Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

अनुष्टुभ्

जैब्रा , ९९ कथनमस्ति यत् पशुषु या वाक् आसीत्, तस्याः हरणं देवेभिः अनुष्टुभछन्दसा कृतमस्ति। अनेन कारणेन पशूनां वाक् अनिरुक्ता अस्ति (आधुनिकविज्ञानानुसारेण, ये चतुष्पादाः पशवः सन्ति, तेषु स्वरयन्त्रस्य प्रकारं मनुष्यतः भिन्नं भवति। अनेन कारणेन तेषां वाक् अनिरुक्ता अस्ति)। अयं संकेतमस्ति यत् अनुष्टुप् शब्दस्य एकं रूपं हनुस्तुब्धं अस्ति। गवामयनयागस्य विषुवान् संज्ञकस्य मध्यमदिनस्य परितः स्वरसामसंज्ञकानां अह्नां अस्तित्वं भवति। स्वरसाम्नां छन्दः अनुष्टुप् अस्ति। अत्र संकेतमस्ति यत् अनुष्टुप् छन्दसा यस्याः वाचः आविर्भावं भवति, तस्याः शुद्धरूपं स्वारं अस्ति।

कर्मकाण्डे अनिरुक्तायाः वाचः निरुक्तायां परिवर्तनाय ऐन्द्रवायवग्रहस्य विधानमस्ति (शतपथब्राह्मणम् ४.१.३.१)। अस्य विधानस्य महत्त्वं अनेन कारणेन अस्ति यत् सम्प्रति यः आधुनिकचिकित्साविज्ञानः अस्ति, तस्मिन् सेरेब्रल पाल्सी अथवा मस्तिष्क पक्षाघातकारणेन शिशोः नवजातावस्थायामेव या मूकता विद्यमाना भवति, तस्याः कापि चिकित्सा नास्ति।

जै.ब्रा. १.२६४ उल्लेखः अस्ति यत् शूद्रस्य छन्दः अनुष्टुप् अस्ति। सार्वत्रिकरूपेण उल्लेखः अस्ति यत् शूद्रस्य कार्यं ब्राह्मणस्य पादप्रक्षालनं अस्ति। ओषधि-वनस्पत्यादि स्थावरेषु या मूलं भवति, तस्मिन् मूले कोशिकासु रिक्तस्थानाः भवन्ति येषां संज्ञा रसधानी अथवा वैक्युओल अस्ति। पादपस्य मूलः यस्य रसस्य ग्रहणं पृथिवीतः करोति, तस्मिन् रसे लौह, ताम्रादि बहवः धातुलवणाः विलीनाः भवन्ति। मूलस्य कोशिकायाः रसधान्याः यः आकारः अस्ति, तत् आकारः निर्धारणं करोति कस्य धातोः लवणं पादपः ग्रहीष्यति, कस्य निषेधयिष्यति। तत्वानां या आवर्तसारणी अस्ति, तस्मिन् प्रथमतः त्रिंशतितत्त्वपर्यन्तं ये तत्वाः सन्ति, तेषां लवणानां उपयोगं पादपेषु मुख्यरूपेण भवति। अन्ये तत्वाः, येषां अणूनां आकारः बृहत्तरः भवति, पादपेषु गौण रूपेण एव भवन्ति। येषां अणूनां आकारः रसधान्याः आकारतः बृहत्तरः भवति, तेभ्यः कृते रसधानी पाशरूपा भवति। अऩेन प्रकारेण, स्थावरजगते अयं क्षालनी क्रियाविधिः अस्ति। यः मनुष्यादि जंगमप्राणिजगतः अस्ति, तस्मिन् यद्यपि मूलः नास्ति, किन्तु यः पादः अस्ति, तस्मिन् क्षालनस्य क्रिया सूक्ष्मरूपेण विद्यमाना अस्ति। अनुमानमस्ति यत् अन्नस्य रसस्य प्रवेशं प्रथमतः पादेषु भवति। पादाः यस्य रसस्य विसर्जनं कुरुतः, सैव देहस्य उपरि भागे गच्छति। यदि पादौ पापग्रस्तौ स्तः, तदा रसस्य विसर्जनक्रिया अपि दोषपूर्णा भविष्यति। यदा – यदा पादौ पापरहितौ भविष्यतः, अन्नस्य वीर्यादि यः सूक्ष्मरसः अस्ति, तस्य प्रसरणं देहस्य उपरिभागे भविष्यति। योगसाधनतः अयं भवति यत् पादतले या हर्षसंवेदना सामान्यरूपेण स्पर्शतः एव भवति, तस्याः रूपान्तरणं एवंप्रकारेण भवति यत् सा संवेदना स्पर्शरहितावस्थायां अपि भवति। पादयोः पापानां ध्वंसनस्य अन्यमुपायं उपानहधारणमस्ति। उपानहः एकः तन्त्रः अस्ति यत्र वरुणः छन्दोरूपेभ्यः स्वपाशेभ्यः पापानां बन्धनं करोति।

अनुष्टुप् :  अनुष्टुप् छन्द को सार्वत्रिक रूप से वाक् कहा गया है । वैदिक साहित्य में वाक् के ४ स्तर होते हैं - परा, पश्यन्ती, मध्यमा व वैखरी । वैखरी वाक् वह है जो हमें मर्त्य स्तर पर शकुनों के रूप में सुनाई देती है । अनुष्टुप् छन्द का प्रभाव यह हो सकता है कि परा वाक् का अवतरण वैखरी के स्तर तक हो जाए । तैत्तिरीय ब्राह्मण १.७.१०.४ का कथन है कि गायत्री से लेकर जगती तक तीन छन्द तो सत्य हैं, जबकि अनुष्टुप् छन्द जो वरुण से सम्बन्धित है, सत्यानृत धर्म वाला है । तैत्तिरीय ब्राह्मण १.७.१०.४ में जगती को मित्र और अनुष्टुप् को वरुण कहा गया है । ऐतरेय ब्राह्मण ३.१३ का कथन है कि प्रजापति का अपना अनुष्टुप् छन्द अच्छावाक् ऋत्विज को प्राप्त हुआ जिससे अनुष्टुप् को अप्रसन्नता हुई यह प्रसंग परोक्ष रूप से यह संकेत करता है कि गायत्री छन्द होता ऋत्विज से सम्बन्धित है, त्रिष्टुप् मैत्रावरुण और जगती ब्राह्मणाच्छंसी ऋत्विज से। होता का व्यवहार प्रेम से है, मैत्रावरुण का मैत्री से, ब्राह्मणाच्छंसी का कृपा से और अच्छावाक् का द्वेष से- भागवतपुराण ११.२.४६ शतपथ ब्राह्मण १.७.३.१८ का कथन है कि वास्तु अनुष्टुप् है । वास्तु स्विष्टकृत् है । वास्तु अवीर्य है । इसमें त्रिष्टुप् द्वारा वीर्य रखा जाता है । शतपथ ब्राह्मण ४.५.३.५ का कथन है कि अनुष्टुप् द्वारा भ्रातृव्य के वीर्य का ग्रहण किया जाता है । इन कथनों से ऐसा प्रतीत होता है कि वरुण का सत्यानृत धर्म अव्यवस्थित ऊर्जा की स्थिति की अन्तिम अवस्था है । उससे ऊपर केवल मृत्यु ही शेष बचती है । प्राणियों के शरीर में कोशिकाओं के बनने में सतत् रूप से एक जूआ चल रहा है कि मृत्यु जीते या जीवन जीते । जहां जीवनी शक्ति दुर्बल हुई कि मृत्यु अपना ग्रास बना लेती है । चेतना के स्तर पर मृत्यु को ही अनृत अवस्था कहा जा सकता है । वाक् के स्तर पर अनृत वाक् हो सकती है । भौतिक जगत के स्तर  पर यह आधुनिक विज्ञान का ब्लैक होल हो सकता है, ऐसा सूर्य जिसकी सारी ऊर्जा अव्यवस्थित हो  चुकी है । लेकिन यह प्रश्न अभी भी अनुत्तरित है कि अनुष्टुप् छन्द भ्रातृव्य व शत्रु के वीर्य का हरण किस प्रकार कर सकता है । शतपथ ब्राह्मण १.३.२.१६ में आज्य ग्रहण विभिन्न पात्रों द्वारा किया जाता है । गायत्री के संदर्भ में जुहू पात्र से, त्रिष्टुप् व जगती के संदर्भ में उपभृत पात्र से और अनुष्टुप् के संदर्भ में ध्रुवा द्वारा किया जाता है । शतपथ ब्राह्मण ११.५.९.७ में सोमयाग के तीन सवनों को गायत्री आदि तीन सवनों से सम्बद्ध किया गया है और सवनों से ऊपर जो कुछ है, उसे अनुष्टुप् कहा गया है । ऐतरेय ब्राह्मण ३.४७ व ३.४८ में गायत्री को द्यौ व अनुमति संज्ञक पूर्णिमा से, त्रिष्टुप् को उषा व राका पूर्णिमा से, जगती को गौ व सिनीवाली संज्ञक अमावास्या से और अनुष्टुप् को पृथिवी व कुहू नामक अमावास्या से सम्बद्ध किया गया है । शतपथ ब्राह्मण १३.२..१९ में अश्व को आनुष्टुभ कहा गया है । जगती को गौ कहा गया है, जबकि अनुष्टुप् को पृथिवी । जैमिनीय ब्राह्मण १.२७० आदि के अनुसार वाक् मनुष्यधू है जबकि पृथिवी देवधू , वैसे ही जैसे श्रोत्र मनुष्यधू का देवधू रूप दिशाएं हैं, चक्षु का आदित्य है आदि । दूसरे, जब सोम पक्ष पर आते हैं, तो पूर्णिमा को चेतन मन का रूप समझा जा सकता है, चन्द्रमा का वह पक्ष जो प्रत्यक्ष है । दूसरी ओर अमावास्या को अचेतन मन समझा जा सकता है, चन्द्रमा का वह पक्ष जो पृथिवी से परोक्ष दिशा में रहता है । शतपथ ब्राह्मण ६.३.१.३८ में अभ्रि द्वारा खनन करके मृदा सम्भरण के संदर्भ में मृदा के पृथिवी से सम्भरण का कार्य अनुष्टुप् द्वारा सम्पन्न करने का निर्देश है (अन्य तीन छन्दों गायत्री, त्रिष्टुप्, जगती का विनियोग भी द्रष्टव्य है)। शतपथ ब्राह्मण ७.२.४.१४ में ओषधि वपन का कार्य अनुष्टुप् छन्द द्वारा सम्पादित करने का निर्देश है । ऐतरेय ब्राह्मण ३.१५ के अनुसार वृत्र वध के पश्चात् इन्द्र वृत्र वध की अनिश्चितता को देखते हुए अनुष्टुप् में छिप गया और कि अनुष्टुप् ही परा परावत है । इससे यह संकेत माना जा सकता है कि वृत्र वध के पश्चात् ही अनुष्टुप् परा गुण वाला बन सकता है ।

संदर्भाः

बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥ऋ. १०.१२४.९

होता यक्षद् ईडेन्यम् ईडितं वृत्रहन्तमम् इडाभिर् ईड्य सहः सोमम् इन्द्र वयोधसम् । अनुष्टुभं छन्द ऽ इन्द्रियं पञ्चाविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥ - वा.सं. २८.२६

अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- शूद्रम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। जै १.२६४

१. आर्भवपवमानः - अथानुष्टुप् वागेव सा। तस्यां द्वे सामनी। द्वयं वाचा करोति, अन्नं चैनयात्ति वदति च । जै ,२५४

२. गायत्री वा अनुमतिस् त्रिष्टुग् राका जगती सिनीवाल्य् अनुष्टुप् कुहूर् धाता वषट्कारः पूर्वपक्षो राकापरपक्षः कुहूर्  । तैसं ,,,;

गायत्री वै यज्ञस्य प्रमा त्रिष्टुबभिमा जगत्युन्मानुष्टुप् प्रतिमैतावन्ति वै छन्दाँसि यज्ञं वहन्ति - काठ ३२,

३. अनुष्टुप् च वै सप्तदशश्च समभवताम् सानुष्टुप्चतुरुत्तराणि छन्दांस्यसृजत षडुत्तरान् स्तोमान् सप्तदशस्तावेतान्मध्यतः प्राजनयताम्। तां १०,,

४. गवामयने स्वरसामानः - अनुष्टुप्छन्दसो भवन्त्यानुष्टुभो वै प्रजापतिः साक्षादेव प्रजापतिमारभन्ते। तां ,, । .

५. द्वात्रिशतम् अनुब्रूयात् प्रतिष्ठाकामस्य अनुष्टुप् छन्दसां प्रतिष्ठा। तैसं ,, १०,

६.  गायत्री छन्द, स्तदजा, बृहस्पतिर् देवता, त्रिष्टुप् छन्द, स्तद्धिरण्यम्, इन्द्रो देवता, जगती छन्द, स्तद् गौः, प्रजापतिर् देवता , अनुष्टुप् छन्दस्तदायुर्मित्रो देवता । मै ,१३,१४, काठ ३९,४ ।

७. अनुष्टुप् (+ वै [ मै. ; काठ १९, १०; क ३०,८) सर्वाणि छन्दासि (+ परिभूः काठ., क. 1) तैसं ५, , , २-३; मै ३. १, , ,,  ४,,; काठ १९, ; क ३०,१ ।

८. आ त्वा रथम् यथोतय इत्य्(ऋ.८.६८.१) अनुष्टुभा मरुत्वतीयम् प्रतिपद्यते ।...अनुष्टुप् सोमस्य च्छन्दः । कौ १५, ; १६, ३ ।

९.  तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुम्मांसमनुष्टुप्स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती। ऐआ ,,

१०. अनुष्टुबनुस्तोभनात् । दे ३,७ ।

११. अनुष्टुबायतनानि ह्याज्यानि । ऐआ १,,२ ।

१२. अनुष्टुबुदीची (दिक् ) । माश ८,,,१२ ।

१३. अनुष्टुबेव सर्वम् । गो १, , १५ ।

१४. अनुष्टुब्भि छन्दसां योनिः । तां ११, , १७ ॥

१५. अनुष्टुब्भिरुत्तरतः (पशूनेवावरुन्धे)। मै ३, , २ ।

१६. गायत्री वसूनां , त्रिष्टुब् रुद्राणां , जगत्यादित्याना, अनुष्टुब् ( °ष्टुम् ! काठ., गो. ) मित्रस्य (पत्नी)। मै ,,; काठ ९,१०; गो १,,

१७. इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत्स परमामेव परावतमगच्छदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचं प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैच्छंस्तं पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मात्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते । ऐ ,१५

१८. अनुष्टुब् वै प्रजापतेः स्वं छन्दः । काठ २३, ; क ३५,८ ।

१९. अग्निहोत्रम् - अष्टाहं जुहोति। द्वात्रिंशद् आहुतयस् संपद्यन्ते।  द्वात्रिंशदक्षरा वा अनुष्टुप्। द्वात्रिंशद् विश्वे देवाः। ते ऽनुष्टुभम् अन्वायत्ताः ....अनुष्टुभं वै स ( यजमानः) छन्दसां जयति विश्वान् देवान् देवानाम् । जै , ३२

२०. अनुष्टुभमनुचंचूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषेति वाचि वै तदैन्द्रं प्राणं

न्यचायन्नित्येतत्तदुक्तं भवति । ऐआ ,,

२१. त्रयोदश मासः -- गायत्रींल्लोमभिः प्रविशामि त्रिष्टुभं त्वचा प्रविशामि जगतीं माँसेन प्रविशाम्यनुष्टुभमस्थ्ना प्रविशामि पङ्क्तिं मज्ज्ञा प्रविशामि ॥ काठ ३८, १४

२२. अनुष्टुभा प्रतिष्ठाकामस्य ( परि दध्यात् ) । तैसं ६,,,२ ।

२३. वाग् वै मनुष्यधूः पृथिवी देवधूः। अनुष्टुभि प्रस्तुतायां वाचा पृथिवीं संदध्यात् । जै , २७०

२४. अन्तो वा अनुष्टुप् (+ छन्दसाम् । तां.)। मै १,१०,१८, काठ ३६,१२; तां १९, १२,८ ।

न्द्राग्नी च हि देवानाम् बृहस्पतिश् चायातयामानः । अनुचरवती भवति । अजामित्वाय । अनुष्टुभानु चरति । आत्मा वै लोकम्पृणा प्राणो ऽनुष्टुप् तस्मात् प्राणः सर्वाण्य् अङ्गान्य् अनु चरति – तैसं ५.५.६.२

२५. आत्मा (+वै ! तैसं. ]) लोकम्पृणा [इष्टका] (+प्राणोऽनुष्टुप् । तैसं. 1)। तैसं ५,,,; माश ८, , ,

२६. आपो वा अनुष्टुप् । आपः स्वर सामानः । अद्भिर् हि इदम् सर्वम् अनुस्तब्धम् ।। कौ २४,; तां ८,,, १०,१० ।

२७. इदमुत्तरात्स्वस्तस्य श्रोत्र सौव शरच्छ्रौत्र्यनुष्टुप् शारद्यनुष्टुभः ऐडमैडान्मन्थी मन्थिन एकविश एकविशाद् वैराजं विश्वामित्र ऋषिः । मै २, ,१९; काठ १६,१९ ।

२८. इयं (पृथिवी ) वाऽनुष्टुप् । तां ८,,; माश १, ,, १६ ।

२९. उदीची दिक् शरदृतुमित्रावरुणौ देवता पुष्टं द्रविणमनुष्टुप् छन्दो वैराज सामैकविशः स्तोमः स उ त्रिणववर्तनिः पुराणा ऋषिस्तुर्यवाड् वयोऽभिभवो ऽयानाम् । मै २, ,२० ।

३०. उदीचीमातिष्ठानुष्टुप्त्वा छन्दसामवत्वेकविशः (छन्दसाव॰ [काठ. 1) स्तोमो, वैराज साम, मित्रावरुणौ देवता, पुष्टं (बलं [तैसं.] ) द्रविणम् । तैसं ,,१३, -२; मै २, , १०, काठ १५, ७॥

३१. उदीचीमारोह । अनुष्टुप्त्वावतु, वैराज सामैकविशस्तोमः, शरदृतुः, फलं द्रविणम् । माश ५, , ,६ ।

३२. उद्वतीषु स्रुवते , उद्वद्वा अनुष्टुभो रूपं, आनुष्टुभो राजन्य, स्तस्मादुद्वतीषु स्रुवते , अनुष्टुप् प्रथमा भवत्यनुष्टुब् उत्तमा, वाग् वा अनुष्टुब् , वाचा वा एतत् प्रयन्ति वाचोद्यन्ति। मै , , १०, तां १८, ,१४ ।

३३. एकविशतिधाम्नी वा अनुष्टुप् । मै ४, , ६ ।

३४. एषा वै प्रत्यक्षमनुष्टुब्यद्यज्ञायज्ञीयम् (साम ) तद्यत् तृतीयसवने कुर्युः प्रत्यक्षमनुष्टुभमृच्छेयुस्तस्मान्माध्यन्दिने कुर्वन्ति। तां० १५, ,१५

३५. क्षत्रं (प्रतिष्ठा [जै..) वा अनुष्टुप् (°ष्टुक् । तै. ] ) । तै ३,,,;

अनुष्टुप्सु प्रतिष्ठाकामः। प्रतिष्ठा वा अनुष्टुप्। जै ,२२९; ऐआ १,,३।

३६. गायत्री वै सा यानुष्टुप् । कौ १०, ; १४,, २८,५।

३७. अथ गायत्र्य् उदपतत्। ताम् अनुष्टुभ् माता प्रत्यन्वैक्षत। तस्मान् माता पुत्रं जनं यन्तं प्रत्यन्वीक्षेत जीवन्न् आहरन्न् आगच्छेति।  जै , २८८

३८. तं ( अनन्तम् ) विश्वे देवा वाङ् मनश्च प्रजापतिरनुष्टुभा छन्दसा यज्ञायज्ञीयेन

साम्नास्तुवन् । जै ,२३९।।

३९. तां ( अनुष्टुभम् ) बलवदुपब्दिमतीनिघातं गायेत् । निघ्नदिव ह खलु वा एतच्छन्दो यदनुष्टुप् । अनुष्टुभा वै वाचा छन्दसा देवा असुरानवाचोऽवाघ्नन् । जै १, २६१ ।

४०. तुर्यवाड्वयोऽनुष्टुप् छन्दः । तैसं ४, , ,; मै २,,; काठ १७,२ ।

४१. त्रिवत्सा अनुष्टुभे (नियोज्याः) । मै ३, १३, १७ ।

४२. दिशो (पादौ ।ष.] ) ऽनुष्टुप् । मै ३, , , काठ १९, ; क २९,; ष २,३ । ४३. द्वात्रिशदक्षरा (+वा [ जै.J) ऽनुष्टुप् (°ष्टुक् । तैसं.])। तैसं २, , १०, ; कौ

२६, ; जै० १,३२, तां १०,,१३; तै० १, , ,५।

४४. द्वात्रिंशदङ्गुलो भवति ( दक्षिणाग्निः )। अनुष्टुभा संमितोऽनुष्टुभा वीर्यं करोत्यनुष्टुभैव वीर्येण यजमानं समर्धयति । काठसंक १६ ।

४५. परमं वाऽएतच्छन्दो यदनुष्टुप् । माश १३, ,,१ ।

४६. परमा वा एषा छन्दसां यदनुष्टुक् । तैसं ५, , १२, १ ।

४७. .. अन्तरिक्षात् त्रिष्टुभामुष्माज् जगत्या  पशुभ्योऽनुष्टुभा ( देवा असुरानन्तरायन् ) । जै , ९९

४८. पश्चाजमिव वा एतच्छन्दो यदनुष्टुप् पश्चाजेवैषा होत्रा यदच्छावाक्या। काठ २६, ; क ४१,७॥

४९. आरुणे कस्मै कम् अनुष्टुब् यज्ञम् उद्यच्छतीति। .... स यत् प्रत्यवक्ष्यत् -- प्रजापतिर् वा अनुष्टुप् प्रजापतिर् वै कः - प्रजापतये कम् उद्यच्छतीति ह प्रत्यवक्ष्यद् इति। । तैसं ३, , , ; जै ,२९०, तां ४,,९ ।

५०. प्राजापत्यमेतच्छन्दो यदनुष्टुप् । मै ३, ,५ ।

५१. प्राणा ( °णो ! काठ., क. 1) वा अनुष्टुप्,  बृहतीर् उष्णिहाः पङ्क्तीर् अक्षरपङ्क्तीर् इति विषुरूपाणि छन्दास्य् उप दधाति विषुरूपा वै पशवः पशवः । तैसं , ,,; काठ २१,; क ३१,१८ ।

५२ प्राणा वा एतानीतराणि छन्दासि, वागनुष्टुप्,  यदनुष्टुभा सप्तमं जुहोति वाचं वा एतत् प्राणेषूपसंदधाति । मै , ,

५३. बृहस्पतिरष्टाक्षरयानुष्टुभमुदजयच्चतुर्धा ह्येतस्या (हि तस्या ! काठ.]) अष्टा अष्टा अक्षराणि। मै १, ११, १०; काठ १४,४ ।

५४. बृहस्पतिर्देवताऽनुष्टुप् छन्दो मित्रावरुणयोः पात्रमसि । तैसं ३, , , २।

५५. यच्चतुर्ध्रुवायां गृह्णात्यनुष्टुभे तद् गृह्णाति... इयं (पृथिवी ) वा अनुष्टुबस्यै वा इद सर्वं प्रभवति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति (ध्रुवा-पृथिवी ) । माश १,,,१६ ।

५६. यज्ञोऽनुष्टुक् ( ष्टुप् [काठ., क.!)। तैसं ५, , , ; काठ १९, ; क ३०,

५७. यस्य ते (प्रजापतेः) ऽहं ( अनुष्टुप् ) स्वं छन्दोऽस्मि । ऐ० ३, १३ ।

५८. यस्याष्टौ ता ( उष्णिहः ) अनुष्टुभम् (संपद्यन्ते )। कौ० ९,२ । ।

५९. या कुहूः सानुष्टुप् । ऐ० ३, ४७; ४८ (तु. मै ४, , ; काठ १२, ८)।

६०, वागनुष्टुप् (+सर्वाणि छन्दांसि । तै १, ,,५])। मै ३, ,; , , ; कौ ५,;

,, २६,, २७,;

प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्।...अनुष्टुभि प्रस्तुतायां यस्य कामयेत तस्य वाचा वाचं ध्यायेत्। जै , २६९; , ५८; तां ५, ,; तै १, ,,; माश ८, ,, , १०, , , ; ऐआ १, ,; ,; शांआ २, १५ ।

६१. वागेवासौ प्रथमानुष्टुप् । कौ १५,; १६,४।

६२. वाग्वा (ग्घि [माश ३,,,२)) अनुष्टुप् (°ष्टुक् [तै.) । तैसं ५,,,, , ; मै २,,;,,८, ४,,; काठसंक १४१; क ३१, १८; ऐ १,२८,,१५,,३६; गो २,, १६;

अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् अर्वाचीम् अभिनुदन् गायति वाचो ऽनपक्रमाय। यत् पराचीम् अपनुदन् गायेद् वाचं प्रधमेद् वाग् अस्माद् अपक्रामुका स्यात्। तां यद् अर्वाचीम् अभिनुदन् गायत्य् आत्मन्न् एव तद् वाचं प्रतिष्ठापयति। तस्यै निरुक्तं चानिरुक्तं च पदे गायति।-जै ,१०२, १६१, २७२,,२२१,४२५; तै ३,,१०,; माश १,,,१६,,,,६ ।

६३. वाचमनुष्टुभं तन्वं संनिर्मिमीते । ऐआ २,,६ ।

६४. तेषां प्राणम् एव गायत्र्यावृञ्जत चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। अस्माद् एवैनान् लोकाद् गायत्र्यान्तरायन्न् अन्तरिक्षात् त्रिष्टुभामुष्माज् जगत्या पशुभ्यो ऽनुष्टुभा। जै , ९९,

बहिष्पवमानं गायति। मन एव रेतस्यया समीरयति प्राणं गायत्र्या चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। आत्मानम् एव पंक्त्या प्रत्युपदधाति। जै १.२५३

६५. वास्त्वनुष्टुब्वास्तु स्विष्टकृद्वास्तावेवैतद्वास्तु दधाति पेसुकं वै वास्तु पिस्यति ह प्रजया पशुभि । माश ,,,१८

६६. विश्वेदेवा अनुष्टुभं समभरन् । जैउ १,,,७ ।

६७. विश्वेषां देवानामनुष्टुप् । अनुष्टुभैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च विश्वेषु देवेषु तृतीयसवने ऽध्य् अपचितिम् अगच्छताम्।जै ,१०१

६८. वसूनां गायत्री । रुद्राणां त्रिष्टुक् । आदित्यानां जगती । विष्णोरनुष्टुक् (पत्नी)। तैआ ,,

६९.  त्रिष्टुभं चानुष्टुभं च विहरति वृषा वै त्रिष्टुब्योषाऽनुष्टुप्तन्मिथुनं। ऐआ ,,

७०. वरुणोऽसि सत्यधर्मेत्याह । अनुष्टुभमेवैतेनाभिव्याहरति । सत्यानृते वा अनुष्टुप् । सत्यानृते वरुणः । (मित्रोऽसि सुशेव इत्याह । जगतीमेवैतेनाभिव्याहरति ।) तै ,,१०,

७१. स पद्भयाम् एव प्रतिष्ठाया एकविंशं स्तोमम् असृजतानुष्टुभं छन्दो यज्ञायज्ञीयं साम न कां चन देवतां शूद्रं मनुष्यम् अवि पशुम्। जै ,६९

[ष्टुभ- अग्नि- ३४८ द्र.]।

 

अनुष्टुप्छन्दस्

१. यस्ते राजन् वरुण द्रुहः पाशो गायत्रच्छन्दाः पृथिवीमन्वाविवेश ब्रह्मणि प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशस्त्रिष्टुप् छन्दा अन्तरिक्षमन्वाविवेश क्षत्रे प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशो जगच्छन्दा दिवमन्वाविवेश विशि प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशोऽनुष्टुप् छन्दा दिशोऽन्वाविवेश पशुषु प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा ॥ - काठ १७,१९

२. यस्ते राजन् वरुणानुष्टुप्छन्दाः पाशो दिक्षु प्रतिष्ठितस्तं त एतेनावयजे । मै २, , ३ ।।

३. शूद्रोऽनुष्टुप्छन्दा वेश्मपतिदेवः । तस्मादु पादावनेज्येनैव जिजीविषति । पद्भ्यां ह्येनं प्रतिष्ठाया असृजत (प्रजापतिः) । जै १, ६९ ।

आनुष्टुभ

१. आनुष्टुभं वै चतुर्थमहः । कौ २२, , ८ ।

२. आनुष्टुभः पुरुषस्तस्मात् पुरुषः सर्वां वाचो वदति । मै ४,, ५ ।

३. तस्मादानुष्टुभं छन्दासि नानुव्यूहन्ति । तां ६, , ११।

४. विश्वे त्वा देवा उत्तरतोऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा । तै २,,१५,५ ।

५. विश्वे त्वा देवा वैश्वानराः कुर्वन्त्वानुष्टुभेन ( आछृन्दन्त्वा' [ मै. ]; कृण्वन्त्वा

माश ६,,,६]; धूपयन्त्वा [माश ६,,,१०]; संसृजन्त्वा तैसं.] ) च्छन्दसाङ्गिरस्वत् । तैसं ४, ,,; मै २, ,; काठ १६,५।

६. विष्णोः क्रमोऽसि (+ शत्रूयतो हन्ताऽऽनुष्टुभं छन्द आरोह, दिशोऽनुविक्रमस्व [काठ १६,८) । काठ १,४।