Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Anapatya to aahlaada only)

by

Radha Gupta, Suman Agarwal, Vipin Kumar

Home Page

Anapatya - Antahpraak (Anamitra, Anaranya, Anala, Anasuuyaa, Anirudhdha, Anil, Anu, Anumati, Anuvinda, Anuhraada etc.)

Anta - Aparnaa ((Antariksha, Antardhaana, Antarvedi, Andhaka, Andhakaara, Anna, Annapoornaa, Anvaahaaryapachana, Aparaajitaa, Aparnaa  etc.)

Apashakuna - Abhaya  (Apashakuna, Apaana, apaamaarga, Apuupa, Apsaraa, Abhaya etc.)

Abhayaa - Amaavaasyaa (Abhayaa, Abhichaara, Abhijit, Abhimanyu, Abhimaana, Abhisheka, Amara, Amarakantaka, Amaavasu, Amaavaasyaa etc.)

Amita - Ambu (Amitaabha, Amitrajit, Amrita, Amritaa, Ambara, Ambareesha,  Ambashtha, Ambaa, Ambaalikaa, Ambikaa, Ambu etc.)

Ambha - Arishta ( Word like Ayana, Ayas/stone, Ayodhaya, Ayomukhi, Arajaa, Arani, Aranya/wild/jungle, Arishta etc.)

Arishta - Arghya  (Arishtanemi, Arishtaa, Aruna, Arunaachala, Arundhati, Arka, Argha, Arghya etc.)           

Arghya - Alakshmi  (Archanaa, Arjuna, Artha, Ardhanaareeshwar, Arbuda, Aryamaa, Alakaa, Alakshmi etc.)

Alakshmi - Avara (Alakshmi, Alamkara, Alambushaa, Alarka, Avataara/incarnation, Avantikaa, Avabhritha etc.)  

Avasphurja - Ashoucha  (Avi, Avijnaata, Avidyaa, Avimukta, Aveekshita, Avyakta, Ashuunyashayana, Ashoka etc.)

Ashoucha - Ashva (Ashma/stone, Ashmaka, Ashru/tears, Ashva/horse etc.)

Ashvakraantaa - Ashvamedha (Ashwatara, Ashvattha/Pepal, Ashvatthaamaa, Ashvapati, Ashvamedha etc.)

Ashvamedha - Ashvinau  (Ashvamedha, Ashvashiraa, Ashvinau etc.)

Ashvinau - Asi  (Ashvinau, Ashtaka, Ashtakaa, Ashtami, Ashtaavakra, Asi/sword etc.)

Asi - Astra (Asi/sword, Asikni, Asita, Asura/demon, Asuuyaa, Asta/sunset, Astra/weapon etc.)

Astra - Ahoraatra  (Astra/weapon, Aha/day, Ahamkara, Ahalyaa, Ahimsaa/nonviolence, Ahirbudhnya etc.)  

Aa - Aajyapa  (Aakaasha/sky, Aakashaganga/milky way, Aakaashashayana, Aakuuti, Aagneedhra, Aangirasa, Aachaara, Aachamana, Aajya etc.) 

Aataruusha - Aaditya (Aadi, Aatma/Aatmaa/soul, Aatreya,  Aaditya/sun etc.) 

Aaditya - Aapuurana (Aaditya, Aanakadundubhi, Aananda, Aanarta, Aantra/intestine, Aapastamba etc.)

Aapah - Aayurveda (Aapah/water, Aama, Aamalaka, Aayu, Aayurveda, Aayudha/weapon etc.)

Aayurveda - Aavarta  (Aayurveda, Aaranyaka, Aarama, Aaruni, Aarogya, Aardra, Aaryaa, Aarsha, Aarshtishena, Aavarana/cover, Aavarta etc.)

Aavasathya - Aahavaneeya (Aavasathya, Aavaha, Aashaa, Aashcharya/wonder, Aashvin, Aashadha, Aasana, Aasteeka, Aahavaneeya etc.)

Aahavaneeya - Aahlaada (Aahavaneeya, Aahuka, Aahuti, Aahlaada etc. )

 

 

 

अग्र-> अग्रे-गू

अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः।

अथा सोमं सुतं पिब॥ १.०१६.०७

समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः।

सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि॥ १.०५३.०५

अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे।

यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम्॥ १.११६.०५

प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे।

अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम्॥ १.१२७.१०

पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य।

पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः॥ ३.००५.०५

विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः।

अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात्॥ ३.०३१.०६

यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात्।

वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता॥ ३.०३९.०३

आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते।

इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे॥ ३.०५८.०४

 

प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति।

यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः॥ ४.००५.०८

अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः।

अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै॥ ४.०२७.०५

अयं वो यज्ञ ऋभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे।

प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः॥ ४.०३४.०३

सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः।

अग्रेपाभिर्ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः॥ ४.०३४.०७

ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तं पुरुक्षुम्।

ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति॥ ४.०३४.१०

अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु।

त्वं हि पूर्वपा असि॥ ४.०४६.०१

वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु।

आ याहि सोमपीतये स्पार्हो देव नियुत्वता॥ ४.०४७.०१

अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति।

यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम्॥ ५.००१.०४

जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु।

दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान्॥ ५.००१.०५

समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता।

अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी॥ ५.०४४.०९

अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम्।

येना वसून्याभृता तृळ्हा रक्षांसि वाजिना॥ ६.०१६.४८

वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः।

अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः॥ ६.०६५.०२

स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा।

अग्रे यज्ञस्य शोचतः॥ ७.०१५.०५

एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि।

अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम्॥ ७.०८०.०२

नियुवाना नियुतः स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक्।

इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे॥ ७.०९१.०५

प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै।

प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः॥ ७.०९२.०२

उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा।

अग्रे विक्षु प्रदीदयत्॥ ८.००६.२४

स त्वं नो देव मनसा वायो मन्दानो अग्रियः।

कृधि वाजाँ अपो धियः॥ ८.०२६.२५

प्र धारा मध्वो अग्रियो महीरपो वि गाहते।

हविर्हविष्षु वन्द्यः॥ ९.००७.०२

प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने।

सद्माभि सत्यो अध्वरः॥ ९.००७.०३

पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः।

अभि विश्वानि काव्या॥ ९.०६२.२५

इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि।

उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते॥ ९.०६९.०१

त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः।

अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ९.०७१.०८

ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया।

धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः॥ ९.०७३.०९

अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति।

अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा॥ ९.०८६.१२

सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः।

द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि॥ ९.०८६.४२

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः।

हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः॥ ९.०८६.४५

प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना।

भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते॥ ९.०९६.०१

सोमः पुनान ऊर्मिणाव्यो वारं वि धावति।

अग्रे वाचः पवमानः कनिक्रदत्॥ ९.१०६.१०

अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात्।

अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः॥ १०.००१.०१

उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा।

ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै॥ १०.००८.०४

भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः।

यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत्॥ १०.०६९.०१

बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः।

यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः॥ १०.०७१.०१

अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि।

जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव॥ १०.०८३.०७

स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत्।

अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन्॥ १०.०९९.०६

प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम्।

व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम्॥ १०.११०.०४

यथाभवदनुदेयी ततो अग्रमजायत।

पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम्॥ १०.१३५.०६

 

 

 

 

 

 

 

 

 

 

 

ता यत् समुद्रं गच्छन्ति (आपः) तेनाग्रेगुवः (उच्यन्ते)। माश १,,,७ ।

ता यत् प्रथमाः (आपः) सोमस्य राज्ञो भक्षयन्ति तेनाग्रेपुवः । माश १,,,७ ।

अग्र्यमिव हीदम् (आग्रयणाख्यं हविः) । माश २,, ,१३ ।

आग्रयण

१. अग्नेस्त्वा मात्रया जगत्यै वर्तन्याऽऽग्रयणस्य वीर्येण देवस्त्वा….सृजतु । तैसं २, ,१०,३ ।

२. अष्टमेऽहन् (तृतीयेऽहन् ।तैसं ७,,,१]) आग्रयणो गृह्यते । तैसं ७,,,४ ।

३. आग्रयणेनान्नाद्यकामो यजेत । कौ ४,१२ ।

४. आग्रयणो द्वादशकपालो भवति । मै ४,,२ ।

५. आत्माग्रयणः (ग्राय [मै ४,,४]) । मै ४,,;

मनो ह वा अस्य सवितात्माऽऽग्रयण आत्मन्येवैतन्मनो दधाति प्राणो ह वा अस्य सविताऽऽत्माग्रयण आत्मन्येवैतत्प्राणं दधाति- माश , , ,

६. त्मा वा आग्रयण आत्मनो वा इमानि सर्वाण्यङ्गानि प्रभवन्त्येतस्मादन्ततो हारियोजनं ग्रहं गृह्णाति तदात्मन्येवास्यां प्रतिष्ठायामन्ततो यज्ञः प्रतितिष्ठति - माश ,,,,

तान्(अतिग्राह्यान्) वै प्रातःसवने गृह्णीयात् । आग्रयणं गृहीत्वात्मा वा आग्रयणो बहु वा इदमात्मन एकैकमतिरिक्तं क्लोम हृदयं त्वद्यत्त्वत् माश ,,,; जै १,३५३ ।

७. उर इवैतद् यज्ञस्य वाग् इव यद् आग्रयणः । वाचैवैनम् इन्द्रियेण सम् अर्धयति न ततः पापीयान् भवति । तैसं , ,,

८. एष गायत्रियै लोके गृह्यते यद् आग्रयणः । तैसं ६,,,१।

९. जागत (+वा । तैसं.]) आग्रयणः । तैसं ७,,,; क ४६,५।

१०. पिता वा आग्रयणः, पुत्रा ग्रहाः । काठ २७,९ ।

११. प्रजापतिर्वा (वाग्वा [तैसं.]) आग्रयणः । तैसं ७,,,; मै ४,,,,,  ८, ; काठ २७,; क ४४,९।

१२. यच्चतुर्थेऽहन्नाग्रयणो गृह्यते स्व एवैनमायतने गृह्णाति । तैसं ७,,,२ ।

१३. यां वाऽअमूं ग्रावाणमाददानो वाचं यच्छत्यत्र वै साग्रेऽवदत्तद्यत्साऽत्राग्रेऽवदत्तस्मादाग्रयणो नाम । माश ४,,,६ ।

१४. विश्वे देवा देवतोष्णिहा छन्द आग्रयणस्य पात्रम् असि । तैसं ,, ,

१५. यद् अकृत्वाग्रयणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अद्यात् संवत्सराद् वा एतद् अधिप्रजायते यद् आग्रयणम् संवत्सरं वै ब्रह्मा। गो , , १७

१६. साऽऽग्रयणं प्रत्याऽगच्छत् (वाक् ) तदाग्रयणस्याऽऽग्रयणत्वं तस्मादाग्रयणे वाग् वि सृज्यते । तैसं ६,,११,२-३ ।

 

आग्रायण

१. अग्रं ह्याग्रायणः । मै ४,,,,९ ।

२. आग्रायणो वै गायत्र्या वत्सः । मै ४,,४ (तु. काठ २७,९)।

३. आत्मानं त आग्रायणः पातु । मै ४,,७ ।

४. एतेन वै देवा अग्रं पर्यायं स्तदाग्रायणस्याग्रायणत्वम् । काठ १२,७ ।  

५. गायत्र्या एष लोके सोमो गृह्यते, यदाग्रायणः । मैसं ४,,१ ।

६. जागत (जगति [मै.) आग्रायणः । मै ४,,; काठ ३०,, ४६,५ ।

. ते देवा एतमाग्रायणमपश्यं   स्तमगृह्णत तेनाग्रं पर्यायन्, यदग्रं पर्यायं   स्तदाग्रायणस्याग्रायणत्वम् । काठ २७,९ ।

८. यदकृत्वाऽऽग्रायणं (यदनिष्ट्वाऽऽग्रायणेन [काठ.) नवस्याश्नीयाद् देवानां भागं प्रतिक्लृप्तमश्नीयाद् (मद्याद् [काठ.]) आर्त्तिमार्छेत् । मै ४,,; काठ १२,७ ।

९. यद्वैश्वदेवं तेनाग्रायण उक्थवान् । काठ २८,१०; क ४५,१ (तु. मै ४,,१)।

 

यदाग्रायणपात्रं प्रयुज्यते सर्वा एव तेन प्रजा दाधार । काठ २८,१०; क ४५,१ । आग्रायणाग्र

य आनुजावरः स आग्रायणाग्रान् (ग्रहान् गृह्णीत) । मै ४,,९ ।

 

आग्रयण- (अव्य०) इष्टियज्ञेषु प्रकृतिभूतदर्शपूर्णमासविकृतौ हविर्यागानां चतुर्थी संस्था, अग्रे नवान्नोत्पत्त्यनन्तरमादौ अयनमाचरणं यस्य तत् आग्रयणमित्युच्यते। एतत् कृत्वैव नवमन्नं प्राश्यते नाकृत्वेति । तु० का० श्रौ० १।८।६ टि० विद्याधरः। तत्र व्रीहिश्यामकयवानां नवोत्पन्नानां भक्षणं तेन तेन द्रव्येण अग्निहोत्रहोमानन्तरं समन्त्रकं भवति । अथवा तद् व्रीह्यादिद्रव्यमग्निहोत्रहोमपय: प्रदां गां भक्षयित्वा तद्विकृतिभूते न पयसा अग्निहोत्रहोमं नित्यं कृत्वा समन्त्रकम्भक्षणं भवति। तदेतदाग्रयणं चतुर्धा भिद्यते-श्यामाकाग्रयणं, व्रीह्याग्रयणं, यवाग्रयणं, वेणुयवाग्रयणमिति । तत्र वेणुजन्यानि गोधूमसदृशानि बीजानि वेणुयवा इत्युच्यन्ते (तु०- मी०को० पृ० ८५३)। तत्र व्रीह्याग्रयणकाल: शरत् । श्यामाकाग्रयणकालो वर्षाः। यवाग्रयणकालो वसन्तः। इति विशेषोऽवगन्तव्य: । द्र० श्रौ०प०नि० पृ०७४।

आग्रयणपात्रे प्रातःसवने सोमग्रहण- (आध्व०) अग्निष्टोमे प्रात: सवने आग्रयणस्थं सोमं पात्रान्तरेऽवनीय तेनोदञ्चनेन च द्वयोर्धारयोरधस्तादाग्रयणं गृह्णाति–'ये देवासो० यज्जुषध्वम् । उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवभ्यो जुष्टं पुन: गृह्णामि' इति । ततो मन्त्रेण 'हिं हिं हिं सोम: पवते सोम: पवतेऽस्मै ब्रह्मणैऽस्मै क्षत्राय पवतेऽस्मै विशे पवत इषे पवत ऊर्जे पवतेऽद्भ्यः पवत औषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवतेऽस्मै सुन्वते यजमानाय पवते ज्येष्ठ्याय पवते ।' अविच्छिद्योपरि मन्त्रं वदति-'आग्रयणोऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिमभिसवना पाहि विष्णुस्त्वां पातु विश्वं त्वं पाहीन्द्रियेण'। परिमृज्य सादयति--एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः' इति । तदिदमाग्रयणपात्रे (स्थाल्यां) सोमग्रहणमुच्यते । द्र० आग्नेयपात्रे सोमग्रहण- श्रौ०प०नि० पृ० २७५ ।

आग्रयणपात्रे तृतीयसवने सोमग्रहण--

(आध्व०) सोमयज्ञेषु तृतीयसवने अध्वर्यु: आग्रयणस्थं सोमं पात्रान्तरेऽवनीय तदादत्ते। प्रतिप्रस्थाता सोपशयामादित्यस्थालीम् उन्नेत्रा उदञ्चनादि चतुष्टयमुपर्यवनीय चतसृणां धाराणामधस्तादाग्रयणं प्रात:सवनवद् गृहीत्वाऽभिहिङ्कृत्याधिवेदनं कृत्वा परिमृज्य सादयतीति । तत्र सादनात् पूर्वमत्याक्रम्याश्राव्याह--'आदित्येभ्य: प्रेष्या इति । वषट्कृते बर्हिर्मुष्टिमग्नौ प्रक्षिप्यादित्यं जुहोति । नान्वीक्षते । पर्यावृत्तस्य प्रतिप्रस्थाता पात्रमादत्ते उपवेशननिरसनान्ते प्रतिहर्त्रा पूतभृति पवित्रे वितते उन्नेता आधवनीयाद् द्वौ त्रीन् वोदञ्चनान् तस्मिन्नवनयतीति विशेषोऽवगन्तव्य: । द्र० श्रौ०प०नि० पृ० ३०६ ।

आग्रयणग्रह- (सा०, आध्व०) सोमयज्ञेषु प्रात:सवने आग्रयणग्रहो गृह्यते । द्र० मी० को० पृ० ८५७ ।

आग्रयणग्रहाग्रत्व—(आध्व०) सोमयज्ञेषु १. व्यूढे द्वादशाहे चतुर्थपञ्चमयो: नवमे चाह:सु, समूढे च चतुर्थसप्तमैकादशसु अहःसु आग्रयणग्रहस्य अग्रता भवति । द्र० मी०को० पृ० ८५७ । २. धाराग्रहेषु आग्रयणग्रहागत्वम् । द्र० धाराग्रह-।

आग्रयणहविस्- (आध्व०) इष्टियज्ञेषु   हविर्यागानां चतुर्थे आग्रयणप्रकरणे श्यामाकाग्रयणे सौम्यश्चरुः । व्रीहियवाग्रायणयोरेन्द्राग्नो द्वादशकपाल: वैश्वदेवश्चरुः द्यावापृथिव्य एककपालश्चेति त्रीणि त्रीणि हवींषि भवन्ति । तत्र च सर्वत्र पुष्पितमेव बर्हिरुपयुज्यते इति विशेषोऽवधेयः। - श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोषः। प. पीताम्बरदत्तशास्त्री(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५)