते। तदेतदवांतरात्मात्मानमुपह्वयते। - मा.श. १२.८.३.३१

*अङ्गान्येवास्याश्विनः पशुः। आत्मा सारस्वतः। रूपमैन्द्र ऋषभः। - मा.श. १२.९.१.४

*त्रयः पशवो भवन्ति। त्रेधाविहितो वा अयं पुरुषस्यात्मा। आत्मानमेवास्य तैः स्पृणोति। - मा.श. १२.९.१.७

*स वा एष आत्मैव। यत्सोत्रामणी। मन एव प्रत्यक्षात्। वाक् यजमानः। तस्यात्मैव वेदिः। प्रजोत्तरवेदिः। - - - -तद्यदाश्विने पशौ सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते। - मा.श. १२.९.१.११

*तद् यत् सारस्वते पशौ सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते। - - - - - तद्यदैन्द्रे पशौ सति, अथैता देवता सह यजति ॥ एतान्येवैतत्सार्द्धं कृत्वाऽऽत्मन् धत्ते। - - - - तद्यदैन्द्रे पुरोडाशे सति, अथैता देवताः सह यजति। एतान्येवैतत्सार्द्धं कृत्वाऽऽत्मन् धत्ते। - - - - तद्यत् सावित्रे पुरोडाशे सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते। - - - तद्यत् वारुणे पुरोडाशे सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते। - मा.श. १२.९.१.१३-१७

*अपो अद्यान्वचारिषम् इति। - - रसेन समसृक्ष्महि इति। अपामेव रसमात्मन् धत्ते। - मा.श. १२.९.२.९

*स वा एष आत्मैव। यत्सोत्रामणी। तस्मात् सा निरुक्ता। निरुक्तो ह्यात्मा। लोको वयोधाः। तस्मात् सोऽनिरुक्तः। अनिरुक्तो हि लोकः। आत्मा वै यज्ञस्य यत्सोत्रामणी। - मा.श. १२.९.३.१६

*बाहू ऐन्द्रश्च वयोधाश्च। तद्यदेतावभितः पशू भवतः। तस्मादिमावात्मानमभितो बाहू। - - - तद्यदेतं सौत्रामणिकं यूपमेतौ यूपावभितो भवतः। तस्माद्विमावात्मानमभितो बाहू। - मा.श. १२.९.३.१६

*शतायुर्वै पुरुषः शतेन्द्रियः। आयुरेवेन्द्रियं वीर्यमात्मन् धत्ते। - मा.श. १३.१.१.४, १३.१.५.६, १३.२.५.३, १३.४.१.१५, १३.४.२.१०

*अन्नहोमब्राह्मणम् : प्रजापतिर्देवेभ्यो यज्ञान् व्यादिशत्। स आत्मन्नश्वमेधमधत्त। - मा.श. १३.२.१.१

*शतायुर्वै पुरुषः। आत्मैकशतः। आयुष्येवात्मन्प्रतितिष्ठति। - मा.श. १३.२.१.६

*दश वै पशोः प्राणाः। आत्मैकादशः। प्राणैरेव पशून्त्समर्द्धयति। - मा.श. १३.२.५.४

*शतायुर्वै पुरुषः। आत्मैकशतः। आयुष्येवात्मन्प्रतितिष्ठति। - मा.श. १३.२.६.८

*नव कृत्वः परियन्ति। नव वै प्राणाः। प्राणानेवात्मन्दधते। - मा.श. १३.२.८.५

*स यच्चरुर्भवति। चक्षुषा ह्ययमात्मा चरति। - मा.श. १३.३.८.४

*अथ योऽस्य निष्कः प्रतिमुक्तो भवति। तमध्वर्यवे ददाति। अध्वर्यवे दददमृतमायुरात्मन्धत्ते। - मा.श. १३.४.१.११

*दश हस्त्या अङ्गुलयः। दश पाद्याः। आत्मैकविंशः। तदनेनैकविंशेनात्मनैतस्मिन्नेकविंश प्रतिष्ठायां प्रतितिष्ठति - मा.श. १३.५.१.६

*अन्नमुक्थ्यः। आत्माऽतिरात्रः। तद्यदेता उक्थ्यावतिरात्रमभितो भवतः। तस्मादयमात्माऽन्नेन परिवृढः। - मा.श. १३.६.१.९

*संवत्सरश्च आत्मा च पुरुषमेधमभिसंपद्यंते। - मा.श. १३.६.१.११

*अथात्मन्नग्नी समारोह्य, उत्तरनारायणेनादित्यमुपस्थाय, अनपेक्षमाणोऽरण्यमभिप्रेयात्। - मा.श. १३.६.२.२०

*सर्वमेधः :- अहं भूतेष्वात्मानं जुहवानि। भूतानि चात्मनीति। तत्सर्वेषु भूतेष्वात्मानं हुत्वा, भूतानि चात्मनि, सर्वेषां भूतानां श्रैष्ठ्यं, स्वाराज्यम्, आधिपत्यं पर्यैत्। - मा.श. १३.७.१.१

*द्वारैवैनं पितृलोकं प्रपादयति। स्रक्तिभिर्दिक्षु प्रतितिष्ठति। इतरेणात्मनाऽवांतरदिक्षु। - मा.श. १३.८.१.५

*अग्निविधयाऽग्निचितः श्मशानं करोति। यत् वै यजमानोऽग्निं चिनुते। अमुष्मै तल्लोकाय यज्ञेनात्मानं संस्कुरुते। - मा.श. १३.८.१.१७

*समानो ह्यस्यैष आत्मा यथैवाग्नेस्तथेति। - मा.श. १३.८.१.१८

*अथात्मानं विकृषति। तद्यदेव संवत्सरेऽन्नम्। तस्मिन्नेवैनमेतत् प्रतिष्ठापयति। - मा.श. १३.८.२.८

*तासामेकां मध्ये प्राचीमुपदधाति, स आत्मा। तिस्रः पुरस्तात् मूर्द्धसंहिताः, तच्छिरः। - - - - सोऽस्यैष पक्षपुच्छवानात्मा। यथैवाग्नेः तथा। - मा.श. १३.८.३.९

*तदात्मन्येवैतद्यशः कृत्वा यदेव तद्भवति। तत्सद्ददाति। हिरण्यं गां वासोऽश्वं वा। - मा.श. १४.१.१.३२

*आयुर्मे दाः इति। आयुरेवात्मन्धत्ते। - मा.श. १४.१.३.१९

*प्रजां मे दाः इति। प्रजामेव पशूनात्मन्धत्ते। - - - - - चक्षुर्मे दाः इति। चक्षुरेवात्मन्धत्ते। - - - - - - रायस्पोषं मे दाः इति। रयिमेव पुष्टिमात्मन्धत्ते। - - - - - ओजो मे दाः इति। ओज एवात्मन्धत्ते। - - - -- मा.श. १४.१.३.२०-२३

*ब्रह्मणस्तन्वं पाहि इति। ब्रह्मण आत्मानं गोपाय इत्येवैतदाह। - मा.श. १४.३.१.९

*मयि दक्षो मयि क्रतुः इति। क्रतूदक्षावेवात्मन्धत्ते। - मा.श. १४.३.१.३१

*घर्मभेदे प्रायश्चित्तम् : सर्वेषां वा एष भूतानां सर्वेषां देवानामात्मा - यद्यज्ञः। तस्य समृद्धिमनु यजमानः प्रजया पशुभिर्ऋध्यते। वि वा एष प्रजया पशुभिर्ऋध्यते - यस्य घर्मो विदीर्यते। - मा.श. १४.३.२.१

*अग्नये स्वाहा इति। अग्निर्वै सर्वेषां देवानामात्मा। -- - - अंतरिक्षाय स्वाहा इति। अंतरिक्षं वै सर्वेषां देवानामायतनम्। - - - - - वायवे स्वाहा इति। वायुर्वै सर्वेषां देवानामात्मा। - - - - दिवे स्वाहा। द्यौर्वै सर्वेषां देवानामायतनम्। - - - सूर्याय स्वाहा इति। सूर्यो वै सर्वेषां देवानामात्मा। - - - दिग्भ्यः स्वाहा इति। दिशो वै सर्वेषां देवानामायतनम्। - - - चंद्राय स्वाहा इति। चंद्रो वै सर्वेषां देवानामात्मा। - मा.श. १४.३.२.५-११

*अद्भ्यः स्वाहा इति। आपो वै सर्वेषां देवानामायतनम्। - - - -वरुणाय स्वाहा इति। वरुणो वै सर्वेषां देवानामात्मा। - मा.श. १४.३.२.१४

*यजमानो वै प्रवर्ग्यः। तस्यात्मा प्रजा पशवः। - मा.श. १४.३.२.२५

*ते ह वाचमूचुः। त्वं न उद्गायेति। - - - -यो वाचि भोगः। तं देवेभ्य आगायत्। यत्कल्याणं वदति। तदात्मने। - बृहदारण्यक उपनिषद १.१.३

*तेभ्यः प्राण उदगायत्। यः प्राणे भोगः। तं देवेभ्य आगायत्। यत्कल्याणं जिघ्रति। तदात्मने - - - - तेभ्यश्चक्षुरुदगायत्। यश्चक्षुषि भोगः। तं देवेभ्य आगायत्। यत्कल्याणं पश्यति। तदात्मने। - - - - तेभ्यः श्रोत्रमुदगायत्। यः श्रोत्रे भोगः। तं देवेभ्य आगायत्। यत्कल्याणं शृणोति। तदात्मने। - - - - तेभ्य मन उदगायत्। यो मनसि भोगः। तं देवेभ्य आगायत्। यत्कल्याणं संकल्पयति। तदात्मने। - बृ.उ. १.१.४-७

*स यथा अश्मानमृत्वा लोष्टो विध्वंसेत। एवं हैव विध्वंसमाना विष्वंचो विनेशुः। ततो देवा अभवन्। पराऽसुराः। भवत्यात्मना। पराऽस्य द्विषन् भ्रातृव्यो भवति। - बृ.उ. १.१.८

*अथात्मने अन्नाद्यमागायत्। यद्धि किंचान्नमद्यते। अनेनैव तदद्यते। इह प्रतितिष्ठति। ते देवा अब्रुवन्। एतावद्वा इदं सर्वम्। यदन्नम्। तदात्मन आगासीः। अनु नोऽस्मिन्नन्न आभजस्वेति। - बृ.उ. १.१.१९

*अथ यानीतराणि स्तोत्राणि। तेषु आत्मने अन्नाद्यमागायेत्। तस्मादु तेषु वरं वृणीत। यं कामं कामयेत। तं स एष एवंविदुद्गाता आत्मने वा यजमानाय वा कामं कामयते। - बृ.उ. १.१.३३

*पुरुषविधब्राह्मणम् : आत्मैवेदमग्र आसीत्। पुरुषविधः सोऽनुवीक्ष्य, नान्यदात्मनोऽपश्यत्। सोऽहमस्मीत्यग्रे व्याहरत्। - बृ.उ. १.२.१

*स इममेवात्मानं द्वेधाऽपातयत्। ततः पतिश्च पत्नी चाभवताम्। तस्मादिदमर्धबृगलमिव स्वः। - बृ.उ. १.२.५

*आत्मेत्येवोपासीत। अत्र ह्येते सर्व एकं भवन्ति। तदेत्पदनीयमस्य सर्वस्य। यदयमात्मा। अनेन ह्येतत्सर्वं वेद। - बृ.उ. १.२.१८

*तदेतत्प्रेयः पुत्रात्, प्रेयो वित्तात्, प्रेयोऽन्यस्मात्सर्वस्मात्। अंतरतरम् - यदयमात्मा। स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्। प्रियं रोत्स्यतीति। ईश्वरो ह। तथैव स्यात्। आत्मानमेव प्रियमुपासीत। - बृ.उ. १.२.१९

*ब्रह्म वा इदमग्र आसीत्। तदात्मानवेवावेत्। अहं ब्रह्मास्मि इति। - बृ.उ. १.२.२१

*तदिदमप्येतर्हि य एवं वेद। अहं ब्रह्मास्मीति। स इदं सर्वं भवति। तस्य ह न देवाश्चनाभूत्या ईशते। आत्मा ह्येषां स भवति। - बृ.उ. १.२.२२

*स य आत्मानमेव लोकमुपास्ते। न हास्य कर्म क्षीयते। अस्माध्येवात्मनो यद्यत्कामयते। तत्तत्सृजते। अथो अयं वा आत्मा सर्वेषां भूतानां लोकः। - बृ.उ. १.२.२९

*आत्मैवेदमग्र आसीदेक एव। सोऽकामयत। जाया मे स्यात् अथ प्रजायेय। - बृ.उ. १.२.३०

*मन एवास्यात्मा। वाक् जाया। प्राणः प्रजा। चक्षुर्मानुषं वित्तम्। चक्षुषा हि तद्विंदति। श्रोत्रं दैवम्। श्रोत्रेण हि तत् शृणोति। आत्मैवास्य कर्म। आत्मना हि कर्म करोति। - बृ.उ. १.२.३१

*यत्सप्तान्नानि मेधया तपसाऽजनयत्पिता। एकमस्य साधारणम्, द्वे देवानभाजयत्। त्रीण्यात्मनेऽकुरुत, पशुभ्य एकं प्रायच्छत्। - बृ.उ. १.३.१

*त्रीण्यात्मनेऽकुरुतेति। मनो वाचं प्राणम्। तान्यात्मनेऽकुरुत। अन्यत्रमना अभूवम्। नादर्शम्। अन्यत्रमना अभूवम्। नाश्रौषमिति। मनसा ह्येव पश्यति। मनसा शृणोति। - बृ.उ. १.३.९

*- - - अन इति एतत्सर्वं प्राण एव। एतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः। - बृ.उ. १.३.१०

*यो वै स संवत्सरः प्रजापतिः षोडशकलः। अयमेव सः। यः अयमेवंवित्पुरुषः। तस्य वित्तमेव पंचदश कलाः। आत्मैवास्य षोडशी कला। स वित्तेनैवा च पूर्यते। अप च क्षीयते। तदेतन्नभ्यम्। यदयमात्मा। प्रधिर्वित्तम् ॥ तस्माद्यद्यपि सर्वज्यानिं जीयते। आत्मना चेज्जीवति। प्रधिनाऽऽगात् इत्याहुः। - बृ.उ. १.३.२३

*स वै दैवः प्राणः। यः संचरंश्चासंचरंश्च न व्यथते। अथो न रिष्यति। स एष एवंवित्सर्वेषां भूतानामात्मा भवति। यथैषा देवता। एवं सः। - बृ.उ. १.३.२९

*अथ रूपाणाम्। चक्षुरित्येतदेषामुक्थ्यम्। अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति। - - - अथ कर्मणाम्। आत्मेत्येतदेषामुक्थ्यम्। अतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति। - बृ.उ. १.४.३

*स होवाच गार्ग्यः। य एवायमात्मनि पुरुषः। एतमेवाहं ब्रह्मोपास इति। स होवाचाजातशत्रुः। मा मैतस्मिन् संवदिष्ठाः। आत्मन्वीति वा अहमेतमुपास इति। स य एतमेवमुपास्ते। आत्मन्वी ह भवति। आत्मन्विनी हास्य प्रजा भवति। - बृ.उ. २.१.१३

*मूर्तामूर्तब्राह्मणम् : अथाध्यात्मम्। इदमेव मूर्तम्। यदन्यत् प्राणाच्च। यश्चायमंतरात्मन्नाकाशः। एतत् मर्त्यम्। एतत् स्थितम्। एतत्सत्। - - - अथामूर्तम्। प्राणश्च। यश्चायमंतरात्मन्नाकाशः। एतदमृतम्। एतद्यत्। एतत् त्यम्। - बृ.उ. २.३.८

*न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति। आत्मनस्तु कामाय वित्तं प्रियं भवति। न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति। आत्मनस्तु कामाय ब्रह्म प्रियं भवति। न वा अरे क्षत्त्रस्य कामाय क्षत्त्रं प्रियं भवति। आत्मनस्तु कामाय क्षत्त्रं प्रियं भवति। न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति। आत्मनस्तु कामाय लोकाः प्रिया भवन्ति। न वा अरे देवानां कामाय देवाः प्रिया भवन्ति। आत्मनस्तु कामाय देवाः प्रिया भवन्ति। न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति। आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति। न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति। आत्मनस्तु कामाय सर्वं प्रियं भवति। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः। मैत्रेयि। आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्। - बृ.उ. २.४.५

* ब्रह्म तं परादात्। योऽन्यत्रात्मनो ब्रह्म वेद। क्षत्त्रं तं परादात्। योऽन्यत्रात्मनः क्षत्त्रं वेद। लोकास्तं परादुः। योऽन्यत्रात्मनो लोकान् वेद। देवास्तं परादुः। योऽन्यत्रात्मनो देवान् वेद। भूतानि तं परादुः। योऽन्यत्रात्मनो भूतानि वेद। सर्वं तं परादात्। योऽन्यत्रात्मनः सर्वं वेद। इदं ब्रह्म। इदं क्षत्त्रम्। इमे लोकाः। इमे देवाः। इमानि भूतानि। इदं सर्वम् यत् अयमात्मा। - बृ.उ. २.४.६

*यत्र तु अस्य सर्वमात्मैवाभूत्। तत्केन कं पश्येत्। तत् केन कं जिघ्रेत्। तत् केन कमभिवदेत्। - - -बृ.उ. २.४.१६

*मधुब्राह्मणम् : यश्चायमध्यात्मं शारीरस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मा इदममृतमिदं ब्रह्मेदं सर्वम्। - बृ.उ. २.५.१

*यश्चायमध्यात्मं रैतसस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मा इदममृतमिदं ब्रह्मेदं सर्वम्। - - - यश्चायमध्यात्मं वाङ्मयस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मा इदममृतमिदं ब्रह्मेदं सर्वम्। - - - यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषः। अयमेव स। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - - - यश्चायमध्यात्मं प्राणस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - - - - यश्चायमध्यात्मं चाक्षुषस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - - - - यश्चायमध्यात्मं मानसस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - - - -यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिंद ब्रह्मेदं सर्वं। - - - - यश्चायमध्यात्मं तैजसस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - - - - - यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - - - - यश्चायमध्यात्मं धार्मस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - - - - -यश्चायमध्यात्मं सात्यस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - - - - - यश्चायमध्यात्मं मानुषस्तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - बृ.उ. २.५.२-१३

*अयमात्मा सर्वेषां भूतानां मधु। अस्यात्मनः सर्वाणि भूतानि मधु। यश्चायमस्मिन्नात्मनि तेजोमयः अमृतमयः पुरुषः। यश्चायमात्मा तेजोमयः अमृतमयः पुरुषः। अयमेव सः। यः अयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्। - बृ.उ. २.५.१४

*स वा अयमात्मा। सर्वेषां भूतानामधिपतिः। सर्वेषां भूतानां राजा। तद्यथा रथनाभौ च रथनेमौ च अराः सर्वे समर्पिताः। एवमेव अस्मिन् आत्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्वे एते आत्मानः समर्पिताः। - बृ.उ. २.५.१५

*तदेतत् ब्रह्म अपूर्वमनपरमनंतरमबाह्यम्। अयमात्मा ब्रह्म सर्वानुभूः। - बृ. उ. २.५.१९

*आर्तभाग ब्राह्मणं जारत्कारव ब्राह्मणं वा : वातं प्राणः। चक्षुरादित्यम्। मनश्चन्द्रम्। दिशः श्रोत्रम्। पृथिवीं शरीरम्। आकाशमात्मा। ओषधीर्लोमानि। - - - बृ.उ. ३.२.१३

*- - - - तावानंतरेणाकाशः। तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत्। तान्वायुरात्मनि धित्वा तत्रागमयत्। यत्र पारिक्षिता अभवन् इति। - बृ.उ. ३.३.२

*कहोडब्राह्मणं वा निर्गुणविद्याब्राह्मणम् : य आत्मा सर्वान्तरः। तं मे व्याचक्ष्वेति। एष त आत्मा सर्वांतरः। कतमो याज्ञवल्क्य सर्वांतरः। यः अशनायापिपासे शोकं मोहं जरां मृत्युमत्येति। एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय, अथ भिक्षाचर्यं चरंति। - बृ.उ. ३.४.१

*उषस्तब्राह्मणं वा निर्गुणात्मविद्याब्राह्मणम् : यत्साक्षादपरोक्षाद्ब|ह्म। य आत्मा सर्वांतरः। तं मे व्याचक्ष्वेति। एष त आत्मा सर्वांतरः। कतमो याज्ञवल्क्य सर्वांतरः। यः प्राणेन प्राणिति। स त आत्मा सर्वांतरः। योऽपानेनापानिति। स त आत्मा सर्वांतरः। यो व्यानेन व्यनिति। स त आत्मा सर्वांतरः। य उदानेनोदनिति। स त आत्मा सर्वांतरः यः समानेन समानिति। स त आत्मा सर्वांतरः। - - - - - -यदेव साक्षादपरोक्षात् ब्रह्म। य आत्मा सर्वांतरः। तं मे व्याचक्ष्वेति। एष त आत्मा सर्वांतरः। कतमो याज्ञवल्क्य सर्वांतरः। न दृष्टेर्द्रष्टारं पश्येः। न श्रुतेः श्रोतारं शृणुयाः। न मतेर्मंतारं मन्वीथाः। न विज्ञातेर्विज्ञातारं विजानीयाः। एष त आत्मा सर्वांतरः। अतोऽन्यदार्तम्। - बृ.उ. ३.५.१

*यो वै तत् काप्य सूत्रं विद्यात् तं चांतर्यामिणम्। स ब्रह्मवित्- - - स आत्मवित्। स सर्ववित्। - बृ.उ. ३.७.४

*यः पृथिव्यां तिष्ठन्। पृथिव्या अन्तरः। यं पृथिवी न वेद। यस्य पृथिवी शरीरम्। यः पृथिवीमन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.७

*यस्यादित्यः शरीरम्। य आदित्यमन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.१२

*यं चन्द्रतारकं न वेद। यस्य चन्द्रतारकं शरीरम्। यश्चन्द्रतारकमंतरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.१३

*- - -यस्य दिशः शरीरम्। यो दिशोऽन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.४

*- - - यं विद्युन्न वेद। यस्य विद्युच्छरीरम्। यो विद्युतमन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.१५

*- - - यं स्तनयित्नुर्न वेद। यस्य स्तनयित्नु: शरीरम्। यः स्तनयित्नुमन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.१६

*- - - - यस्य सर्वे लोकाः शरीरम्। यः सर्वांल्लोकानन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.१७

*यस्य सर्वे वेदाः शरीरम्। यः सर्वान्वेदानंतरो यमयति स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.१८

*यस्य सर्वे यज्ञाः शरीरम्। यः सर्वान्यज्ञानंतरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.१९

*यं सर्वाणि भूतानि न विदुः। यस्य सर्वाणि भूतानि शरीरम्। यः सर्वाणि भूतान्यन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२०

*यस्य प्राणः शरीरम्। यः प्राणमन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२१

*यस्य वाक् शरीरम्। यो वाचमंतरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२२

*यस्य चक्षुः शरीरम्। यश्चक्षुरन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२३

*यस्य श्रोत्रं शरीरम्। यः श्रोत्रमंतरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२४

*यस्य मनः शरीरम्। यो मनोऽन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२५

*यस्य त्वक् शरीरम्। यस्त्वचमंतरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२६

*यस्य तेजः शरीरम्। यस्तेजोऽन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२७

*यस्य तमः शरीरम्। यस्तमोऽन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२८

*यस्य रेतः शरीरम्। यो रेतोऽन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.२९

*य आत्मनि तिष्ठन्। आत्मनोऽन्तरः। यमात्मा न वेद। यस्यात्मा शरीरम्। य आत्मानमन्तरो यमयति। स त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.७.३०

*- - - - अविज्ञातो विज्ञाता। नान्योऽस्ति द्रष्टा। नान्योऽस्ति श्रोता। नान्योऽस्ति मन्ता। नान्योऽस्ति विज्ञाता। एष त आत्माऽन्तर्याम्यमृतः। - बृ.उ. ३.८.३१

*दशेमे पुरुषे प्राणाः। आत्मैकादशः। ते यदाऽस्मान्मर्त्याच्छरीरादुत्क्रामन्ति। अथ रोदयंति। - बृ.उ. ३.९.५

*कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति। प्राण इति। - बृ.उ. ३.९.२७

*स एष नेति नेत्यात्मा। अगृह्यो, न हि गृह्यते। अशीर्यो, न हि शीर्यते। असंगोऽसितो न सज्यते न व्यथते। इत्येतान्यष्टावायतनानि। - बृ.उ. ३.९.२८, ३.११.६

*अस्तमित आदित्ये याज्ञवल्क्य चंद्रमस्यस्तमिते शांतेऽग्नौ शांतायां वाचि किंज्योतिरेवायं पुरुष इति। आत्मज्योतिः सम्राट इति होवाच। आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपर्येतीति। कतम आत्मेति। योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यंतर्ज्योतिः। - बृ.उ. ४.१.६

*तद्वा अस्यैतदात्मकाममाप्तकाममकामं रूपम्। तत् यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नांतरम्। एवमेव अयं शारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्। - बृ.उ. ४.१.२१

*यथा आम्रं वा उदुंबरं वा पिप्पलं वा बन्धनात्प्रमुच्येत। एवमेव अयं शारीर आत्मा एभ्यः अंहोभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोनि आद्रवति प्राणायैव। - बृ.उ. ४.१.४१

*तद्यथाऽनः सुसमाहितमुत्सर्जद्यायात्। एवमेव अयं शारीर आत्मा प्राज्ञेनात्मना अन्वारूढः उत्सर्जद्याति। - बृ.उ. ४.१.४२

*स यत्रायं शारीर आत्मा अबल्यं नीत्य सम्मोहमिव न्येति। अथैनमेते प्राणा अभिसमायन्ति। स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति। - बृ.उ. ४.२.१

*तस्य हैतस्य हृदयस्याग्रं प्रद्योतते। तेन प्रद्योतेनैष आत्मा निष्क्रामति, चक्षुष्टो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यः। तमुत्क्रामतं प्राणोऽनूत्क्रामति। - बृ.उ. ४.२.३

*स वा अयमात्मा ब्रह्म। विज्ञानमयः। मनोमयः। वाङ्मयः। प्राणमयः। चक्षुर्मयः। - - - - - -बृ.उ. ४.२.६

*अथाकामयमानः। योऽकामो निष्काम आत्मकाम आप्तकामो भवति। न तस्मात् प्राणा उत्क्रामन्ति। अत्रैव समवनीयन्ते। ब्रह्मैव सन् ब्रह्माप्येति। - बृ.उ. ४.२.८

*अथायमनस्थिकोऽशरीरः प्राज्ञ आत्मा ब्रह्मैव लोक एव सम्राट्, इति होवाच याज्ञवल्क्यः। - बृ.उ. ४.२.१०

*आत्मानं चेद्विजानीयादयमस्मीति पूरुषः। किमिच्छन् कस्य कामाय शरीरमनुसंचरेत्। यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् संदेहे गहने प्रविष्टः। स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव। - बृ.उ. ४.२.१७

*यदैतमनुपश्यत्यात्मानं देवमंजसा। ईशानं भूतभव्यस्य न तदा विचिकित्सति। यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्। - बृ.उ. ४.२.१८-१९

*विरजः पर आकाशादज आत्मा महान् ध्रुवः। तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः। - - - - - स वा अयमात्मा। सर्वस्य वशी। सर्वस्येशानः। सर्वस्याधिपतिः। सर्वमिदं प्रशास्ति। यदिदं किं च। - बृ.उ. ४.२.२३

*येषां नो अयमात्मा अयं लोक इति। ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय, अथ भिक्षाचर्यं चरन्ति। - - - - -स एष नेति नेत्यात्मा। अगृह्यो न हि गृह्यते। अशीर्यो न हि शीर्यते। - - - -बृ.उ. ४.२.२७

*तस्मादेवंवित्श्रांतो दांत उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वा आत्मन्येवात्मानं पश्येत्। सर्वमेनं पश्यति। सर्वः अस्यात्मा भवति। सर्वस्यात्मा भवति। - बृ.उ. ४.२.२८

*स वा एष महानज आत्मा अन्नादो वसुदानः। स यो हैवमेतं महांतमजमात्मानमन्नादं वसुदानं वेद। विन्दते वसु। स वा एष महानज आत्मा अजरोऽमरोऽभयोऽमृतो ब्रह्म। - बृ.उ. ४.२.२९

*स वा एष महानज आत्मा अजरोऽमरोऽभयोऽमृतो ब्रह्म। अभयं वै ब्रह्म। - बृ.उ. ४.२.३१

*स होवाच याज्ञवल्क्यः। न वा अरे पत्युः कामाय पतिः प्रियो भवति। आत्मनस्तु कामाय पतिः प्रियो भवति। न वा अरे जायायै कामाय जाया प्रिया भवति। आत्मनस्तु कामाय जाया प्रिया भवति। - - - -- - - - - - - - - -- - - - बृ.उ. ४.३.६

*ब्रह्म तं परादात्। यः अन्यत्रात्मनो ब्रह्म वेद। क्षत्त्रं तं परादात्। यः अन्यत्रात्मनः क्षत्त्रं वेद। लोकास्तं परादुः। यः अन्यत्रात्मनो लोकान्वेद। - - - - -बृ.उ. ४.३.७

*स होवाच याज्ञवल्क्यः। न वा अरे अहं मोहं ब्रवीमि। अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा। मात्रासंसर्गस्त्वस्य भवति। - बृ.उ. ४.३.१५

*यत्र तु अस्य सर्वमात्मैवाभूत्। तत् केन कं पश्येत्। तत् केन कं जिघ्रेत्। तत्केन कं रसयेत्। - - - - बृ.उ. ४.३.२५

*मनोमयपुरुषोपासनाब्राह्मणम् : तस्मिन्नंतर्हृदये यथा व्रीहिर्वा यवो वा, एवमयमन्तरात्मन्पुरुषः। स एष  सर्वस्य वशी। - बृ.उ. ५.८.१

*अथ यदि उदक आत्मानं पश्येत्। तदभिमन्त्रयेत - मयि तेज इन्द्रियं यशो द्रविणं सुकृतम् इति। - बृ.उ. ६.४.६

*अथैनमभिमृशति - अश्मा भव परशुर्भव हिरण्यमस्रुतं भव। आत्मा वै पुत्रनामाऽसि स जीव शरदः शतम् इति। - बृ.उ. ६.४.२६