Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

आप्यायन

टिप्पणी : आप्यायन शब्द पुराणों में जहां एक गौण शब्द के रूप में प्रकट हुआ है, वैदिक साहित्य में इसका महत्त्वपूर्ण स्थान है। छान्दोग्य आदि कईं उपनिषदों का आरम्भ ॐ आप्यायन्तु ममाङ्गानि इत्यादि शान्ति मन्त्र से होता है। ओंकार ही ऐसा अक्षर है जो सारे व्यक्तित्व को आप्यायित करता है(जैमिनीय ब्राह्मण १.१३६?)। सामान्य जीवन में हम अन्न के द्वारा शरीर का आप्यायन अर्थात् वर्धन, मोटा-ताजा करते हैं। योग के क्षेत्र में प्रतीक के रूप में दधि, मधु और घृत को अन्नाद्य अर्थात् परम अन्न कहा जाता है जो अलौकिक आनन्द देने वाले हैं, आप्यायन करने वाले हैं(जैमिनीय ब्राह्मण १.२२४)। प्रश्न उठता है कि यह दिव्य अन्न कहां से प्राप्त हो? इसका उत्तर तैत्तिरीय ब्राह्मण ३.२.१.४ ३.७.४.१६ में एक धेनु की कल्पना करके दिया गया है जो अपने वत्स इन्द्र को दुग्ध आदि से आप्यायित करती है। श्री सायणाचार्य ने इस गौ को गङ्गा, यमुना आदि कहा है जो लक्ष्मीनारायण संहिता में कथित ऋषि आप्यायन की माता गङ्गा की व्याख्या हो सकता है। तैत्तिरीय ब्राह्मण ३.७.५.१३ में अमावास्या को ही आप्यायन करने वाली धेनु कहा गया है। तैत्तिरीय ब्राह्मण ३.७.५.२ में घृतयोनि वाली अग्नि से आप्यायन की प्रार्थना की गई है।

     केवल गङ्गा को आप्यायन करने वाली गौ कहने मात्र से काम नहीं चलता। तैत्तिरीय आरण्यक ४.११.१२ तथा शतपथ ब्राह्मण १४.३.१.८ में घर्म(संभवतः मुख पर प्रकट होने वाली गर्मी, तेज) को आप्यायन करने वाला कहा गया है। यह शरीर में व्यय होने के पश्चात् अवशिष्ट ऊर्जा का रूप है(शतपथ ब्राह्मण १.५.३.२५)। यह विचारणीय है कि क्या पुराणों में अग्नि के धूम से आप्यायन मेघों की उत्पत्ति कहने से तात्पर्य घर्म से है?

     लिङ्ग पुराण में आप्यायन मेघों की ब्रह्मा के श्वास से उत्पत्ति के संदर्भ में महानारायणोपनिषत् ७० में प्राण, अपान, व्यान, उदान व समान में श्रद्धा का निवेश कराने के पश्चात् इनका अन्न द्वारा आप्यायन करने का उल्लेख है। गोपथ ब्राह्मण १.१.३९ में उल्लेख है कि सात प्राणों, सात अपानों और सात व्यानों के आप्यायन से क्या-क्या प्राप्ति होती है।

     आप्यायन के संदर्भ में कुछ वैदिक मन्त्रों की व्याख्या ब्राह्मण ग्रन्थों में पुनः-पुनः की गई है। शुक्ल यजुर्वेद ५.७ तथा तैत्तिरीय संहिता १.२.११.१ के मन्त्र अंशुरंशुष्टे देव सोम आप्यायताम् इन्द्राय एकधनविदे इत्यादि मन्त्र की व्याख्या शतपथ ब्राह्मण ३.४.३.१८ तथा गोपथ ब्राह्मण २.२.४ में की गई है। यज्ञ में यजमान रूपी इन्द्र सोम का आप्यायन करता है और सोम इन्द्र का। इस मन्त्र तथा कईं अन्य मन्त्रों जैसे अथर्ववेद ५.२९.१२, ७.८६.५ तथा १२.३.२० आदि में आप्यायन के संदर्भ में अंशु और सोम का एक साथ उल्लेख आता है जो एक दूसरे का आप्यायन करते हैं। अंशु को संवत्सर के अंश अर्थात् मास, ऋतु, पर्व, अहोरात्र आदि कह सकते हैं जो सोम अथवा चन्द्रमा को ज्योति प्रदान करते हैं, उसका आप्यायन करते हैं। देवगण अंशु का आप्यायन करते हैं(अथर्ववेद ७.८६.६) और उसको अक्षित ही भक्षण करते हैं, जबकि सोम या चन्द्रमा का पान करने के पश्चात् उसको पुनः आप्यायित करके पूर्ण करना होता है( ऋ. १०.८५.५)।

     अथर्ववेद १८.४.६४ में पितृमेध के संदर्भ में उल्लेख है कि अग्नि पितरों को अंगों सहित पितृलोक में ले जा सके, इसके लिए अंगों के आप्यायन की आवश्यकता होती है। शतपथ ब्राह्मण ३.९.१.४ में प्रजापति द्वारा एकादश प्रकार से स्वयं के आप्यायन का वर्णन है।

प्रथम प्रकाशन : १९९४ ई.

  

माध्यन्दिनसवने ग्रावस्तोत्रे आ प्यायस्व समेतु (ऋ. १.९१.१६-१८) इति तिस्रः सोमे आप्यय्यमाने पठन्ति। तत्र आप्यायनं उदकसेकं उच्यते।

भक्षिताप्यायितानां सादितानां चमसानां नाराशंसशब्दसंज्ञा। आप्यायितांश्चमसान् सादयन्ति ते नाराशंसा भवन्ति। भक्षितेषु चमसेषु पुनः पूरणमाप्यायनमुच्यते।

अद्भिः संस्पर्शाधिक्यात् तदेवाप्यायनं स्मृतम्।– श्रौतयज्ञप्रक्रिया – पदार्थानुक्रमकोषः, प्रणेता पं. पीताम्बरदत्त शास्त्री(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५ई.)

 यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः । वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥ऋ. १०.८५.

समाहर जातवेदो यद्धृतं यत्पराभृतम् । गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥१२॥ सोमस्येव जातवेदो अंशुरा प्यायतामयम् । अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥शौअ ५.२९.१३

योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व । आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥५॥ यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति । तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥शौअ ७.८६.

त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् । अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥शौअ १२.३.२०

यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः ।
तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥शौअ १८.४.६४

 स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययति आपो ऽमृतम् स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययति आपो ऽमृतम् स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरिक्षं दिवम् नक्षत्राण्य् ऋतून् आर्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययति गोब्रा १.१.३९

अन्तिकम् इव खलु वा अस्यैतत् प्रचरन्ति यत् तानूनप्त्रेण प्रचरन्ति अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद इत्य् आह यद् एवास्यापवायते यन् मीयते तद् एवास्यैतेनाप्याययन्ति आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह उभाव् एवेन्द्रं च सोमं चाप्याययन्ति आप्याययास्मान्त् सखीन्त् सन्या मेधया प्रजया धनेनेत्य् आह ऋत्विजो वा एतस्य सखायस् तान् एवास्यैतेनाप्याययन्ति स्वस्ति ते देव सोम सुत्याम् उदृचम् अशीयेत्य् आह आशिषम् एवैताम् आशास्ते प्र वा एतस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति अन्तरिक्षदेवत्यो हि सोम आप्यायितः
एष्टा राय एष्टा वामानि प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति – गोब्रा २.२.४

शुर्-अशुष्टे देव सोमाप्यायताम् इन्द्रायैकधनविदे । आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व । आ प्याययास्मान्त् सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय । एष्टा रायः प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो द्यावापृथिवीभ्याम् ॥ - वा.सं ५.७

सौमिकी वेदिः (अवान्तरदीक्षा, उपसदः) --  शुरशुस् ते देव सोमाऽऽ प्यायताम् इन्द्रायैकधनविद आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व । आऽऽ प्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय । - तैसं १.२.११.१

यज्ञो हि श्रेष्ठतमं कर्म । तस्मादेवमाह । आप्यायध्वमघ्निया देवभागमित्याह ४
वत्सेभ्यश्च वा एताः पुरा मौष्येभ्यश्चाप्यायन्त । देवेभ्य एवैना इन्द्रा याप्यायति । - तैब्रा ३.२.१.५

 कामधुक्षः प्र णो ब्रूहि । इन्द्रा य हविरिन्द्रि यम् । अमूं यस्यां देवानाम् । मनुष्याणां पयो हितम् । बहु दुग्धीन्द्रा य देवेभ्यः । हव्यमाप्यायतां पुनः १६ वत्सेभ्यो मनुष्येभ्यः । - तैब्रा ३.७.४.१६

मुखमपोहामि । सूर्यज्योतिर्विभाहि । महत इन्द्रि याय । आप्यायतां घृतयोनिः । - तैब्रा ३.७.५.२

अमावास्या सुभगा सुशेवा । धेनुरिव भूय आप्यायमाना । सा नो दोहता सुवीर्यम् । - तैब्रा ३.७.५.१३

घर्मैतत्तेऽन्नमेतत्पुरीषम् । तेन वर्धस्व चा च प्यायस्व । - तैआ ४.११.१२

स यज्जुह्वामाज्यं परिशिष्टमासीत् । येन यज्ञं समस्थापयंस्तेनैव यथापूर्वं हवींष्यभ्यघारयन्पुनरेवैनानि तदाप्याययन्नयातयामान्यकुर्वन्नयातयाम ह्याज्यं – माश १.५.३.२५

 एवं वा एष यज्ञं सम्भरति यो दीक्षते वाग्वै यज्ञस्तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत्पुनराप्याययति- ३.४.३.[१६] ते वै षड्भूत्वाप्याययन्ति । षड्वा ऋतव ऋतव एवैतद्भूत्वाप्याययन्ति - ३.४.३.[१७] त आप्याययन्ति । अंशुरंशुष्टे देव सोमाप्यायतामिति तदस्यांशुमंशुमेवाप्याययन्तीन्द्रायैकधनविद इती – माश ३.४.३.१८

स ऐक्षत प्रजापतिः । कथं नु पुनरात्मानमाप्याययेयोप मा प्रजाः समावर्तेरंस्तिष्ठेरन्मे प्रजाः श्रियेऽन्नाद्यायेति - ३.९.१.[३] सोऽर्चञ्छ्राम्यंश्चचार प्रजाकामः । स एतामेकादशिनीमपश्यत्स एकादशिन्येष्ट्वा प्रजापतिः पुनरात्मानमाप्याययतोपैनं प्रजाः समावर्तन्तातिष्ठन्तास्य प्रजाः श्रियेऽन्नाद्याय स वसीयानेवेष्ट्वाभवत् - ३.९.१.[४] तस्मै कमेकादशिन्या यजेत । एवं हैव प्रजया पशुभिराप्यायत उपैनं प्रजाः समावर्तन्ते तिष्ठन्तेऽस्य प्रजाः श्रियेऽन्नाद्याय स वसीयानेवेष्ट्वा भवत्येतस्मै कमेकादशिन्या यजते - ३.९.१.[५] स आग्नेयं प्रथमं पशुमालभते । अग्निर्वै देवतानां मुखं प्रजनयिता स प्रजापतिः स उ एव यजमानस्तस्मादाग्नेयो भवति - ३.९.१.[६] अथ सारस्वतम् । वाग्वै सरस्वती वाचैव तत्प्रजापतिः पुनरात्मानमाप्याययत वागेनमुपसमावर्तत वाचमनुकामात्मनोऽकुरुत वाचो एवैष एतदाप्यायते वागेनमुपसमावर्तते वाचमनुकामात्मनः कुरुते - ३.९.१.[७] अथ सौम्यम् । अन्नं वै सोमोऽन्नेनैव तत्प्रजापतिः पुनरात्मानमाप्याययतान्नमेनमुपसमावर्ततान्नमनुकमात्मनोऽकुरुतान्नेनो एवैष एतदाप्यायतेऽन्नमेनमुपसमावर्ततेऽन्नमनुकमात्मनः कुरुते - ३.९.१.[८] तद्यत्सारस्वतमनु भवति । वाग्वै सरस्वत्यन्नं सोमस्तस्माद्यो वाचा प्रसाम्यन्नादो हैव भवति - ३.९.१.[९] अथ पौष्णम् । पशवो वै पूषा पशुभिरेव तत्प्रजापतिः पुनरात्मानमाप्याययत पशव एनमुपसमावर्तन्त पशूननुकानात्मनोऽकुरुत पशुभिर्वेवैष एतदाप्यायते पशव एनमुपसमावर्तन्ते पशूननुकानात्मनः कुरुते - ३.९.१.[१०] अथ बार्हस्पत्यम् । ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैतत्प्रजापतिः पुनरात्मानमाप्याययत ब्रह्मैनमुपसमावर्तत ब्रह्मानुकमात्मनोऽकुरुत ब्रह्मणो एवैष एतदाप्यायते ब्रह्मैनमुपसमावर्तते ब्रह्मानुकमात्मनः कुरुते - ३.९.१.[११] तद्यत्पौष्णमनु भवति । पशवो वै पूषा ब्रह्म बृहस्पतिस्तस्माद्ब्राह्मणः पशूनभिधृष्णुतमः पुराहिता ह्यस्य भवन्ति मुख आहितास्तस्मादु तत्सर्वं दत्त्वाजिनवासी चरति - ३.९.१.[१२] अथ वैश्वदेवम् । सर्वं वै विश्वे देवाः सर्वेणैव तत्प्रजापतिः पुनरात्मानमाप्याययत सर्वमेनमुपसमावर्तत सर्वमनुकमात्मनोऽकुरुत सर्वेणो एवैष एतदाप्यायते सर्वमेनमुपसमावर्तते सर्वमनुकमात्मनः कुरुते - ३.९.१.[१३] तद्यद्बार्हस्पत्यमनु भवति । ब्रह्म वै बृहस्पतिः सर्वमिदं विश्वे देवा अस्यैवैतत्सर्वस्य ब्रह्म मुखं करोति तस्मादस्य सर्वस्य ब्राह्मणो मुखम् - ३.९.१.[१४] अथैन्द्रम् । इन्द्रियं वै वीर्यमिन्द्रमिन्द्रियेणैव तद्वीर्येण प्रजापतिः पुनरात्मानमाप्याययतेन्द्रियमेनं वीर्यमुपसमावर्ततेन्द्रियं वीर्यमनुकमात्मनोऽकुरुतेन्द्रियेणो एवैष एतद्वीर्येणाप्यायत इन्द्रियमेनं वीर्यमुपसमावर्तत इन्द्रियं वीर्यमनुकमात्मनः कुरुते - ३.९.१.[१५] तद्यद्वैश्वदेवमनु भवति । क्षत्रं वा इन्द्रो विशो विश्वे देवा अन्नाद्यमेवास्मा ऽएतत्पुरस्तात्करोति - ३.९.१.[१६] अथ मारुतम् । विशो वै मरुतो भूमो वै विड्भूम्नैव तत्प्रजापतिः पुनरात्मानमाप्याययत भूमैनमुपसमावर्तत भूमानमनुकमात्मनोऽकुरुत भूम्नो एवैष एतदाप्यायते भूमैनमुपसमावर्तते भूमानमनुकमात्मनः कुरुते - ३.९.१.[१७] तद्यदैन्द्रमनु भवति । क्षत्रं वा इन्द्रो विशो विश्वे देवा विशो वै मरुतो विशैवैतत्क्षत्रं परिबृंहति तदिदं क्षत्रमुभयतो विशा परिबृढम् - ३.९.१.[१८]
अथैन्द्राग्नम् । तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र उभाभ्यामेव तद्वीर्याभ्याम्प्रजापतिः पुनरात्मानमाप्याययतोभे एनं वीर्ये उपसमावर्तेतामुभे वीर्ये अनुके आत्मनो कुरुतोभाभ्याम्वेवैष एतद्वीर्याभ्यामाप्यायत उभे एनं वीर्ये उपसमावर्तेते उभे वीर्ये अनुके आत्मनः कुरुते - ३.९.१.[१९] अथ सावित्रम् । सविता वै देवानां प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते - ३.९.१.[२०] अथ वारुणमन्तत आलभते । तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति माश ३.९.१.[२१]

या ते घर्म पृथिव्यां शुगिति। यैव पृथिव्यां शुग्या जगत्यां सदस्येति यैव जगत्यां सदस्या सा तऽआप्यायतां निष्ट्यायतां  - माश १४.३.१.८

यो वै दुग्धाद् दुग्धम् उपैति न स आप्यायते। अथ यो ऽदुग्धाद् दुग्धम् उपैति स आप्यायते। अदुग्धाद् वा एष दुग्धम् उपैति य एते अक्षरे(वषट्कारं) उपैति। - जैब्रा. १.११३

अथो सर्पिषोर् अक्ष्योर् आदधीत चक्षुष आप्यायनाय। तद् अपि विज्ञानम् आसाद्। - जै १.१६७

अहं चेत्य अब्रवीद् वरुणः। अहं वां ज्योतिर् धारयिष्यामीत्य् अग्निर् अब्रवीत्। ताव् अन्वभ्यवैताम्। ताव् एकं तृतीयम् उदाहरताम्। तेन प्रातस्सवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्रावरुणम् अनुशस्यते। - जै १.१८०

अहं चेत्य् अब्रवीद् बृहस्पतिः। ताव् अन्वभ्यवैताम्। ताव् एवैकं तृतीयम् उदाहरताम्। तेन माध्यन्दिनं सवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्राबार्हस्पत्यम् अनुशस्यते। - जैब्रा १.१८०

अहं चेत्य् अब्रवीद् विष्णुः। ताव् अन्वभ्यवैताम्। ताव् एवैकं तृतीयम् उदाहरताम्। तेन तृतीयसवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्रावैष्णवम् अनुशस्यते। - जैब्रा १.१८०

घृतश्चुता च वै मधुश्चुता च देवा यत्रयत्रैषां यज्ञस्योपादस्यत तद् आप्याययन्त। तस्माद् आहुस् सोमस्यैवांशुर् आप्यायस्वेति। उपदस्तेवैषा यद् रात्रिः। तद् यद् घृतश्चुन्निधनं भवत्य् ऐवैतम् एतेन प्याययन्ति॥ - जैब्रा १.२२४

अथ यत् ततो ऽध्वर्युस् संप्रैषान् वदति प्रजापतय एव तद् यज्ञस्य रसं प्रदाय तम् आप्याययति। - जै १.२७८

आमहीयवम् -- स यद् ओम् इत्य् आदत्ते ऽमुम एवैतद् आदित्यं मु आधत्ते। स यथा मधुना लाजान् प्रयुयाद् एवम् एवैतेनाक्षरेण सामन् रसं दधाति। तद् आप्याययति। - जैब्रा १.३२२

गौर् एव रथन्तरम् अश्वो बृहद् अजा वैरूपम् अविर् वैराजं व्रीहयश् शक्र्यो यवा रेवतयः। तद् ये ऽस्माद् रसात् सृष्टा भवन्ति तान् अस्मिन् दधाति। तद् आप्याययति। - जैब्रा १.३३३

स यद् ओम् इत्य् आदत्ते ऽमुम् एवैतद् आदित्यं मुख आधत्ते। स यथा मधुना लाजान् प्रयुयाद् एवम् एवैतेनाक्षरेण सामन् रसं दधाति। तद् आप्यायति। तेनास्यापीनेन रसवता स्तुतं भवति। - जैब्रा १.३३६

स ब्रूयाद् अमुं वै लोकं मनुष्याः पूर्वपक्षे वर्धयन्त्य् अमुम् आप्याययन्त्य् अमुं प्रजनयन्ति। पूर्वपक्षे यजमानो विद्याद् अमुम् इदं लोकं वर्धयाम्य् अमुम् आप्याययाम्य् अमुं प्रजनयामि देवानाम् अनुषेणो ऽस्मीति। - जैब्रा १.३५९

इमं ह वै लोकं देवा अपरपक्षे वर्धयन्तीमम् आप्याययन्तीमं प्रजनयन्ति – जैब्रा १.३६०

अथ यत् स्थूर् यवाचितम् अच्छावाकाय भवति, धीतेव ह वा एषा होत्रायातयाम्नी यद् अच्छावाकीया। ताम् एतैर् एव यवैर् आप्याययन्ति। तत् स्थूरि भवति क्षेमस्य रूपम्। - जैब्रा २.२०३